English Edition
    Library / Philosophy and Religion

    Muktika Upanishad of Shukla Yajurveda

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    मुक्तिकोपनिषत्

    muktikopaniṣat

    ईशाद्यष्टोत्तरशतवेदान्तपटलाशयम् ।
    मुक्तिकोपनिषद्वेद्यं रामचन्द्रपदं भजे ॥

    īśādyaṣṭottaraśatavedāntapaṭalāśayam ।
    muktikopaniṣadvedyaṃ rāmacandrapadaṃ bhaje ॥

    हरिः ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    hariḥ oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॐ अयोध्यानगरे रम्ये रत्नमण्डपमध्यमे ।
    सीताभरतसौमित्रिशत्रुघ्नाद्यैः समन्वितम् ॥ १॥

    oṃ ayodhyānagare ramye ratnamaṇḍapamadhyame ।
    sītābharatasaumitriśatrughnādyaiḥ samanvitam ॥ 1॥

    सनकाद्यैर्मुनिगणैर्वसिष्ठाद्यैः शुकादिभिः ।
    अन्यैर्भागवतैश्चापि स्तूयमानमहर्निशम् ॥ २॥

    sanakādyairmunigaṇairvasiṣṭhādyaiḥ śukādibhiḥ ।
    anyairbhāgavataiścāpi stūyamānamaharniśam ॥ 2॥

    धीविक्रियासहस्राणां साक्षिणं निर्विकारिणम् ।
    स्वरूपध्याननिरतं समाधिविरमे हरिम् ॥ ३॥

    dhīvikriyāsahasrāṇāṃ sākṣiṇaṃ nirvikāriṇam ।
    svarūpadhyānanirataṃ samādhivirame harim ॥ 3॥

    भक्त्या शुश्रूषया रामं स्तुवन्पप्रच्छ मारुतिः ।
    राम त्वं परमात्मसि सच्चिदानन्दविग्रहः ॥ ४॥

    bhaktyā śuśrūṣayā rāmaṃ stuvanpapraccha mārutiḥ ।
    rāma tvaṃ paramātmasi saccidānandavigrahaḥ ॥ 4॥

    इदानीं त्वां रघुश्रेष्ठ प्रणमामि मुहुर्मुहुः ।
    त्वद्रूपं ज्ञातुमिच्छामि तत्त्वतो राम मुक्तये ॥ ५॥

    idānīṃ tvāṃ raghuśreṣṭha praṇamāmi muhurmuhuḥ ।
    tvadrūpaṃ jñātumicchāmi tattvato rāma muktaye ॥ 5॥

    अनायासेन येनाहं मुच्येयं भवबन्धनात् ।
    कृपया वद मे राम येन मुक्तो भवाम्यहम् ॥ ६॥

    anāyāsena yenāhaṃ mucyeyaṃ bhavabandhanāt ।
    kṛpayā vada me rāma yena mukto bhavāmyaham ॥ 6॥

    साधु पृष्टं महाबाहो वदामि शृणु तत्त्वतः ।
    वेदान्ते सुप्रतिष्ठोऽहं वेदान्तं समुपाश्रय ॥ ७॥

    sādhu pṛṣṭaṃ mahābāho vadāmi śṛṇu tattvataḥ ।
    vedānte supratiṣṭho'haṃ vedāntaṃ samupāśraya ॥ 7॥

    वेदान्ताः के रघुश्रेष्ठ वर्तन्ते कुत्र ते वद ।
    हनूमञ्छृणु वक्ष्यामि वेदान्तस्थितिमञ्जसा ॥ ८॥

    vedāntāḥ ke raghuśreṣṭha vartante kutra te vada ।
    hanūmañchṛṇu vakṣyāmi vedāntasthitimañjasā ॥ 8॥

    निश्वासभूता मे विष्णोर्वेदा जाताः सुविस्तराः ।
    तिलेषु तैलवद्वेदे वेदान्तः सुप्रतिष्ठितः ॥ ९॥

    niśvāsabhūtā me viṣṇorvedā jātāḥ suvistarāḥ ।
    tileṣu tailavadvede vedāntaḥ supratiṣṭhitaḥ ॥ 9॥

    राम वेदाः कतिविधास्तेषां शाखाश्च राघव ।
    तासूपनिषदाः काः स्युः कृपया वद तत्त्वतः ॥ १०॥

    rāma vedāḥ katividhāsteṣāṃ śākhāśca rāghava ।
    tāsūpaniṣadāḥ kāḥ syuḥ kṛpayā vada tattvataḥ ॥ 10॥

    श्रीराम उवाच ।
    ऋग्वेदादिविभागेन वेदाश्चत्वार ईरिताः ।
    तेषां शाखा ह्यनेकाः स्युस्तासूपनिषदस्तथा ॥ ११॥

    śrīrāma uvāca ।
    ṛgvedādivibhāgena vedāścatvāra īritāḥ ।
    teṣāṃ śākhā hyanekāḥ syustāsūpaniṣadastathā ॥ 11॥

    ऋग्वेदस्य तु शाखाः स्युरेकविंशतिसङ्ख्यकाः ।
    नवाधिकशतं शाखा यजुषो मारुतात्मज ॥ १२॥

    ṛgvedasya tu śākhāḥ syurekaviṃśatisaṅkhyakāḥ ।
    navādhikaśataṃ śākhā yajuṣo mārutātmaja ॥ 12॥

    सहस्रसङ्ख्यया जाताः शाखाः साम्नः परन्तप ।
    अथर्वणस्य शाखाः स्युः पञ्चाशद्भेदतो हरे ॥ १३॥

    sahasrasaṅkhyayā jātāḥ śākhāḥ sāmnaḥ parantapa ।
    atharvaṇasya śākhāḥ syuḥ pañcāśadbhedato hare ॥ 13॥

    एकैकस्यास्तु शाखाया एकैकोपनिषन्मता ।
    तासामेकामृचं यश्च पठते भक्तितो मयि ॥ १४॥

    ekaikasyāstu śākhāyā ekaikopaniṣanmatā ।
    tāsāmekāmṛcaṃ yaśca paṭhate bhaktito mayi ॥ 14॥

    स मत्सायुज्यपदवीं प्राप्नोति मुनिदुर्लभाम् ।
    राम केचिन्मुनिश्रेष्ठा मुक्तिरेकेति चक्षिरे ॥ १५॥

    sa matsāyujyapadavīṃ prāpnoti munidurlabhām ।
    rāma kecinmuniśreṣṭhā muktireketi cakṣire ॥ 15॥

    केचित्त्वन्नामभजनात्काश्यां तारोपदेशतः ।
    अन्येतु साङ्ख्ययोगेन भक्तियोगेन चापरे ॥ १६॥

    kecittvannāmabhajanātkāśyāṃ tāropadeśataḥ ।
    anyetu sāṅkhyayogena bhaktiyogena cāpare ॥ 16॥

    अन्ये वेदान्तवाक्यार्थविचारात्परमर्षयः ।
    सालोक्यादिविभागेन चतुर्धा मुक्तिरीरिता ॥ १७॥

    anye vedāntavākyārthavicārātparamarṣayaḥ ।
    sālokyādivibhāgena caturdhā muktirīritā ॥ 17॥

    सहोवाच श्रीरामः ।
    कैवल्यमुक्तिरेकैव परमार्थिकरूपिणी ।
    दुराचाररतो वापि मन्नामभजनात्कपे ॥ १८॥

    sahovāca śrīrāmaḥ ।
    kaivalyamuktirekaiva paramārthikarūpiṇī ।
    durācārarato vāpi mannāmabhajanātkape ॥ 18॥

    सालोक्यमुक्तिमाप्नोति न तु लोकान्तरादिकम् ।
    काश्यां तु ब्रह्मनालेऽस्मिन्मृतो मत्तारमाप्नुयात् ॥ १९॥

    sālokyamuktimāpnoti na tu lokāntarādikam ।
    kāśyāṃ tu brahmanāle'sminmṛto mattāramāpnuyāt ॥ 19॥

    पुनरावृत्तिरहितां मुक्तिं प्राप्नोति मानवः ।
    यत्र कुत्रापि वा काश्यां मरणे स महेश्वरः ॥ २०॥

    punarāvṛttirahitāṃ muktiṃ prāpnoti mānavaḥ ।
    yatra kutrāpi vā kāśyāṃ maraṇe sa maheśvaraḥ ॥ 20॥

    जन्तोर्दक्षिणकर्णे तु मत्तारं समुपादिशेत् ।
    निर्धूताशेषपापौघो मत्सारूप्यं भजत्ययम् ॥ २१॥

    jantordakṣiṇakarṇe tu mattāraṃ samupādiśet ।
    nirdhūtāśeṣapāpaugho matsārūpyaṃ bhajatyayam ॥ 21॥

    सैव सालोक्यसारूप्यमुक्तिरत्यभिधीयते ।
    सदाचाररतो भूत्वा द्विजो नित्यमनन्यधीः ॥ २२॥

    saiva sālokyasārūpyamuktiratyabhidhīyate ।
    sadācārarato bhūtvā dvijo nityamananyadhīḥ ॥ 22॥

    मयि सर्वात्मको भावो मत्सामीप्यं भजत्ययम् ।
    सैव सालोक्यसारूप्यसामीप्या मुक्तिरिष्यते ॥ २३॥

    mayi sarvātmako bhāvo matsāmīpyaṃ bhajatyayam ।
    saiva sālokyasārūpyasāmīpyā muktiriṣyate ॥ 23॥

    गुरूपदिष्टमार्गेण ध्यायन्मद्गुणमव्ययम् ।
    मत्सायुज्यं द्विजः सम्यग्भजेद्भ्रमरकीटवत् ॥ २४॥

    gurūpadiṣṭamārgeṇa dhyāyanmadguṇamavyayam ।
    matsāyujyaṃ dvijaḥ samyagbhajedbhramarakīṭavat ॥ 24॥

    सैव सायुज्यमुक्तिः स्याद्ब्रह्मानन्दकरी शिवा ।
    चतुर्विधा तु या मुक्तिर्मदुपासनया भवेत् ॥ २५॥

    saiva sāyujyamuktiḥ syādbrahmānandakarī śivā ।
    caturvidhā tu yā muktirmadupāsanayā bhavet ॥ 25॥

    इयं कैवल्यमुक्तिस्तु केनोपायेन सिद्ध्यति ।
    माण्डूक्यमेकमेवालं मुमुक्षूणां विमुक्तये ॥ २६॥

    iyaṃ kaivalyamuktistu kenopāyena siddhyati ।
    māṇḍūkyamekamevālaṃ mumukṣūṇāṃ vimuktaye ॥ 26॥

    तथाप्यसिद्धं चेज्ज्ञानं दशोपनिषदं पठ ।
    ज्ञानं लब्ध्वा चिरादेव मामकं धाम यास्यसि ॥ २७॥

    tathāpyasiddhaṃ cejjñānaṃ daśopaniṣadaṃ paṭha ।
    jñānaṃ labdhvā cirādeva māmakaṃ dhāma yāsyasi ॥ 27॥

    तथापि दृढता न चेद्विद्ज्ञानस्याञ्जनासुत ।
    द्वात्रिंशाख्योपनिषदं समभ्यस्य निवर्तय ॥ २८॥

    tathāpi dṛḍhatā na cedvidjñānasyāñjanāsuta ।
    dvātriṃśākhyopaniṣadaṃ samabhyasya nivartaya ॥ 28॥

    विदेहमुक्ताविच्छा चेदष्टोत्तरशतं पठ ।
    तासां क्रम सशान्तिं च श्रुणु वक्ष्यामि तत्त्वतः ॥ २९॥

    videhamuktāvicchā cedaṣṭottaraśataṃ paṭha ।
    tāsāṃ krama saśāntiṃ ca śruṇu vakṣyāmi tattvataḥ ॥ 29॥

    ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः ।
    ऐतरेयं च छान्दोग्यं बृहदारण्यकं तथा ॥ ३०॥

    īśakenakaṭhapraśnamuṇḍamāṇḍūkyatittiriḥ ।
    aitareyaṃ ca chāndogyaṃ bṛhadāraṇyakaṃ tathā ॥ 30॥

    ब्रह्मकैवल्यजाबालश्वेताश्वो हंस आरुणिः ।
    गर्भो नारायणो हंसो बिन्दुर्नादशिरः शिखा ॥ ३१॥

    brahmakaivalyajābālaśvetāśvo haṃsa āruṇiḥ ।
    garbho nārāyaṇo haṃso bindurnādaśiraḥ śikhā ॥ 31॥

    मैत्रायणी कौषीतकी बृहज्जाबालतापनी ।
    कालाग्निरुद्रमैत्रेयी सुबालक्षुरिमन्त्रिका ॥ ३२॥

    maitrāyaṇī kauṣītakī bṛhajjābālatāpanī ।
    kālāgnirudramaitreyī subālakṣurimantrikā ॥ 32॥

    सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् ।
    तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ॥ ३३॥

    sarvasāraṃ nirālambaṃ rahasyaṃ vajrasūcikam ।
    tejonādadhyānavidyāyogatattvātmabodhakam ॥ 33॥

    परिव्राट् त्रिशिखी सीता चूडा निर्वाणमण्डलम् ।
    दक्षिणा शरभं स्कन्दं महानारायणाह्वयम् ॥ ३४॥

    parivrāṭ triśikhī sītā cūḍā nirvāṇamaṇḍalam ।
    dakṣiṇā śarabhaṃ skandaṃ mahānārāyaṇāhvayam ॥ 34॥

    रहस्यं रामतपनं वासुदेवं च मुद्गलम् ।
    शाण्डिल्यं पैङ्गलं भिक्षुमहच्छारीरकं शिखा ॥ ३५॥

    rahasyaṃ rāmatapanaṃ vāsudevaṃ ca mudgalam ।
    śāṇḍilyaṃ paiṅgalaṃ bhikṣumahacchārīrakaṃ śikhā ॥ 35॥

    तुरीयातीतसंन्यासपरिव्राजाक्षमालिका ।
    अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुण्डिका ॥ ३६॥

    turīyātītasaṃnyāsaparivrājākṣamālikā ।
    avyaktaikākṣaraṃ pūrṇā sūryākṣyadhyātmakuṇḍikā ॥ 36॥

    सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् ।
    त्रिपुरातपनं देवीत्रिपुरा कठभावना ।
    हृदयं कुण्डली भस्म रुद्राक्षगणदर्शनम् ॥ ३७॥

    sāvitryātmā pāśupataṃ paraṃ brahmāvadhūtakam ।
    tripurātapanaṃ devītripurā kaṭhabhāvanā ।
    hṛdayaṃ kuṇḍalī bhasma rudrākṣagaṇadarśanam ॥ 37॥

    तारसारमहावाक्य पञ्चब्रह्माग्निहोत्रकम् ।
    गोपालतपनं कृष्णं याज्ञवल्क्यं वराहकम् ॥ ३८॥

    tārasāramahāvākya pañcabrahmāgnihotrakam ।
    gopālatapanaṃ kṛṣṇaṃ yājñavalkyaṃ varāhakam ॥ 38॥

    शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् ।
    कलिजाबालिसौभाग्यरहस्यऋचमुक्तिका ॥ ३९॥

    śāṭyāyanī hayagrīvaṃ dattātreyaṃ ca gāruḍam ।
    kalijābālisaubhāgyarahasyaṛcamuktikā ॥ 39॥

    एवमष्टोत्तरशतं भावनात्रयनाशनम् ।
    ज्ञानवैराग्यदं पुंसां वासनात्रयनाशनम् ॥ ४०॥

    evamaṣṭottaraśataṃ bhāvanātrayanāśanam ।
    jñānavairāgyadaṃ puṃsāṃ vāsanātrayanāśanam ॥ 40॥

    पूर्वोत्तरेषु विहिततत्तच्छान्तिपुरःसरम् ।
    वेदविद्याव्रतस्नातदेशिकस्य मुखात्स्वयम् ॥ ४१॥

    pūrvottareṣu vihitatattacchāntipuraḥsaram ।
    vedavidyāvratasnātadeśikasya mukhātsvayam ॥ 41॥

    गृहीत्वाष्टोत्तरशतं ये पठन्ति द्विजोत्तमाः ।
    प्रारब्धक्षयपर्यन्तं जीवन्मुक्ता भवन्ति ते ॥ ४२॥

    gṛhītvāṣṭottaraśataṃ ye paṭhanti dvijottamāḥ ।
    prārabdhakṣayaparyantaṃ jīvanmuktā bhavanti te ॥ 42॥

    ततः कालवशादेव प्रारब्धे तु क्षयं गते ।
    वैदेहीं मामकीं मुक्तिं यान्ति नास्त्यत्रसंशयः ॥ ४३॥

    tataḥ kālavaśādeva prārabdhe tu kṣayaṃ gate ।
    vaidehīṃ māmakīṃ muktiṃ yānti nāstyatrasaṃśayaḥ ॥ 43॥

    सर्वोपनिषदां मध्ये सारमष्टोत्तरशतम् ।
    सकृच्छ्रवणमात्रेण सर्वाघौघनिकृन्तनम् ॥ ४४॥

    sarvopaniṣadāṃ madhye sāramaṣṭottaraśatam ।
    sakṛcchravaṇamātreṇa sarvāghaughanikṛntanam ॥ 44॥

    मयोपदिष्टं शिष्याय तुभ्यं पवननन्दन ।
    इदं शास्त्रं मयादिष्टं गुह्यमष्टोत्तरं शतम् ॥ ४५॥

    mayopadiṣṭaṃ śiṣyāya tubhyaṃ pavananandana ।
    idaṃ śāstraṃ mayādiṣṭaṃ guhyamaṣṭottaraṃ śatam ॥ 45॥

    ज्ञानतोऽज्ञानतो वापि पठतां बन्धमोचकम् ।
    राज्यं देयं धनं देयं याचतः कामपूरणम् ॥ ४५॥

    jñānato'jñānato vāpi paṭhatāṃ bandhamocakam ।
    rājyaṃ deyaṃ dhanaṃ deyaṃ yācataḥ kāmapūraṇam ॥ 45॥

    इदमष्टोत्तरशतं न देयं यस्य कस्यचित् ।
    नास्तिकाय कृतघ्नाय दुराचाररताय वै ॥ ४७॥

    idamaṣṭottaraśataṃ na deyaṃ yasya kasyacit ।
    nāstikāya kṛtaghnāya durācāraratāya vai ॥ 47॥

    मद्भक्तिविमुखायापि शास्त्रगर्तेषु मुह्यते ।
    गुरुभक्तिविहीनाय दातव्यं न कदाचन ॥ ४८॥

    madbhaktivimukhāyāpi śāstragarteṣu muhyate ।
    gurubhaktivihīnāya dātavyaṃ na kadācana ॥ 48॥

    सेवापराय शिष्याय हितपुत्राय मारुते ।
    मद्भक्ताय सुशीलाय कुलीनाय सुमेधसे ॥ ४९॥

    sevāparāya śiṣyāya hitaputrāya mārute ।
    madbhaktāya suśīlāya kulīnāya sumedhase ॥ 49॥

    सम्यक् परीक्ष्य दातव्यमेवमष्टोत्तरं शतम् ।
    यः पठेच्छृणुयाद्वापि स मामेति न संशयः ।
    तदेतदृचाभ्युक्तम् ।
    विद्या ह वै ब्राह्मणमाजगाम
    गोपाय मा शेवधिष्टीऽहमस्मि ।
    असूयकायानृजवे शठाय
    मा मा ब्रूया वीर्यवती तथा स्याम् ।
    यमेव विद्याश्रुतमप्रमत्तं
    मेधाविनं ब्रह्मचर्योपपन्नम् ।
    तस्मा इमामुपसन्नाय सम्यक्
    परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् ॥ १॥ इति ॥

    samyak parīkṣya dātavyamevamaṣṭottaraṃ śatam ।
    yaḥ paṭhecchṛṇuyādvāpi sa māmeti na saṃśayaḥ ।
    tadetadṛcābhyuktam ।
    vidyā ha vai brāhmaṇamājagāma
    gopāya mā śevadhiṣṭī'hamasmi ।
    asūyakāyānṛjave śaṭhāya
    mā mā brūyā vīryavatī tathā syām ।
    yameva vidyāśrutamapramattaṃ
    medhāvinaṃ brahmacaryopapannam ।
    tasmā imāmupasannāya samyak
    parīkṣya dadyādvaiṣṇavīmātmaniṣṭhām ॥ 1॥ iti ॥

    अथ हैनं श्रीरामचन्द्रं मारुतिः पप्रच्छ
    ऋग्वेदादिविभागेन पृथक् शान्तिमनुब्रूहीति ।
    स होवाच श्रीरामः ।
    ऐतरेयकौषीतकीनादबिन्द्वात्मप्रबोधनिर्वाण-
    मुद्गलाक्षमालिकात्रिपुरासौभाग्यबह्वृचा
    नामृग्वेदगतानां दशसंख्याकानामुपनिषदां
    वाङ्मे मनसीति शान्तिः ॥ १॥

    atha hainaṃ śrīrāmacandraṃ mārutiḥ papraccha
    ṛgvedādivibhāgena pṛthak śāntimanubrūhīti ।
    sa hovāca śrīrāmaḥ ।
    aitareyakauṣītakīnādabindvātmaprabodhanirvāṇa-
    mudgalākṣamālikātripurāsaubhāgyabahvṛcā
    nāmṛgvedagatānāṃ daśasaṃkhyākānāmupaniṣadāṃ
    vāṅme manasīti śāntiḥ ॥ 1॥

    ईशावास्यबृहदारण्यजाबालहंसपरमहंससुबाल-
    मन्त्रिकानिरालम्बत्रिशिखीब्राह्मणमण्डलब्राह्मणाद्वयतारक-
    पैङ्गलभिक्षुतुरीयातीताध्यात्मतारसारयाज्ञवल्क्य-
    शाट्यायनीमुक्तिकानां शुक्लयजुर्वेदगतानामेकोनविंशति-
    संख्याकानामुपनिषदां पूर्णमद इति शान्तिः ॥ २॥

    īśāvāsyabṛhadāraṇyajābālahaṃsaparamahaṃsasubāla-
    mantrikānirālambatriśikhībrāhmaṇamaṇḍalabrāhmaṇādvayatāraka-
    paiṅgalabhikṣuturīyātītādhyātmatārasārayājñavalkya-
    śāṭyāyanīmuktikānāṃ śuklayajurvedagatānāmekonaviṃśati-
    saṃkhyākānāmupaniṣadāṃ pūrṇamada iti śāntiḥ ॥ 2॥

    कठवल्लीतैत्तिरीयकब्रह्मकैवल्यश्वेताश्वतरगर्भ-
    नारायणामृतबिन्द्वमृतनादकालाग्निरुद्रक्षुरिका-
    सर्वसारशुकरहस्यतेजोबिन्दुध्यानबिन्दुब्रह्मविद्या-
    योगतत्त्वदक्षिणामूर्तिस्कन्दशारीरकयोगशिखैकाक्षर-
    अक्ष्यवधूतकठरुद्रहृदययोगकुण्डलिनीपञ्चब्रह्म-
    प्राणाग्निहोत्रवराहकलिसन्तरणसरस्वतीरहस्यानां
    कृष्णयजुर्वेदगतानां द्वात्रिंशत्संख्याकानमुपनिषदां
    सह नाववत्विति शान्तिः ॥ ३॥

    kaṭhavallītaittirīyakabrahmakaivalyaśvetāśvataragarbha-
    nārāyaṇāmṛtabindvamṛtanādakālāgnirudrakṣurikā-
    sarvasāraśukarahasyatejobindudhyānabindubrahmavidyā-
    yogatattvadakṣiṇāmūrtiskandaśārīrakayogaśikhaikākṣara-
    akṣyavadhūtakaṭharudrahṛdayayogakuṇḍalinīpañcabrahma-
    prāṇāgnihotravarāhakalisantaraṇasarasvatīrahasyānāṃ
    kṛṣṇayajurvedagatānāṃ dvātriṃśatsaṃkhyākānamupaniṣadāṃ
    saha nāvavatviti śāntiḥ ॥ 3॥

    केनछान्दोग्यारुणिमैत्रायणिमैत्रेयीवज्रसूचिकायोगचूडामणि-
    वासुदेवमहत्संन्यासाव्यक्तकुण्डिकासावित्रीरुद्राक्षजाबालदर्शन-
    जाबालीनां सामवेदगतानां षोडशसंख्याकाना-
    मुपनिषदानामाप्यायन्त्विति शान्तिः ॥ ४॥

    kenachāndogyāruṇimaitrāyaṇimaitreyīvajrasūcikāyogacūḍāmaṇi-
    vāsudevamahatsaṃnyāsāvyaktakuṇḍikāsāvitrīrudrākṣajābāladarśana-
    jābālīnāṃ sāmavedagatānāṃ ṣoḍaśasaṃkhyākānā-
    mupaniṣadānāmāpyāyantviti śāntiḥ ॥ 4॥

    प्रश्नमुण्डकमाण्डुक्याथर्वशिरोऽथर्वशिखाबृहज्जाबाल-
    नृसिंहतापनीनारदपरिव्राजकसीताशरभमहानारायण-
    रामरहस्यरामतापनीशाण्डिल्यपरमहंसपरिव्राजक-
    अन्नपूर्णासूर्यात्मपाशुपतपरब्रह्मत्रिपुरातपनदेवीभावना-
    ब्रह्मजाबालगणपतिमहावाक्यगोपालतपनकृष्णहयग्रीव-
    दत्तात्रेयगारुडानामथर्ववेदगतानामेकत्रिंशत्संख्याकाना-
    मुपनिषदां भद्रं कर्णेभिरिति शान्तिः ॥ ५॥

    praśnamuṇḍakamāṇḍukyātharvaśiro'tharvaśikhābṛhajjābāla-
    nṛsiṃhatāpanīnāradaparivrājakasītāśarabhamahānārāyaṇa-
    rāmarahasyarāmatāpanīśāṇḍilyaparamahaṃsaparivrājaka-
    annapūrṇāsūryātmapāśupataparabrahmatripurātapanadevībhāvanā-
    brahmajābālagaṇapatimahāvākyagopālatapanakṛṣṇahayagrīva-
    dattātreyagāruḍānāmatharvavedagatānāmekatriṃśatsaṃkhyākānā-
    mupaniṣadāṃ bhadraṃ karṇebhiriti śāntiḥ ॥ 5॥

    मुमुक्षवः पुरुषाः साधनचतुष्टयसम्पन्नाः
    श्रद्धावन्तः सुकुलभवं श्रोत्रियं शास्त्रवात्सल्य-
    गुणवन्तमकुटिलं सर्वभूतहितेरतं दयासमुद्रं सद्गुरुं
    विधिवदुपसंगम्योपहारपाणयोऽष्टोत्तरशतोपनिषदं
    विधिवदधीत्य श्रवणमनननिदिध्यासनानि नैरन्तर्येण कृत्वा
    प्रारब्धक्षयाद्देहत्रयभंगं प्राप्योपाधिविनिर्मुक्त-
    घटाकाशवत्परिपूर्णता विदेहमुक्तिः । सैव कैवल्यमुक्तिरिति ।
    अत एव ब्रह्मलोकस्था अपि ब्रह्ममुखाद्वेदान्तश्रवणादि कृत्वा
    तेन सह कैवल्यं लभन्ते । अतः सर्वेषां कैवल्यमुक्तिर्ज्ञानमात्रेणोक्ता ।
    न कर्मसांख्ययोगोपासनादिभिरित्युपनिषत् ॥

    mumukṣavaḥ puruṣāḥ sādhanacatuṣṭayasampannāḥ
    śraddhāvantaḥ sukulabhavaṃ śrotriyaṃ śāstravātsalya-
    guṇavantamakuṭilaṃ sarvabhūtahiterataṃ dayāsamudraṃ sadguruṃ
    vidhivadupasaṃgamyopahārapāṇayo'ṣṭottaraśatopaniṣadaṃ
    vidhivadadhītya śravaṇamanananididhyāsanāni nairantaryeṇa kṛtvā
    prārabdhakṣayāddehatrayabhaṃgaṃ prāpyopādhivinirmukta-
    ghaṭākāśavatparipūrṇatā videhamuktiḥ । saiva kaivalyamuktiriti ।
    ata eva brahmalokasthā api brahmamukhādvedāntaśravaṇādi kṛtvā
    tena saha kaivalyaṃ labhante । ataḥ sarveṣāṃ kaivalyamuktirjñānamātreṇoktā ।
    na karmasāṃkhyayogopāsanādibhirityupaniṣat ॥

    इति प्रथमोऽध्यायः ॥ १॥

    iti prathamo'dhyāyaḥ ॥ 1॥

    तथा हैनं श्रीरामचन्द्रं मारुतिः पप्रच्छ ।
    केयं वा तत्सिद्धिः सिद्ध्या वा किं प्रयोजनमिति ।
    सहोवाच श्रीरामः । पुरुषस्य कर्तृत्वभोक्तृत्व-
    सुखदुःखादिलक्षणश्चित्तधर्मः क्लेशरूपत्वाद्बन्धो
    भवति । तन्निरोधनं जीवन्मुक्तिः । उपाधिविनिर्मुक्त-
    घटाकाशवत्प्रारब्धक्षयाद्विदेहमुक्तिः ।
    जीवन्मुक्तिविदेहमुक्त्योरष्टोत्तरशतोपनिषदः प्रमाणम् ।
    कर्तृत्वादिदुःखनिवृत्तिद्वारा नित्यानन्दावाप्तिः प्रयोजनं
    भवति । तत्पुरुषप्रयत्नसाध्यं भवति । यथा पुत्रकामेष्टिना
    पुत्रं वाणिज्यादिना वित्तं ज्योतिष्टोमेन स्वर्गं तथा
    पुरुषप्रयत्नसाध्यवेदान्तश्रवणादिजनितसमाधिना
    जीवन्मुक्त्यादिलाभो भवति । सर्ववासनाक्षयात्तल्लाभः ।
    अत्र श्लोका भवन्ति ॥

    tathā hainaṃ śrīrāmacandraṃ mārutiḥ papraccha ।
    keyaṃ vā tatsiddhiḥ siddhyā vā kiṃ prayojanamiti ।
    sahovāca śrīrāmaḥ । puruṣasya kartṛtvabhoktṛtva-
    sukhaduḥkhādilakṣaṇaścittadharmaḥ kleśarūpatvādbandho
    bhavati । tannirodhanaṃ jīvanmuktiḥ । upādhivinirmukta-
    ghaṭākāśavatprārabdhakṣayādvidehamuktiḥ ।
    jīvanmuktividehamuktyoraṣṭottaraśatopaniṣadaḥ pramāṇam ।
    kartṛtvādiduḥkhanivṛttidvārā nityānandāvāptiḥ prayojanaṃ
    bhavati । tatpuruṣaprayatnasādhyaṃ bhavati । yathā putrakāmeṣṭinā
    putraṃ vāṇijyādinā vittaṃ jyotiṣṭomena svargaṃ tathā
    puruṣaprayatnasādhyavedāntaśravaṇādijanitasamādhinā
    jīvanmuktyādilābho bhavati । sarvavāsanākṣayāttallābhaḥ ।
    atra ślokā bhavanti ॥

    उच्छास्त्रं शास्त्रितं चेति पौरुषं द्विविधं मतम् ।
    अत्रोच्छस्त्रमनर्थाय परमार्थाय शास्त्रितम् ॥ १॥

    ucchāstraṃ śāstritaṃ ceti pauruṣaṃ dvividhaṃ matam ।
    atrocchastramanarthāya paramārthāya śāstritam ॥ 1॥

    लोकवासनया जन्तोः शास्त्रवासनयापि च ।
    देहवासनया ज्ञानं यथावन्नैव जायते ॥ २॥

    lokavāsanayā jantoḥ śāstravāsanayāpi ca ।
    dehavāsanayā jñānaṃ yathāvannaiva jāyate ॥ 2॥

    द्विविधा वासनाव्यूहः शुभश्चैवाशुभश्च तौ ।
    वासनौघेन शुद्धेन तत्र चेदनुनीयसे ॥ ३॥

    dvividhā vāsanāvyūhaḥ śubhaścaivāśubhaśca tau ।
    vāsanaughena śuddhena tatra cedanunīyase ॥ 3॥

    तत्क्रमेणाशु तेनैव मामकं पदमाप्नुहि ।
    अथ चेदशुभो भावस्त्वां योजयति संकटे ॥ ४॥

    tatkrameṇāśu tenaiva māmakaṃ padamāpnuhi ।
    atha cedaśubho bhāvastvāṃ yojayati saṃkaṭe ॥ 4॥

    प्राक्तनस्तदसौ यत्नाज्जेतव्यो भवता कपे ।
    शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् ॥ ५॥

    prāktanastadasau yatnājjetavyo bhavatā kape ।
    śubhāśubhābhyāṃ mārgābhyāṃ vahantī vāsanāsarit ॥ 5॥

    पौरुषेण प्रयत्नेन योजनीया शुभे पथि ।
    अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् ॥ ६॥

    pauruṣeṇa prayatnena yojanīyā śubhe pathi ।
    aśubheṣu samāviṣṭaṃ śubheṣvevāvatārayet ॥ 6॥

    अशुभाच्चालितं याति शुभं तस्मादपीतरत् ।
    पौरुषेण प्रयत्नेन लालयेच्चित्तबालकम् ॥७॥

    aśubhāccālitaṃ yāti śubhaṃ tasmādapītarat ।
    pauruṣeṇa prayatnena lālayeccittabālakam ॥7॥

    द्रागभ्यासवशाद्याति यदा ते वासनोदयम् ।
    तदाभ्यासस्य साफल्यं विद्धि त्वममरिमर्दन ॥ ८॥

    drāgabhyāsavaśādyāti yadā te vāsanodayam ।
    tadābhyāsasya sāphalyaṃ viddhi tvamamarimardana ॥ 8॥

    सन्दिग्धायामपि भृशं शुभामेव समाचर ।
    शुभायां वासनावृद्धौ न दोषाय मरुत्सुत ॥ ९॥

    sandigdhāyāmapi bhṛśaṃ śubhāmeva samācara ।
    śubhāyāṃ vāsanāvṛddhau na doṣāya marutsuta ॥ 9॥

    वासनाक्षयविज्ञानमनोनाशा महामते ।
    समकालं चिराभ्यस्ता भवन्ति फलदा मताः ॥ १०॥

    vāsanākṣayavijñānamanonāśā mahāmate ।
    samakālaṃ cirābhyastā bhavanti phaladā matāḥ ॥ 10॥

    त्रय एवं समं यावन्नाभ्यस्ताश्च पुनः पुनः ।
    तावन्न पदसम्प्राप्तिर्भवत्यपि समाशतैः ॥ ११॥

    traya evaṃ samaṃ yāvannābhyastāśca punaḥ punaḥ ।
    tāvanna padasamprāptirbhavatyapi samāśataiḥ ॥ 11॥

    एकैकशो निषेव्यन्ते यद्येते चिरमप्यलम् ।
    तन्न सिद्धिं प्रयच्छन्ति मन्त्राः संकीर्तिता इव ॥ १२॥

    ekaikaśo niṣevyante yadyete ciramapyalam ।
    tanna siddhiṃ prayacchanti mantrāḥ saṃkīrtitā iva ॥ 12॥

    त्रिभिरेतैश्चिराभ्यस्तैर्हृदयग्रन्थयो दृढाः ।
    निःशङ्कमेव त्रुठ्यन्ति बिसच्छेदाद्गुणा इव ॥ १३॥

    tribhiretaiścirābhyastairhṛdayagranthayo dṛḍhāḥ ।
    niḥśaṅkameva truṭhyanti bisacchedādguṇā iva ॥ 13॥

    जन्मान्तशताभ्यस्ता मिथ्या संसारवासना ।
    सा चिराभ्यासयोगेन विना न क्षीयते क्वचित् ॥ १४॥

    janmāntaśatābhyastā mithyā saṃsāravāsanā ।
    sā cirābhyāsayogena vinā na kṣīyate kvacit ॥ 14॥

    तस्मात्सौम्य प्रयत्नेन पौरुषेण विवेकिना ।
    भोगेच्छां दूरतस्त्यक्त्वा त्रयमेव समाश्रय ॥ १५॥

    tasmātsaumya prayatnena pauruṣeṇa vivekinā ।
    bhogecchāṃ dūratastyaktvā trayameva samāśraya ॥ 15॥

    तस्माद्वासनया युक्तं मनो बद्धं विदुर्बुधाः ।
    सम्यग्वासनया त्यक्तं मुक्तमित्यभिधीयते ।
    मनोनिर्वासनीभावमाचराशु महाकपे ॥ १६॥

    tasmādvāsanayā yuktaṃ mano baddhaṃ vidurbudhāḥ ।
    samyagvāsanayā tyaktaṃ muktamityabhidhīyate ।
    manonirvāsanībhāvamācarāśu mahākape ॥ 16॥

    सम्यगालोचनात्सत्याद्वासना प्रविलीयते ।
    वासनाविलये चेतः शममायाति दीपवत् ॥ १७॥

    samyagālocanātsatyādvāsanā pravilīyate ।
    vāsanāvilaye cetaḥ śamamāyāti dīpavat ॥ 17॥

    वासनां सम्परित्यज्य मयि चिन्मात्र विग्रहे ।
    यस्तिष्ठति गतो व्यग्रः सोऽहं सच्चित्सुखात्मकः ॥ १८॥

    vāsanāṃ samparityajya mayi cinmātra vigrahe ।
    yastiṣṭhati gato vyagraḥ so'haṃ saccitsukhātmakaḥ ॥ 18॥

    समाधिमथ कार्याणि मा करोतु करोतु वा ।
    हृदयेनात्तसर्वेहो मुक्त एवोत्तमाशयः ॥ १९॥

    samādhimatha kāryāṇi mā karotu karotu vā ।
    hṛdayenāttasarveho mukta evottamāśayaḥ ॥ 19॥

    नैष्कर्म्येण न तस्यार्थस्तस्यार्थोऽस्ति न कर्मभिः ।
    न ससाधनजाप्याभ्यां यस्य निर्वासनं मनः ॥ २०॥

    naiṣkarmyeṇa na tasyārthastasyārtho'sti na karmabhiḥ ।
    na sasādhanajāpyābhyāṃ yasya nirvāsanaṃ manaḥ ॥ 20॥

    संत्यक्तवासनान्मौनादृते नास्त्युत्तमं पदम् ॥ २१॥

    saṃtyaktavāsanānmaunādṛte nāstyuttamaṃ padam ॥ 21॥

    वासनाहीनमप्येतच्चक्षुरादीन्द्रियं स्वतः ।
    प्रवर्तते बहिः स्वाऽर्थे वासनामात्रकारणम् ॥ २२॥

    vāsanāhīnamapyetaccakṣurādīndriyaṃ svataḥ ।
    pravartate bahiḥ svā'rthe vāsanāmātrakāraṇam ॥ 22॥

    अयत्नोपनतेष्वक्षि दृग्द्रव्येषु यथा पुनः ।
    नीरागमेव पतति तद्वत्कार्येषु धीरधीः ॥ २३॥

    ayatnopanateṣvakṣi dṛgdravyeṣu yathā punaḥ ।
    nīrāgameva patati tadvatkāryeṣu dhīradhīḥ ॥ 23॥

    भावसंवित्प्रकटितामनुरूपा च मारुते ।
    चित्तस्योत्पत्युपरमा वासनां मुनयो विदुः ॥ २४॥

    bhāvasaṃvitprakaṭitāmanurūpā ca mārute ।
    cittasyotpatyuparamā vāsanāṃ munayo viduḥ ॥ 24॥

    दृढाभ्यस्तपदार्थैकभावनादतिचञ्चलम् ।
    चित्तं संजायते जन्मजरामरणकारणम् ॥ २५॥

    dṛḍhābhyastapadārthaikabhāvanādaticañcalam ।
    cittaṃ saṃjāyate janmajarāmaraṇakāraṇam ॥ 25॥

    वासनावशतः प्राणस्पन्दस्तेन च वासना ।
    क्रियते चित्तबीजस्य तेन बीजाङ्कुरक्रमः ॥ २६॥

    vāsanāvaśataḥ prāṇaspandastena ca vāsanā ।
    kriyate cittabījasya tena bījāṅkurakramaḥ ॥ 26॥

    द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने ।
    एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ॥ २७॥

    dve bīje cittavṛkṣasya prāṇaspandanavāsane ।
    ekasmiṃśca tayoḥ kṣīṇe kṣipraṃ dve api naśyataḥ ॥ 27॥

    असङ्गव्यवहारत्वाद्भवभावनवर्जनात् ।
    शरीरनाशदर्शित्वाद्वासना न प्रवर्तते ।
    वासनासम्परित्यागाच्चितं गच्छत्यचित्तताम् ॥ २८॥

    asaṅgavyavahāratvādbhavabhāvanavarjanāt ।
    śarīranāśadarśitvādvāsanā na pravartate ।
    vāsanāsamparityāgāccitaṃ gacchatyacittatām ॥ 28॥

    अवासनत्वात्सततं यदा न मनुते मनः ।
    अमनस्ता तदोदेति परमोपशमप्रदा ॥ २९॥

    avāsanatvātsatataṃ yadā na manute manaḥ ।
    amanastā tadodeti paramopaśamapradā ॥ 29॥

    अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः ।
    गुरुशास्त्रप्रमाणैस्तु निर्णीतं तावदाचर ॥ ३०॥

    avyutpannamanā yāvadbhavānajñātatatpadaḥ ।
    guruśāstrapramāṇaistu nirṇītaṃ tāvadācara ॥ 30॥

    ततः पक्वकषायेण नूनं विज्ञात वस्तुना ।
    शुभोऽप्यसौ त्वया त्याज्यो वासनौघो निराधिना ॥ ३१॥

    tataḥ pakvakaṣāyeṇa nūnaṃ vijñāta vastunā ।
    śubho'pyasau tvayā tyājyo vāsanaugho nirādhinā ॥ 31॥

    द्विविधचित्तनाशोऽस्ति सरूपोऽरूप एव च ।
    जीवन्मुक्तः सरूपः स्यादरूपो देहमुक्तिगः ॥ ३२॥

    dvividhacittanāśo'sti sarūpo'rūpa eva ca ।
    jīvanmuktaḥ sarūpaḥ syādarūpo dehamuktigaḥ ॥ 32॥

    अस्य नाशमिदानीं त्वं पावने श्रुणु सादरम् ॥ ३३।
    चित्तानाशाभिधानं हि यदा ते विद्यते पुनः ।
    मैत्र्यादिभिर्गुणैर्युक्तं शान्तिमेति न संशयः ।
    भूयोजन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः ॥ ३४॥

    asya nāśamidānīṃ tvaṃ pāvane śruṇu sādaram ॥ 33।
    cittānāśābhidhānaṃ hi yadā te vidyate punaḥ ।
    maitryādibhirguṇairyuktaṃ śāntimeti na saṃśayaḥ ।
    bhūyojanmavinirmuktaṃ jīvanmuktasya tanmanaḥ ॥ 34॥

    सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते ।
    अरूपस्तु मनोनाशो वैदेही मुक्तिगो भवेत् ॥ ३५॥

    sarūpo'sau manonāśo jīvanmuktasya vidyate ।
    arūpastu manonāśo vaidehī muktigo bhavet ॥ 35॥

    सहस्राङ्कुरशाखात्मफलपल्लवशालिनः ॥ ३६॥

    sahasrāṅkuraśākhātmaphalapallavaśālinaḥ ॥ 36॥

    अस्य संसारवृक्षस्य मनोमूलमिदं स्थितम् ।
    संकल्प एव तन्मन्ये संकल्पोपशमेन तत् ॥ ३७॥

    asya saṃsāravṛkṣasya manomūlamidaṃ sthitam ।
    saṃkalpa eva tanmanye saṃkalpopaśamena tat ॥ 37॥

    शोषयाशु यथा शोषमेति संसारपादपः ।
    उपाय एक एवास्ति मनसः स्वस्य निग्रहे ॥ ३८॥

    śoṣayāśu yathā śoṣameti saṃsārapādapaḥ ।
    upāya eka evāsti manasaḥ svasya nigrahe ॥ 38॥

    मनसोऽभ्युदयो नाशो मनोनाशो महोदयः ।
    ज्ञमनो नाशमभ्येति मनो ज्ञस्य हि शृङ्खला ॥ ३९॥

    manaso'bhyudayo nāśo manonāśo mahodayaḥ ।
    jñamano nāśamabhyeti mano jñasya hi śṛṅkhalā ॥ 39॥

    तावन्निशीव वेताला वल्गन्ति हृदि वासनाः ।
    एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः ॥ ४०॥

    tāvanniśīva vetālā valganti hṛdi vāsanāḥ ।
    ekatattvadṛḍhābhyāsādyāvanna vijitaṃ manaḥ ॥ 40॥

    प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः ।
    पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ॥ ४१॥

    prakṣīṇacittadarpasya nigṛhītendriyadviṣaḥ ।
    padminya iva hemante kṣīyante bhogavāsanāḥ ॥ 41॥

    हस्तं हस्तेन सम्पीड्य दन्तैर्दन्तान्विचूर्ण्य च ।
    अङ्गान्यङ्गैः समाक्रम्य जयेदादौ स्वकं मनः ॥ ४२॥

    hastaṃ hastena sampīḍya dantairdantānvicūrṇya ca ।
    aṅgānyaṅgaiḥ samākramya jayedādau svakaṃ manaḥ ॥ 42॥

    उपविश्योपविश्यैकां चिन्तकेन मुहुर्मुहुः ।
    न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् ॥ ४३॥

    upaviśyopaviśyaikāṃ cintakena muhurmuhuḥ ।
    na śakyate mano jetuṃ vinā yuktimaninditām ॥ 43॥

    अङ्कुशेन विना मत्तो यथा दुष्टमतङ्गजः ।
    अध्यात्मविद्याधिगमः साधुसंगतिरेव च ॥ ४४॥

    aṅkuśena vinā matto yathā duṣṭamataṅgajaḥ ।
    adhyātmavidyādhigamaḥ sādhusaṃgatireva ca ॥ 44॥

    वासनासम्परित्यागः प्राणस्पन्दनिरोधनम् ।
    एतास्ता युक्तयः पुष्टाः सन्ति चित्तजये किल ॥ ४५॥

    vāsanāsamparityāgaḥ prāṇaspandanirodhanam ।
    etāstā yuktayaḥ puṣṭāḥ santi cittajaye kila ॥ 45॥

    सतीषु युक्तिष्वेतासु हठान्नियमन्ति ये ।
    चेतसो दीपमुत्सृज्य विचिन्वन्ति तमोऽञ्जनैः ॥ ४६॥

    satīṣu yuktiṣvetāsu haṭhānniyamanti ye ।
    cetaso dīpamutsṛjya vicinvanti tamo'ñjanaiḥ ॥ 46॥

    विमूढाः कर्तुमुद्युक्ता ये हठाच्चेतसो जयम् ।
    ते निबध्नन्ति नागेन्द्रमुन्मत्तं बिसतन्तुभिः ॥ ४७॥

    vimūḍhāḥ kartumudyuktā ye haṭhāccetaso jayam ।
    te nibadhnanti nāgendramunmattaṃ bisatantubhiḥ ॥ 47॥

    द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारणः ।
    एकं प्राणपरिस्पन्दो द्वितीयं दृढभावना ॥ ४८॥

    dve bīje cittavṛkṣasya vṛttivratatidhāraṇaḥ ।
    ekaṃ prāṇaparispando dvitīyaṃ dṛḍhabhāvanā ॥ 48॥

    सा हि सर्वगता संवित्प्राणास्पन्देन चाल्यते ।
    चित्तैकाग्र्याद्यतो ज्ञानमुक्तं समुपजायते ॥ ४९॥

    sā hi sarvagatā saṃvitprāṇāspandena cālyate ।
    cittaikāgryādyato jñānamuktaṃ samupajāyate ॥ 49॥

    तत्साधनमथो ध्यानं यथावदुपदिश्यते ।
    विनाप्यविकृतिं कृत्स्नां संभवव्यत्ययक्रमात् ।
    यशोऽरिष्टं च चिन्मात्रं चिदानन्दं विचिन्तय ॥ ५०॥

    tatsādhanamatho dhyānaṃ yathāvadupadiśyate ।
    vināpyavikṛtiṃ kṛtsnāṃ saṃbhavavyatyayakramāt ।
    yaśo'riṣṭaṃ ca cinmātraṃ cidānandaṃ vicintaya ॥ 50॥

    अपानेऽस्तंगते प्राणो यावन्नाभ्युदितो हृदि ।
    तावत्सा कुंभकावस्था योगिभिर्यानुभूयते ॥ ५१॥

    apāne'staṃgate prāṇo yāvannābhyudito hṛdi ।
    tāvatsā kuṃbhakāvasthā yogibhiryānubhūyate ॥ 51॥

    बहिरस्तंगते प्राणे यावन्नापान उद्गतः ।
    तावत्पूर्णां समावस्थां बहिष्ठं कुम्भकं विदुः ॥ ५२॥

    bahirastaṃgate prāṇe yāvannāpāna udgataḥ ।
    tāvatpūrṇāṃ samāvasthāṃ bahiṣṭhaṃ kumbhakaṃ viduḥ ॥ 52॥

    ब्रह्माकारमनोवृत्तिप्रवाहोऽहंकृतं विना ।
    सम्प्रज्ञातसमाधिः स्याद्ध्यानाभ्यासप्रकर्षतः ॥ ५३॥

    brahmākāramanovṛttipravāho'haṃkṛtaṃ vinā ।
    samprajñātasamādhiḥ syāddhyānābhyāsaprakarṣataḥ ॥ 53॥

    प्रशान्तवृत्तिकं चित्तं परमानन्ददायकम् ।
    असम्प्रज्ञातनामायं समाधिर्योगिनां प्रियः ॥ ५४॥

    praśāntavṛttikaṃ cittaṃ paramānandadāyakam ।
    asamprajñātanāmāyaṃ samādhiryogināṃ priyaḥ ॥ 54॥

    प्रभाशून्यं मनःशून्यं बुद्धिशून्यं चिदात्मकम् ।
    अतद्व्यावृत्तिरूपोऽसौ समाधिर्मुनिभावितः ॥ ५५॥

    prabhāśūnyaṃ manaḥśūnyaṃ buddhiśūnyaṃ cidātmakam ।
    atadvyāvṛttirūpo'sau samādhirmunibhāvitaḥ ॥ 55॥

    ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं शिवात्मकम् ।
    साक्षाद्विधिमुखो ह्येष समाधिः पारमार्थिकः ॥ ५६॥

    ūrdhvapūrṇamadhaḥpūrṇaṃ madhyapūrṇaṃ śivātmakam ।
    sākṣādvidhimukho hyeṣa samādhiḥ pāramārthikaḥ ॥ 56॥

    दृढभावनया त्यक्तपूर्वापरविचारणम् ।
    यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥ ५७॥

    dṛḍhabhāvanayā tyaktapūrvāparavicāraṇam ।
    yadādānaṃ padārthasya vāsanā sā prakīrtitā ॥ 57॥

    भावितं तीव्रसंवेगादात्मना यत्तदेव सः ।
    भवत्याशु कपिश्रेष्ठ विगतेतरवासनः ॥ ५८॥

    bhāvitaṃ tīvrasaṃvegādātmanā yattadeva saḥ ।
    bhavatyāśu kapiśreṣṭha vigatetaravāsanaḥ ॥ 58॥

    तादृग्रूपो हि पुरुषो वासनाविवशीकृतः ।
    सम्पश्यति यदैवैतत्सद्वस्त्विति विमुह्यति ॥ ५९॥

    tādṛgrūpo hi puruṣo vāsanāvivaśīkṛtaḥ ।
    sampaśyati yadaivaitatsadvastviti vimuhyati ॥ 59॥

    वासनावेगवैचित्र्यात्स्वरूपं न जहाति तत् ।
    भ्रान्तं पश्यति दुर्दृष्टिः सर्वं मदवशादिव ॥ ६०॥

    vāsanāvegavaicitryātsvarūpaṃ na jahāti tat ।
    bhrāntaṃ paśyati durdṛṣṭiḥ sarvaṃ madavaśādiva ॥ 60॥

    वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा ।
    मलिना जन्महेतुः स्याच्छुद्धा जन्मविनाशिनी ॥ ६१॥

    vāsanā dvividhā proktā śuddhā ca malinā tathā ।
    malinā janmahetuḥ syācchuddhā janmavināśinī ॥ 61॥

    अज्ञानसुघनाकारा घनाहंकारशालिनी ।
    पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः ।
    पुनर्जन्माङ्कुरं त्यक्त्वा स्थितिः संभृष्टबीजवत् ॥ ६२॥

    ajñānasughanākārā ghanāhaṃkāraśālinī ।
    punarjanmakarī proktā malinā vāsanā budhaiḥ ।
    punarjanmāṅkuraṃ tyaktvā sthitiḥ saṃbhṛṣṭabījavat ॥ 62॥

    बहुशास्त्रकथाकन्थारोमन्थेन वृथैव किम् ।
    अन्वेष्टव्यं प्रयत्नेन मारुते ज्योतिरान्तरम् ॥ ६३॥

    bahuśāstrakathākanthāromanthena vṛthaiva kim ।
    anveṣṭavyaṃ prayatnena mārute jyotirāntaram ॥ 63॥

    दर्शनादर्शने हित्वा स्वयं केवलरूपतः ।
    य आस्ते कपिशार्दूल ब्रह्म स ब्रह्मवित्स्वयम् ॥ ६४॥

    darśanādarśane hitvā svayaṃ kevalarūpataḥ ।
    ya āste kapiśārdūla brahma sa brahmavitsvayam ॥ 64॥

    अधीत्य चतुरो वेदान्सर्वशास्त्राण्यनेकशः ।
    ब्रह्मतत्त्वं न जानाति दर्वी पाकरसं यथा ॥ ६५॥

    adhītya caturo vedānsarvaśāstrāṇyanekaśaḥ ।
    brahmatattvaṃ na jānāti darvī pākarasaṃ yathā ॥ 65॥

    स्वदेहाशुचिगन्धेन न विरज्येत यः पुमान् ।
    विरागकारणं तस्य किमन्यदुपदिश्यते ॥ ६६॥

    svadehāśucigandhena na virajyeta yaḥ pumān ।
    virāgakāraṇaṃ tasya kimanyadupadiśyate ॥ 66॥

    अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः ।
    उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥ ६७॥

    atyantamalino deho dehī cātyantanirmalaḥ ।
    ubhayorantaraṃ jñātvā kasya śaucaṃ vidhīyate ॥ 67॥

    बद्धो हि वासनाबद्धो मोक्षः स्याद्वासनाक्षयः ।
    वासनां सम्परित्यज्य मोक्षार्थित्वमपि त्यज ॥ ६८॥

    baddho hi vāsanābaddho mokṣaḥ syādvāsanākṣayaḥ ।
    vāsanāṃ samparityajya mokṣārthitvamapi tyaja ॥ 68॥

    मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः ।
    मैत्र्यादिवासनानाम्नीर्गृहाणामलवासनाः ॥ ६९॥

    mānasīrvāsanāḥ pūrvaṃ tyaktvā viṣayavāsanāḥ ।
    maitryādivāsanānāmnīrgṛhāṇāmalavāsanāḥ ॥ 69॥

    ता अप्यतः परित्यज्य ताभिर्व्यवहरन्नपि ।
    अन्तःशान्तः समस्नेहो भव चिन्मात्रवासनः ॥ ७०॥

    tā apyataḥ parityajya tābhirvyavaharannapi ।
    antaḥśāntaḥ samasneho bhava cinmātravāsanaḥ ॥ 70॥

    तामप्यथ परित्यज्य मनोबुद्धिसमन्विताम् ।
    शेषस्थिरसमाधानो मयि त्वं भव मारुते ॥ ७१॥

    tāmapyatha parityajya manobuddhisamanvitām ।
    śeṣasthirasamādhāno mayi tvaṃ bhava mārute ॥ 71॥

    अशब्दमस्पर्शमरूपमव्ययं
    तथाऽरसं नित्यमगन्धवच्च यत् ।
    अनामगोत्रं मम रूपमीदृशं
    भजस्व नित्यं पवनात्मजार्तिहन् ॥ ७२॥

    aśabdamasparśamarūpamavyayaṃ
    tathā'rasaṃ nityamagandhavacca yat ।
    anāmagotraṃ mama rūpamīdṛśaṃ
    bhajasva nityaṃ pavanātmajārtihan ॥ 72॥

    दृशिस्वरूपं गगनोपमं परं
    सकृद्विभातं त्वजमेकमक्षरम् ।
    अलेपकं सर्वगतं यदद्वयं
    तदेव चाहं सकलं विमुक्तॐ ॥ ७३॥

    dṛśisvarūpaṃ gaganopamaṃ paraṃ
    sakṛdvibhātaṃ tvajamekamakṣaram ।
    alepakaṃ sarvagataṃ yadadvayaṃ
    tadeva cāhaṃ sakalaṃ vimuktaoṃ ॥ 73॥

    दृशिस्तु शुद्धोऽहमविक्रियात्मको
    न मेऽस्ति कश्चिद्विषयः स्वभावतः ।
    पुरस्तिरश्चोर्ध्वमधश्च सर्वतः
    सुपूर्णभूमाहमितीह भावय ॥ ७४॥

    dṛśistu śuddho'hamavikriyātmako
    na me'sti kaścidviṣayaḥ svabhāvataḥ ।
    purastiraścordhvamadhaśca sarvataḥ
    supūrṇabhūmāhamitīha bhāvaya ॥ 74॥

    अजोऽमरश्चैव तथाजरोऽमृतः
    स्वयंप्रभः सर्वगतोऽहमव्ययः ।
    न कारणं कार्यमतीत्य निर्मलः
    सदैव तृप्तोऽहमितीह भावय ॥ ७५॥

    ajo'maraścaiva tathājaro'mṛtaḥ
    svayaṃprabhaḥ sarvagato'hamavyayaḥ ।
    na kāraṇaṃ kāryamatītya nirmalaḥ
    sadaiva tṛpto'hamitīha bhāvaya ॥ 75॥

    जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते ।
    विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ ७६॥

    jīvanmuktapadaṃ tyaktvā svadehe kālasātkṛte ।
    viśatyadehamuktatvaṃ pavano'spandatāmiva ॥ 76॥

    तदेतदृचाभ्युक्तम् ॥

    tadetadṛcābhyuktam ॥

    तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥

    tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ । divīva cakṣurātatam ॥

    तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥

    tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate । viṣṇoryatparamaṃ padam ॥

    ॐ सत्यमित्युपनिषत् ।
    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    oṃ satyamityupaniṣat ।
    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥ hariḥ oṃ tatsat ॥

    इति मुक्तिकोपनिषत्समाप्ता ॥

    iti muktikopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact