English Edition
    Library / Philosophy and Religion

    Paramahamsa-Parivrajaka Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ परमहंसपरिव्राजकोपनिषत् ॥

    ॥ paramahaṃsaparivrājakopaniṣat ॥

    पारिव्राज्यधर्मवन्तो यज्ज्ञानाद्ब्रह्मतां ययुः ।
    तद्ब्रह्म प्रणवैकार्थं तुर्यतुर्यं हरिं भजे ॥

    pārivrājyadharmavanto yajjñānādbrahmatāṃ yayuḥ ।
    tadbrahma praṇavaikārthaṃ turyaturyaṃ hariṃ bhaje ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवा ।
    भद्रं पश्येमाक्षभिर्यजत्राः।
    स्थिरैरङ्गैस्तुष्टुवांस्तनूभिः ।
    व्यशेम देवहितं यदायुः ।
    स्वस्ति न इन्द्रो वृद्धश्रवाः ।
    स्वस्ति नः पूषा विश्ववेदाः ।
    स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः ।
    स्वस्तो नो बृहस्पतिर्दधातु ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā ।
    bhadraṃ paśyemākṣabhiryajatrāḥ।
    sthirairaṅgaistuṣṭuvāṃstanūbhiḥ ।
    vyaśema devahitaṃ yadāyuḥ ।
    svasti na indro vṛddhaśravāḥ ।
    svasti naḥ pūṣā viśvavedāḥ ।
    svasti nastārkṣyo'riṣṭanemiḥ ।
    svasto no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ अथ पितामहः स्वपितरमादिनारायणमुपसमेत्य
    प्रणम्य पप्रच्छ भगवंस्त्वन्मुखाद्वर्णाश्रमधर्म-
    क्रमं सर्वं श्रुतं विदितमवगतम् ।
    इदानीं परमहंसपरिव्राजकलक्षणं वेदितुमिच्छामि कः
    परिव्रजनाधिकारी कीदृशं परिव्राजकलक्षणं कः
    परमहंसः परिव्राजकत्वं कथं तत्सर्वं मे ब्रूहीति ।
    स होवाच भगवानादिनारायणः ।
    सद्गुरुसमीपे सकलविद्यापरिश्रमज्ञो भूत्वा विद्वान्सर्व-
    मैहिकामुष्मिकसुखश्रमं ज्ञात्वैषणात्रयवासनात्रय-
    ममत्वाहङ्कारादिकं वमनान्नमिव हेयमधिगम्य मोक्ष-
    मार्गैकसाधनो ब्रह्मचर्यं समाप्य गृही भवेत् ।
    गृहाद्वनी भूत्वा प्रव्रजेत् ।
    यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा ।
    अथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको वोत्सन्नाग्नि-
    रनग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेदिति बुद्ध्वा
    सर्वसंसारेषु विरक्तो ब्रह्मचारी गृही वानप्रस्थो वा
    पितरं मातरं कलत्रपुत्रमाप्तबन्धुवर्गं तदभावे शिष्यं
    सहवासिनं वानुमोदयित्वा तद्धैके प्राजापत्यामेवेष्टिं कुर्वन्ति
    तदु तथा न कुर्यात् । आग्नेय्यामेव कुर्यात् ।
    अग्निर्हि प्राणः प्राणमेवैतया करोति त्रैधातवीयामेव कुर्यात् ।
    एतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति ।
    अयं ते योनिरृत्वियो यतो जातो आरोचथाः ।
    तं जानन्नग्न आरोहाथानो वर्धया रयिमित्यनेन मन्त्रेणाग्नि-
    माजिघ्रेत् ।
    एष वा अग्नेर्योनिर्यः प्राणं गच्छ स्वां योनिं गच्छस्वा-
    हेत्येवमेवैतदाह ।
    ग्रामाच्छ्रोत्रियागारादग्निमाहृत्य स्वविध्युक्तक्रमेण
    पूर्ववदग्निमाजिघ्रेत् ।
    यद्यातुरो वाग्निं न विनेदप्सु जुहुयात् ।
    आपो वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति
    हुत्वोद्धृत्य प्राश्नीयात् साज्यं हविरनामयम् ।
    एष विधिर्वीराध्वाने वाऽनाशके वा सम्प्रवेशे वाग्निप्रवेशे
    वा महाप्रस्थाने वा ।
    यद्यातुरः स्यान्मनसा वाचा वा संन्यसेदेष पन्थाः ।
    स्वस्थक्रमेणैव चेदात्मश्राद्धं विरजाहोमं कृत्वाग्नि-
    मात्मन्यारोप्य लौकिकवैदिकसाम्र्थ्यं स्वचतुर्दशकरण-
    प्रवृत्तिं च पुत्रे समारोप्य तदभावे शिष्ये वा तदभावे
    स्वात्मन्येव वा ब्रह्मा त्वं यज्ञस्त्वमित्यभिमन्त्र्य ब्रह्म-
    भावनया ध्यात्वा सावित्रीप्रवेशपूर्वकमप्सु सर्वविद्यार्थ-
    स्वरूपां ब्राह्मण्याधारां वेदमातरं क्रमाद्व्याहृतिषु
    त्रिषु प्रविलाप्य व्याहृतित्रयमकारोकारमकारेषु प्रविलाप्य
    तत्सावधानेनापः प्राश्य प्रणवेन शिखामुत्कृष्य
    यज्ञोपवीतं छित्त्वा वस्त्रमपि भूमौ वाप्सु वा विसृज्य
    ॐ भूः स्वाहा ॐ भुवः स्वाहा ॐ सुवः स्वाहेत्यनेन
    जातरूपधरो भूत्वा स्वं रूपं ध्यायन्पुनः पृथक्
    प्रणवव्याहृतिपूर्वकं मनसा वचसापि संन्यस्तं मया
    संन्यस्तं मया संन्यस्तं मयेति मन्द्रमध्यमतारध्वनि-
    भिस्त्रिवारं त्रिगुणीकृतप्रेषोच्चारणं कृत्वा प्रणवैक-
    ध्यानपरायणः सन्नभयं सर्वभूतेभ्यो मत्तः स्वाहेत्यूर्ध्व-
    बाहुर्भूत्वा ब्रह्माहमस्मीति तत्त्वमस्यादिवाक्यार्थस्वरूपा-
    नुसन्धानं कुर्वन्नुदीचिं दिशं गच्छेत् ।
    जातरूपधरश्चरेत् । एष संन्यासः ।
    तदधिकारी न भवेद्यदि गृहस्थप्रार्थनापूर्वकमभयं
    सर्वभूतेभ्यो मत्तः सर्वं प्रवर्तते सखा मा गोपायौजः
    सखा योऽसीन्द्रस्य व्रजोऽसि वार्गघ्नः शर्म मे भव यत्पापं
    तन्निवारयेत्यनेन मन्त्रेण प्रणवपूर्वकं सलक्षणं वाइणवं
    दण्डं कटिसूत्रं कौपीनं कमण्डलुं विवर्णवस्त्रमेकं
    परिगृह्य सद्गुरुमुपगम्य नत्वा गुरुमुखात्तत्त्वमसीति
    महावाक्यं प्रणवपूर्वकमुपलभ्याथ जीर्णवल्कलाजिनं
    धृत्वाथ जलावतरणमूर्ध्वगमनमेकभिक्षां परित्यज्य
    त्रिकालस्नानमाचरन्वेदान्तश्रवणपूर्वकं प्रणवानुष्ठानं
    कुर्वन्ब्रह्ममार्गे सम्यक् सम्पन्नः स्वाभिमतमात्मनि गोपयित्वा
    निर्ममोऽध्यात्मनिष्ठः कामक्रोधलोभमोहमदमात्सर्य-
    दम्भदर्पाहङ्कारासूयागर्वेच्छाद्वेषहर्षामर्ष-
    ममत्वादींश्च हित्वा ज्ञानवैराग्ययुक्तो वित्तस्त्रीपराङ्मुखः
    शुद्धमानसः सर्वोपनिषदर्थमालोच्य ब्रह्मचर्या-
    परिग्रहाहिंसासत्यं यत्नेन रक्षञ्जितेन्द्रियो बहिरन्तःस्नेहवर्जितः
    शरीरसंधारणार्थं वा त्रिषु वर्णेष्वभिशस्तपतितवर्जितेषु
    पशुरद्रोही भैक्ष्यमाणो ब्रह्मभूयाय भवति ।
    सर्वेषु कालेषु लाभालाभौ समौ कृत्वा परपात्रमधूकरे-
    णान्नमश्नन्मेदोवृद्धिमकुर्वन्कृशीभूत्वा ब्रह्माहमस्मीति
    भावयन्गुर्वर्थं ग्राममुपेत्य ध्रुवशीलोऽष्टौ मास्येकाकी
    चरेद्द्वावेवाचरेत् ।
    यदालंबुद्धिर्भवेत्तदा कुटीचको वा बहूदको वा हंसो वा
    परमहंसो वा तत्तन्मन्त्रपूर्वकं कटिसूत्रं कौपीनं दण्डं
    कमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरश्चरेत् ।
    ग्राम एकरात्रं तीर्थे त्रिरात्रं पत्तने पञ्चरात्रं क्षेत्रे
    सप्तरात्रमनिकेतः स्थिरमतिरनग्निसेवी निर्विकारो नियमानियाम-
    मुत्सृज्य प्राणसन्धारणार्थमयमेव लाभालाभौ समौ
    कृत्वा गोवृत्त्या भैक्षमाचरन्नुदकस्थलकमण्डलुर-्
    रबाधकरहस्यस्थलवासो न पुनर्लाभालाभरतः शुभाशुभ-
    कर्मनिर्मूलनपरः सर्वत्र भूतलशयनः क्षौरकर्मपरित्यक्तो
    युक्तचातुर्मास्यव्रतनियमः शुक्लध्यानपरायणोऽर्थस्त्रीपुर-
    पराङ्मुखोऽनुन्मत्तोऽप्युन्मत्तवदाचरन्नव्यक्तलिङ्गोऽलिङ्गोऽव्य-
    क्ताचारो दिवानक्तसमत्वेनास्वप्नः स्वरूपानुसन्धानब्रह्म-
    प्रणवध्यानमार्गेणावहितः संन्यासेन देहत्यागं करोति स
    परमहंसपरिव्राजको भवति ।
    भगवन् ब्रह्मप्रणवः कीदृश इति ब्रह्मा पृच्छति ।
    स होवाच नारायणः ।
    ब्रह्मप्रणवः षोडशमात्रात्मकः सोऽवस्थाचतुष्टय-
    चतुष्टयगोचरः ।
    जाग्रदवस्थायां जाग्रदादिचरस्रोऽवस्थाः स्वप्ने स्वप्नादि-
    चतस्रोवस्थाः सुषुप्तौ सुषुप्त्यादिचतस्रोऽवस्थातुरीये
    तुरीयादिचतस्रोऽवस्था भवन्तीति ।
    जाग्रदवस्थायां विश्वस्य चातुर्विध्यं विश्वविश्वो विश्वतैजसो
    विश्वप्राज्ञो विश्वतुरीय इति ।
    स्वप्नावस्थायां तैजसस्य चातुर्विध्यं
    तैजसविश्वस्तैजसतैजसस्तैजसप्राज्ञस्तैजसतुरीय इति ।
    सुषुप्त्यवस्थायां प्राज्ञस्य चातुर्विध्यं प्राज्ञविश्वः
    प्राज्ञतैजसः प्राज्ञप्राज्ञः प्राज्ञतुरीय इति।
    तुरीयावस्थायां तुरीयस्य चातुर्विध्यं
    तुरीयविश्वस्तुरीयतैजसस्तुरीयप्राज्ञस्तुतुरीयतुरीय इति ।
    ते क्रमेण षोडशमात्रा रूढाः अकारे जाग्रद्विश्व उकारे
    जाग्रत्तैजसो मकारे जाग्रत्प्राज्ञ अर्धमात्रायां जाग्रत्तुरीयो
    बिन्दौ स्वप्नविश्वोनादे स्वप्नतैजसः कलायां स्वप्नप्राज्ञः
    कलातीते स्वप्नतुरीयः शान्तौ सुषुप्तविश्वः शान्त्यातीते
    सुषुप्ततैजस उन्मन्यां सुषुप्तप्राज्ञो मनोन्मन्यां
    सुषुप्ततुरीयः पुर्यां तुरीयविश्वो मध्यमायां तुरीयतैजसः
    पश्यन्तां तुरीयप्राज्ञः परायां तुरीयतुरीयः ।
    जाग्रन्मात्राचतुष्टयमकारांशं स्वप्नमात्राचतुष्टय-
    मुकारांशं सुषुप्तिमात्राचतुष्टयं मकारांशं
    तुरीयमात्राचतुष्टयमर्धमात्रांशम् ।
    अयमेव ब्रह्मप्रणवः । स परमहंसतुरीयातीतावधूतैरुपास्यः ।
    तेनैव ब्रह्म प्रकाशते तेन विदेहमुक्तिः ।
    भगवन् कथमयज्ञोपवीत्त्यशिखी सर्वकर्मपरित्यक्तः कथं
    ब्रह्मनिष्ठापरः कथं ब्राह्मण इति ब्रह्मा पृच्छति ।
    स होवाच विष्णुर्भोभोऽर्भक यस्यास्त्यद्वैतमात्मज्ञानं
    तदेव यज्ञोपवीतम् ।
    तस्य ध्याननिष्ठैव शिखा । तत्कर्म स पवित्रम् ।
    स सर्वकर्मकृत् । स ब्राह्मणः । स ब्रह्मनिष्ठापरः ।
    स देवः । स ऋषिः । स तपस्वी । स श्रेष्ठः ।
    स एव सर्वज्येष्ठः । स एव जगद्गुरुः । स एवाहं विद्धि ।
    लोके परमहंसपरिव्राजको दुर्लभतरो यद्येकोऽस्ति ।
    स एव नित्यपूतः । स एव वेदपुरुषो महापुरुषो यस्तच्चित्तं
    मय्येवावतिष्ठते । अहं च तस्मिन्नेवावस्थितः ।
    स एव नित्यतृप्तः । स शीतोष्णसुखदुःखमानावमानवर्जितः ।
    स निन्दामर्षसहिष्णुः । स षडूर्मिवर्जितः ।
    षड्भावविकारशून्यः । स ज्येष्ठाज्येष्ठव्यवधानरहितः ।
    स स्वव्यतिरेकेण नान्यद्रष्टा । आशाम्बरो ननमस्कारो न
    स्वाहाकारो न स्वधाकारश्च नविसर्जनपरो निन्दास्तुति-
    व्यतिरिक्तो नमन्त्रतन्त्रोपासको देवान्तरध्यानशून्यो
    लक्ष्यालक्ष्यनिवर्तकः सर्वोपरतः ससच्चिदानन्दाद्वय-
    चिद्घनः सम्पूर्णानन्दैकबोधो ब्रह्मैवाहममीत्यनवरतं
    ब्रह्मप्रणवानुसन्धानेन यः कृतकृत्यो भवति स ह
    परमहंसपरिव्राडित्युपनिषत् ॥

    hariḥ oṃ atha pitāmahaḥ svapitaramādinārāyaṇamupasametya
    praṇamya papraccha bhagavaṃstvanmukhādvarṇāśramadharma-
    kramaṃ sarvaṃ śrutaṃ viditamavagatam ।
    idānīṃ paramahaṃsaparivrājakalakṣaṇaṃ veditumicchāmi kaḥ
    parivrajanādhikārī kīdṛśaṃ parivrājakalakṣaṇaṃ kaḥ
    paramahaṃsaḥ parivrājakatvaṃ kathaṃ tatsarvaṃ me brūhīti ।
    sa hovāca bhagavānādinārāyaṇaḥ ।
    sadgurusamīpe sakalavidyāpariśramajño bhūtvā vidvānsarva-
    maihikāmuṣmikasukhaśramaṃ jñātvaiṣaṇātrayavāsanātraya-
    mamatvāhaṅkārādikaṃ vamanānnamiva heyamadhigamya mokṣa-
    mārgaikasādhano brahmacaryaṃ samāpya gṛhī bhavet ।
    gṛhādvanī bhūtvā pravrajet ।
    yadi vetarathā brahmacaryādeva pravrajedgṛhādvā vanādvā ।
    atha punaravratī vā vratī vā snātako vā'snātako votsannāgni-
    ranagniko vā yadahareva virajettadahareva pravrajediti buddhvā
    sarvasaṃsāreṣu virakto brahmacārī gṛhī vānaprastho vā
    pitaraṃ mātaraṃ kalatraputramāptabandhuvargaṃ tadabhāve śiṣyaṃ
    sahavāsinaṃ vānumodayitvā taddhaike prājāpatyāmeveṣṭiṃ kurvanti
    tadu tathā na kuryāt । āgneyyāmeva kuryāt ।
    agnirhi prāṇaḥ prāṇamevaitayā karoti traidhātavīyāmeva kuryāt ।
    etayaiva trayo dhātavo yaduta sattvaṃ rajastama iti ।
    ayaṃ te yonirṛtviyo yato jāto ārocathāḥ ।
    taṃ jānannagna ārohāthāno vardhayā rayimityanena mantreṇāgni-
    mājighret ।
    eṣa vā agneryoniryaḥ prāṇaṃ gaccha svāṃ yoniṃ gacchasvā-
    hetyevamevaitadāha ।
    grāmācchrotriyāgārādagnimāhṛtya svavidhyuktakrameṇa
    pūrvavadagnimājighret ।
    yadyāturo vāgniṃ na vinedapsu juhuyāt ।
    āpo vai sarvā devatāḥ sarvābhyo devatābhyo juhomi svāheti
    hutvoddhṛtya prāśnīyāt sājyaṃ haviranāmayam ।
    eṣa vidhirvīrādhvāne vā'nāśake vā sampraveśe vāgnipraveśe
    vā mahāprasthāne vā ।
    yadyāturaḥ syānmanasā vācā vā saṃnyasedeṣa panthāḥ ।
    svasthakrameṇaiva cedātmaśrāddhaṃ virajāhomaṃ kṛtvāgni-
    mātmanyāropya laukikavaidikasāmrthyaṃ svacaturdaśakaraṇa-
    pravṛttiṃ ca putre samāropya tadabhāve śiṣye vā tadabhāve
    svātmanyeva vā brahmā tvaṃ yajñastvamityabhimantrya brahma-
    bhāvanayā dhyātvā sāvitrīpraveśapūrvakamapsu sarvavidyārtha-
    svarūpāṃ brāhmaṇyādhārāṃ vedamātaraṃ kramādvyāhṛtiṣu
    triṣu pravilāpya vyāhṛtitrayamakārokāramakāreṣu pravilāpya
    tatsāvadhānenāpaḥ prāśya praṇavena śikhāmutkṛṣya
    yajñopavītaṃ chittvā vastramapi bhūmau vāpsu vā visṛjya
    oṃ bhūḥ svāhā oṃ bhuvaḥ svāhā oṃ suvaḥ svāhetyanena
    jātarūpadharo bhūtvā svaṃ rūpaṃ dhyāyanpunaḥ pṛthak
    praṇavavyāhṛtipūrvakaṃ manasā vacasāpi saṃnyastaṃ mayā
    saṃnyastaṃ mayā saṃnyastaṃ mayeti mandramadhyamatāradhvani-
    bhistrivāraṃ triguṇīkṛtapreṣoccāraṇaṃ kṛtvā praṇavaika-
    dhyānaparāyaṇaḥ sannabhayaṃ sarvabhūtebhyo mattaḥ svāhetyūrdhva-
    bāhurbhūtvā brahmāhamasmīti tattvamasyādivākyārthasvarūpā-
    nusandhānaṃ kurvannudīciṃ diśaṃ gacchet ।
    jātarūpadharaścaret । eṣa saṃnyāsaḥ ।
    tadadhikārī na bhavedyadi gṛhasthaprārthanāpūrvakamabhayaṃ
    sarvabhūtebhyo mattaḥ sarvaṃ pravartate sakhā mā gopāyaujaḥ
    sakhā yo'sīndrasya vrajo'si vārgaghnaḥ śarma me bhava yatpāpaṃ
    tannivārayetyanena mantreṇa praṇavapūrvakaṃ salakṣaṇaṃ vāiṇavaṃ
    daṇḍaṃ kaṭisūtraṃ kaupīnaṃ kamaṇḍaluṃ vivarṇavastramekaṃ
    parigṛhya sadgurumupagamya natvā gurumukhāttattvamasīti
    mahāvākyaṃ praṇavapūrvakamupalabhyātha jīrṇavalkalājinaṃ
    dhṛtvātha jalāvataraṇamūrdhvagamanamekabhikṣāṃ parityajya
    trikālasnānamācaranvedāntaśravaṇapūrvakaṃ praṇavānuṣṭhānaṃ
    kurvanbrahmamārge samyak sampannaḥ svābhimatamātmani gopayitvā
    nirmamo'dhyātmaniṣṭhaḥ kāmakrodhalobhamohamadamātsarya-
    dambhadarpāhaṅkārāsūyāgarvecchādveṣaharṣāmarṣa-
    mamatvādīṃśca hitvā jñānavairāgyayukto vittastrīparāṅmukhaḥ
    śuddhamānasaḥ sarvopaniṣadarthamālocya brahmacaryā-
    parigrahāhiṃsāsatyaṃ yatnena rakṣañjitendriyo bahirantaḥsnehavarjitaḥ
    śarīrasaṃdhāraṇārthaṃ vā triṣu varṇeṣvabhiśastapatitavarjiteṣu
    paśuradrohī bhaikṣyamāṇo brahmabhūyāya bhavati ।
    sarveṣu kāleṣu lābhālābhau samau kṛtvā parapātramadhūkare-
    ṇānnamaśnanmedovṛddhimakurvankṛśībhūtvā brahmāhamasmīti
    bhāvayangurvarthaṃ grāmamupetya dhruvaśīlo'ṣṭau māsyekākī
    careddvāvevācaret ।
    yadālaṃbuddhirbhavettadā kuṭīcako vā bahūdako vā haṃso vā
    paramahaṃso vā tattanmantrapūrvakaṃ kaṭisūtraṃ kaupīnaṃ daṇḍaṃ
    kamaṇḍaluṃ sarvamapsu visṛjyātha jātarūpadharaścaret ।
    grāma ekarātraṃ tīrthe trirātraṃ pattane pañcarātraṃ kṣetre
    saptarātramaniketaḥ sthiramatiranagnisevī nirvikāro niyamāniyāma-
    mutsṛjya prāṇasandhāraṇārthamayameva lābhālābhau samau
    kṛtvā govṛttyā bhaikṣamācarannudakasthalakamaṇḍalur-
    rabādhakarahasyasthalavāso na punarlābhālābharataḥ śubhāśubha-
    karmanirmūlanaparaḥ sarvatra bhūtalaśayanaḥ kṣaurakarmaparityakto
    yuktacāturmāsyavrataniyamaḥ śukladhyānaparāyaṇo'rthastrīpura-
    parāṅmukho'nunmatto'pyunmattavadācarannavyaktaliṅgo'liṅgo'vya-
    ktācāro divānaktasamatvenāsvapnaḥ svarūpānusandhānabrahma-
    praṇavadhyānamārgeṇāvahitaḥ saṃnyāsena dehatyāgaṃ karoti sa
    paramahaṃsaparivrājako bhavati ।
    bhagavan brahmapraṇavaḥ kīdṛśa iti brahmā pṛcchati ।
    sa hovāca nārāyaṇaḥ ।
    brahmapraṇavaḥ ṣoḍaśamātrātmakaḥ so'vasthācatuṣṭaya-
    catuṣṭayagocaraḥ ।
    jāgradavasthāyāṃ jāgradādicarasro'vasthāḥ svapne svapnādi-
    catasrovasthāḥ suṣuptau suṣuptyādicatasro'vasthāturīye
    turīyādicatasro'vasthā bhavantīti ।
    jāgradavasthāyāṃ viśvasya cāturvidhyaṃ viśvaviśvo viśvataijaso
    viśvaprājño viśvaturīya iti ।
    svapnāvasthāyāṃ taijasasya cāturvidhyaṃ
    taijasaviśvastaijasataijasastaijasaprājñastaijasaturīya iti ।
    suṣuptyavasthāyāṃ prājñasya cāturvidhyaṃ prājñaviśvaḥ
    prājñataijasaḥ prājñaprājñaḥ prājñaturīya iti।
    turīyāvasthāyāṃ turīyasya cāturvidhyaṃ
    turīyaviśvasturīyataijasasturīyaprājñastuturīyaturīya iti ।
    te krameṇa ṣoḍaśamātrā rūḍhāḥ akāre jāgradviśva ukāre
    jāgrattaijaso makāre jāgratprājña ardhamātrāyāṃ jāgratturīyo
    bindau svapnaviśvonāde svapnataijasaḥ kalāyāṃ svapnaprājñaḥ
    kalātīte svapnaturīyaḥ śāntau suṣuptaviśvaḥ śāntyātīte
    suṣuptataijasa unmanyāṃ suṣuptaprājño manonmanyāṃ
    suṣuptaturīyaḥ puryāṃ turīyaviśvo madhyamāyāṃ turīyataijasaḥ
    paśyantāṃ turīyaprājñaḥ parāyāṃ turīyaturīyaḥ ।
    jāgranmātrācatuṣṭayamakārāṃśaṃ svapnamātrācatuṣṭaya-
    mukārāṃśaṃ suṣuptimātrācatuṣṭayaṃ makārāṃśaṃ
    turīyamātrācatuṣṭayamardhamātrāṃśam ।
    ayameva brahmapraṇavaḥ । sa paramahaṃsaturīyātītāvadhūtairupāsyaḥ ।
    tenaiva brahma prakāśate tena videhamuktiḥ ।
    bhagavan kathamayajñopavīttyaśikhī sarvakarmaparityaktaḥ kathaṃ
    brahmaniṣṭhāparaḥ kathaṃ brāhmaṇa iti brahmā pṛcchati ।
    sa hovāca viṣṇurbhobho'rbhaka yasyāstyadvaitamātmajñānaṃ
    tadeva yajñopavītam ।
    tasya dhyānaniṣṭhaiva śikhā । tatkarma sa pavitram ।
    sa sarvakarmakṛt । sa brāhmaṇaḥ । sa brahmaniṣṭhāparaḥ ।
    sa devaḥ । sa ṛṣiḥ । sa tapasvī । sa śreṣṭhaḥ ।
    sa eva sarvajyeṣṭhaḥ । sa eva jagadguruḥ । sa evāhaṃ viddhi ।
    loke paramahaṃsaparivrājako durlabhataro yadyeko'sti ।
    sa eva nityapūtaḥ । sa eva vedapuruṣo mahāpuruṣo yastaccittaṃ
    mayyevāvatiṣṭhate । ahaṃ ca tasminnevāvasthitaḥ ।
    sa eva nityatṛptaḥ । sa śītoṣṇasukhaduḥkhamānāvamānavarjitaḥ ।
    sa nindāmarṣasahiṣṇuḥ । sa ṣaḍūrmivarjitaḥ ।
    ṣaḍbhāvavikāraśūnyaḥ । sa jyeṣṭhājyeṣṭhavyavadhānarahitaḥ ।
    sa svavyatirekeṇa nānyadraṣṭā । āśāmbaro nanamaskāro na
    svāhākāro na svadhākāraśca navisarjanaparo nindāstuti-
    vyatirikto namantratantropāsako devāntaradhyānaśūnyo
    lakṣyālakṣyanivartakaḥ sarvoparataḥ sasaccidānandādvaya-
    cidghanaḥ sampūrṇānandaikabodho brahmaivāhamamītyanavarataṃ
    brahmapraṇavānusandhānena yaḥ kṛtakṛtyo bhavati sa ha
    paramahaṃsaparivrāḍityupaniṣat ॥

    हरिः ॐ तत्सत् ।
    ॐ भद्रं कर्णेभिः शृणुयाम देवा ।
    भद्रं पश्येमाक्षभिर्यजत्राः।
    स्थिरैरङ्गैस्तुष्टुवांस्तनूभिः ।
    व्यशेम देवहितं यदायुः ।
    स्वस्ति न इन्द्रो वृद्धश्रवाः ।
    स्वस्ति नः पूषा विश्ववेदाः ।
    स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः ।
    स्वस्ति नो बृहस्पतिर्दधातु ॥

    hariḥ oṃ tatsat ।
    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā ।
    bhadraṃ paśyemākṣabhiryajatrāḥ।
    sthirairaṅgaistuṣṭuvāṃstanūbhiḥ ।
    vyaśema devahitaṃ yadāyuḥ ।
    svasti na indro vṛddhaśravāḥ ।
    svasti naḥ pūṣā viśvavedāḥ ।
    svasti nastārkṣyo'riṣṭanemiḥ ।
    svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति परमहंसपरिव्राजकोपनिषत्समाप्ता ॥

    iti paramahaṃsaparivrājakopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact