English Edition
    Library / Philosophy and Religion

    Darshana Upanishad (Shri Jabala Darshana Upanishad)

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ जाबालदर्शनोपनिषत् ॥

    ॥ jābāladarśanopaniṣat ॥

    यमाद्यष्टाङ्गयोगेद्धं ब्रह्ममात्रप्रबोधतः ।
    योगिनो यत्पदं यान्ति तत्कैवल्यपदं भजे ॥

    yamādyaṣṭāṅgayogeddhaṃ brahmamātraprabodhataḥ ।
    yogino yatpadaṃ yānti tatkaivalyapadaṃ bhaje ॥

    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ॥

    oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca ॥

    सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म
    निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु
    धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

    sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma
    nirākarodanirākaraṇamastvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu
    dharmāste mayi santu te mayi santu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥

    hariḥ oṃ ॥

    दत्तात्रेयो महायोगी भगवान्भूतभावनः ।
    चतुर्भुजो महाविष्णुर्योगसाम्राज्यदीक्षितः ॥ १॥

    dattātreyo mahāyogī bhagavānbhūtabhāvanaḥ ।
    caturbhujo mahāviṣṇuryogasāmrājyadīkṣitaḥ ॥ 1॥

    तस्य शिष्यो मुनिवरः सांकृतिर्नाम भक्तिमान् ।
    पप्रच्छ गुरुमेकान्ते प्राञ्जलिर्विनयान्वितः ॥ २॥

    tasya śiṣyo munivaraḥ sāṃkṛtirnāma bhaktimān ।
    papraccha gurumekānte prāñjalirvinayānvitaḥ ॥ 2॥

    भगवन्ब्रूहि मे योगं साष्टाङ्गं सप्रपञ्चकम् ।
    येन विज्ञातमात्रेण जीवन्मुक्तो भवाम्यहम् ॥ ३॥

    bhagavanbrūhi me yogaṃ sāṣṭāṅgaṃ saprapañcakam ।
    yena vijñātamātreṇa jīvanmukto bhavāmyaham ॥ 3॥

    सांकृते श्रुणु वक्ष्यामि योगं साष्टाङ्गदर्शनम् ।
    यमश्च नियमश्चैव तथैवासनमेव च ॥ ४॥

    sāṃkṛte śruṇu vakṣyāmi yogaṃ sāṣṭāṅgadarśanam ।
    yamaśca niyamaścaiva tathaivāsanameva ca ॥ 4॥

    प्राणायामस्तथा ब्रह्मन्प्रत्याहारस्ततः परम् ।
    धारणा च तथा ध्यानं समाधिश्चाष्टमं मुने ॥ ५॥

    prāṇāyāmastathā brahmanpratyāhārastataḥ param ।
    dhāraṇā ca tathā dhyānaṃ samādhiścāṣṭamaṃ mune ॥ 5॥

    अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ।
    क्षमा धृतिर्मिताहारः शौचं चैव यमा दश ॥ ६॥

    ahiṃsā satyamasteyaṃ brahmacaryaṃ dayārjavam ।
    kṣamā dhṛtirmitāhāraḥ śaucaṃ caiva yamā daśa ॥ 6॥

    वेदोक्तेन प्रकारेण विना सत्यं तपोधन ।
    कायेन मनसा वाचा हिंसाऽहिंसा न चान्यथा ॥ ७॥

    vedoktena prakāreṇa vinā satyaṃ tapodhana ।
    kāyena manasā vācā hiṃsā'hiṃsā na cānyathā ॥ 7॥

    आत्मा सर्वगतोऽच्छेद्यो न ग्राह्य इति मे मतिः ।
    स चाहिंसा वरा प्रोक्ता मुने वेदान्तवेदिभिः ॥ ८॥

    ātmā sarvagato'cchedyo na grāhya iti me matiḥ ।
    sa cāhiṃsā varā proktā mune vedāntavedibhiḥ ॥ 8॥

    चक्षुरादीन्द्रियैर्दृष्टं श्रुतं घ्रातं मुनीश्वर ।
    तस्यैवोक्तिर्भवेत्सत्यं विप्र तन्नान्यथा भवेत् ॥ ९॥

    cakṣurādīndriyairdṛṣṭaṃ śrutaṃ ghrātaṃ munīśvara ।
    tasyaivoktirbhavetsatyaṃ vipra tannānyathā bhavet ॥ 9॥

    सर्वं सत्यं परं ब्रह्म न चान्यदिति या मतिः ।
    तच्च सत्यं वरं प्रोक्तं वेदान्तज्ञानपारगैः ॥ १०॥

    sarvaṃ satyaṃ paraṃ brahma na cānyaditi yā matiḥ ।
    tacca satyaṃ varaṃ proktaṃ vedāntajñānapāragaiḥ ॥ 10॥

    अन्यदीये तृणे रत्ने काञ्चने मौक्तिकेऽपि च ।
    मनसा विनिवृत्तिर्या तदस्तेयं विदुर्बुधाः ॥ ११॥

    anyadīye tṛṇe ratne kāñcane mauktike'pi ca ।
    manasā vinivṛttiryā tadasteyaṃ vidurbudhāḥ ॥ 11॥

    आत्मन्यनात्मभावेन व्यवहारविवर्जितम् ।
    यत्तदस्तेयमित्युक्तमात्मविद्भिर्महामते ॥ १२॥

    ātmanyanātmabhāvena vyavahāravivarjitam ।
    yattadasteyamityuktamātmavidbhirmahāmate ॥ 12॥

    कायेन वाचा मनसा स्त्रीणां परिविवर्जनम् ।
    ऋतौ भार्यां तदा स्वस्य ब्रह्मचर्यं तदुच्यते ॥ १३॥

    kāyena vācā manasā strīṇāṃ parivivarjanam ।
    ṛtau bhāryāṃ tadā svasya brahmacaryaṃ taducyate ॥ 13॥

    ब्रह्मभावे मनश्चारं ब्रह्मचर्यं परन्तप ॥ १४॥

    brahmabhāve manaścāraṃ brahmacaryaṃ parantapa ॥ 14॥

    स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा ।
    अनुज्ञा या दया सैव प्रोक्ता वेदान्तवेदिभिः ॥ १५॥

    svātmavatsarvabhūteṣu kāyena manasā girā ।
    anujñā yā dayā saiva proktā vedāntavedibhiḥ ॥ 15॥

    पुत्रे मित्रे कलत्रे च रिपौ स्वात्मनि सन्ततम् ।
    एकरूपं मुने यत्तदार्जवं प्रोच्यते मया ॥ १६॥

    putre mitre kalatre ca ripau svātmani santatam ।
    ekarūpaṃ mune yattadārjavaṃ procyate mayā ॥ 16॥

    कायेन मनसा वाचा शत्रुभिः परिपीडिते ।
    बुद्धिक्षोभनिवृत्तिर्या क्षमा सा मुनिपुङ्गव ॥ १७॥

    kāyena manasā vācā śatrubhiḥ paripīḍite ।
    buddhikṣobhanivṛttiryā kṣamā sā munipuṅgava ॥ 17॥

    वेदादेव विनिर्मोक्षः संसारस्य न चान्यथा ।
    इति विज्ञाननिष्पत्तिर्धृतिः प्रोक्ता हि वैदिकैः ।
    अहमात्मा न चान्योऽस्मीत्येवमप्रच्युता मतिः ॥ १८॥

    vedādeva vinirmokṣaḥ saṃsārasya na cānyathā ।
    iti vijñānaniṣpattirdhṛtiḥ proktā hi vaidikaiḥ ।
    ahamātmā na cānyo'smītyevamapracyutā matiḥ ॥ 18॥

    अल्पमृष्टाशनाभ्यां च चतुर्थांशावशेषकम् ।
    तस्माद्योगानुगुण्येन भोजनं मितभोजनम् ॥ १९॥

    alpamṛṣṭāśanābhyāṃ ca caturthāṃśāvaśeṣakam ।
    tasmādyogānuguṇyena bhojanaṃ mitabhojanam ॥ 19॥

    स्वदेहमलनिर्मोक्षो मृज्जलाभ्यां महामुने ।
    यत्तच्छौचं भवेद्बाह्यं मानसं मननं विदुः ।
    अहं शुद्ध इति ज्ञानं शौचमाहुर्मनीषिणः ॥ २०॥

    svadehamalanirmokṣo mṛjjalābhyāṃ mahāmune ।
    yattacchaucaṃ bhavedbāhyaṃ mānasaṃ mananaṃ viduḥ ।
    ahaṃ śuddha iti jñānaṃ śaucamāhurmanīṣiṇaḥ ॥ 20॥

    अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः ।
    उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥ २१॥

    atyantamalino deho dehī cātyantanirmalaḥ ।
    ubhayorantaraṃ jñātvā kasya śaucaṃ vidhīyate ॥ 21॥

    ज्ञानशौचं परित्यज्य बाह्ये यो रमते नरः ।
    स मूढः काऽचनं त्यक्त्वा लोष्ठं गृह्णाति सुव्रत ॥ २२॥

    jñānaśaucaṃ parityajya bāhye yo ramate naraḥ ।
    sa mūḍhaḥ kā'canaṃ tyaktvā loṣṭhaṃ gṛhṇāti suvrata ॥ 22॥

    ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः ।
    न चास्ति किंचित्कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥ २३॥

    jñānāmṛtena tṛptasya kṛtakṛtyasya yoginaḥ ।
    na cāsti kiṃcitkartavyamasti cenna sa tattvavit ॥ 23॥

    लोकत्रयेऽपि कर्तव्यं किंचिन्नास्त्यात्मवेदिनाम् ॥ २४॥

    lokatraye'pi kartavyaṃ kiṃcinnāstyātmavedinām ॥ 24॥

    तस्मात्सर्वप्रयत्नेन मुनेऽहिंसादिसाधनैः ।
    आत्मानमक्षरं ब्रह्म विद्धि ज्ञानात्तु वेदनात् ॥ २५॥

    tasmātsarvaprayatnena mune'hiṃsādisādhanaiḥ ।
    ātmānamakṣaraṃ brahma viddhi jñānāttu vedanāt ॥ 25॥

    इति प्रथमः खण्डः ॥ १॥

    iti prathamaḥ khaṇḍaḥ ॥ 1॥

    तपः सन्तोषमास्तिक्यं दानमीश्वरपूजनम् ।
    सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् ॥ १॥

    tapaḥ santoṣamāstikyaṃ dānamīśvarapūjanam ।
    siddhāntaśravaṇaṃ caiva hrīrmatiśca japo vratam ॥ 1॥

    एते च नियमाः प्रोक्तास्तान्वक्ष्यामि क्रमाच्छृणु ॥ २॥

    ete ca niyamāḥ proktāstānvakṣyāmi kramācchṛṇu ॥ 2॥

    वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रयणादिभिः ।
    शरीरशोषणं यत्तत्तप इत्युच्यते बुधैः ॥ ३॥

    vedoktena prakāreṇa kṛcchracāndrayaṇādibhiḥ ।
    śarīraśoṣaṇaṃ yattattapa ityucyate budhaiḥ ॥ 3॥

    को वा मोक्षः कथं तेन संसारं प्रतिपन्नवान् ।
    इत्यालोकनमर्थज्ञास्तपः शंसन्ति पण्डिताः ॥ ४॥

    ko vā mokṣaḥ kathaṃ tena saṃsāraṃ pratipannavān ।
    ityālokanamarthajñāstapaḥ śaṃsanti paṇḍitāḥ ॥ 4॥

    यदृच्छालाभतो नित्यं प्रीतिर्या जायते नृणाम् ।
    तत्सन्तोषं विदुः प्राज्ञाः परिज्ञानैकतत्पराः ॥ ५॥

    yadṛcchālābhato nityaṃ prītiryā jāyate nṛṇām ।
    tatsantoṣaṃ viduḥ prājñāḥ parijñānaikatatparāḥ ॥ 5॥

    ब्रह्मादिलोकपर्यन्ताद्विरक्त्या यल्लभेत्प्रियम् ।
    सर्वत्र विगतस्नेहः संतोषं परमं विदुः ।
    श्रौते स्मार्ते च विश्वासो यत्तदास्तिक्यमुच्यते ॥ ६॥

    brahmādilokaparyantādviraktyā yallabhetpriyam ।
    sarvatra vigatasnehaḥ saṃtoṣaṃ paramaṃ viduḥ ।
    śraute smārte ca viśvāso yattadāstikyamucyate ॥ 6॥

    न्यायार्जितधनं श्रान्ते श्रद्धया वैदिके जने ।
    अन्यद्वा यत्प्रदीयन्ते तद्दानं प्रोच्यते मया ॥ ७॥

    nyāyārjitadhanaṃ śrānte śraddhayā vaidike jane ।
    anyadvā yatpradīyante taddānaṃ procyate mayā ॥ 7॥

    रागाद्यपेतं हृदयं वागदुष्टानृतादिना ।
    हिंसादिरहितं कर्म यत्तदीश्वरपूजनम् ॥ ८॥

    rāgādyapetaṃ hṛdayaṃ vāgaduṣṭānṛtādinā ।
    hiṃsādirahitaṃ karma yattadīśvarapūjanam ॥ 8॥

    सत्यं ज्ञानमनन्तं च परानन्दं परं ध्रुवम् ।
    प्रत्यगित्यवगन्तव्यं वेदान्तश्रवणं बुधाः ॥ ९॥

    satyaṃ jñānamanantaṃ ca parānandaṃ paraṃ dhruvam ।
    pratyagityavagantavyaṃ vedāntaśravaṇaṃ budhāḥ ॥ 9॥

    वेदलौकिकमार्गेषु कुत्सितं कर्म यद्भवेत् ।
    तस्मिन्भवति या लज्जा ह्रीः सैवेति प्रकीर्तिता ।
    वैदिकेषु च सर्वेषु श्रद्धा या सा मतिर्भवेत् ॥ १०॥

    vedalaukikamārgeṣu kutsitaṃ karma yadbhavet ।
    tasminbhavati yā lajjā hrīḥ saiveti prakīrtitā ।
    vaidikeṣu ca sarveṣu śraddhā yā sā matirbhavet ॥ 10॥

    गुरुणा चोपदिष्टोऽपि तत्र संबन्धवर्जितः ।
    वेदोक्तेनैव मार्गेण मन्त्राभ्यासो जपः स्मृतः ॥ ११॥

    guruṇā copadiṣṭo'pi tatra saṃbandhavarjitaḥ ।
    vedoktenaiva mārgeṇa mantrābhyāso japaḥ smṛtaḥ ॥ 11॥

    कल्पसूत्रे तथा वेदे धर्मशास्त्रे पुराणके ।
    इतिहासे च वृत्तिर्या स जपः प्रोच्यते मया ॥ १२॥

    kalpasūtre tathā vede dharmaśāstre purāṇake ।
    itihāse ca vṛttiryā sa japaḥ procyate mayā ॥ 12॥

    जपस्तु द्विविधः प्रोक्तो वाचिको मानसस्तथा ॥ १३॥

    japastu dvividhaḥ prokto vāciko mānasastathā ॥ 13॥

    वाचिकोपांशुरुच्चैश्च द्विविधः परिकीर्तितः ।
    मानसोमननध्यानभेदाद्द्वैविध्यमाश्रितः ॥ १४॥

    vācikopāṃśuruccaiśca dvividhaḥ parikīrtitaḥ ।
    mānasomananadhyānabhedāddvaividhyamāśritaḥ ॥ 14॥

    उच्चैर्जपादुपांशुश्च सहस्रगुणमुच्यते ।
    मानसश्च तथोपांशोः सहस्रगुणमुच्यते ॥ १५॥

    uccairjapādupāṃśuśca sahasraguṇamucyate ।
    mānasaśca tathopāṃśoḥ sahasraguṇamucyate ॥ 15॥

    उच्चैर्जपश्च सर्वेषां यथोक्तफलदो भवेत् ।
    नीचैःश्रोत्रेण चेन्मन्त्रः श्रुतश्चेन्निष्फलं भवेत् ॥ १६॥

    uccairjapaśca sarveṣāṃ yathoktaphalado bhavet ।
    nīcaiḥśrotreṇa cenmantraḥ śrutaścenniṣphalaṃ bhavet ॥ 16॥

    इति॥

    iti॥

    इति द्वितीयः खण्डः ॥ २॥

    iti dvitīyaḥ khaṇḍaḥ ॥ 2॥

    स्वस्तिकं गोमुखं पद्मं वीरसिंहासने तथा ।
    भद्रं मुक्तासनं चैव मयूरासनमेव च ॥ १॥

    svastikaṃ gomukhaṃ padmaṃ vīrasiṃhāsane tathā ।
    bhadraṃ muktāsanaṃ caiva mayūrāsanameva ca ॥ 1॥

    सुखासनसमाख्यं च नवमं मुनिपुङ्गव ।
    जानूर्वोरन्तरे कृत्वा सम्यक् पादतले उभे ॥ २॥

    sukhāsanasamākhyaṃ ca navamaṃ munipuṅgava ।
    jānūrvorantare kṛtvā samyak pādatale ubhe ॥ 2॥

    समग्रीवशिरःकायः स्वस्तिकं नित्यमभ्यसेत् ।
    सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् ॥ ३॥

    samagrīvaśiraḥkāyaḥ svastikaṃ nityamabhyaset ।
    savye dakṣiṇagulphaṃ tu pṛṣṭhapārśve niyojayet ॥ 3॥

    दक्षिणेऽपि तथा सव्यं गोमुखं तत्प्रचक्षते ।
    अङ्गुष्ठावधि गृह्णीयाद्धस्ताभ्यां व्युत्क्रमेण तु ॥ ४॥

    dakṣiṇe'pi tathā savyaṃ gomukhaṃ tatpracakṣate ।
    aṅguṣṭhāvadhi gṛhṇīyāddhastābhyāṃ vyutkrameṇa tu ॥ 4॥

    ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतलद्वयम् ।
    पद्मासनं भवेत्प्राज्ञ सर्वरोगभयापहम् ॥ ५॥

    ūrvorupari viprendra kṛtvā pādataladvayam ।
    padmāsanaṃ bhavetprājña sarvarogabhayāpaham ॥ 5॥

    दक्षिणेतरपादं तु दक्षिणोरुणि विन्यसेत् ।
    ऋजुकायः समासीनो वीरासनमुदाहृतम् ॥ ६॥

    dakṣiṇetarapādaṃ tu dakṣiṇoruṇi vinyaset ।
    ṛjukāyaḥ samāsīno vīrāsanamudāhṛtam ॥ 6॥

    गुल्फौ तु वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ।
    पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् ।
    भद्रासनं भवेदेतद्विषरोगविनाशनम् ॥ ७॥

    gulphau tu vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet ।
    pārśvapādau ca pāṇibhyāṃ dṛḍhaṃ baddhvā suniścalam ।
    bhadrāsanaṃ bhavedetadviṣarogavināśanam ॥ 7॥

    निपीड्य सीवनीं सूक्ष्मं दक्षिणेतरगुल्फतः ।
    वामं याम्येन गुल्फेन मुक्तासनमिदं भवेत् ॥ ८॥

    nipīḍya sīvanīṃ sūkṣmaṃ dakṣiṇetaragulphataḥ ।
    vāmaṃ yāmyena gulphena muktāsanamidaṃ bhavet ॥ 8॥

    मेढ्रादुपरि निक्षिप्य सव्यं गुल्फं ततोपरि ।
    गुल्फान्तरं च संक्षिप्य मुक्तासनमिदं मुने ॥ ९॥

    meḍhrādupari nikṣipya savyaṃ gulphaṃ tatopari ।
    gulphāntaraṃ ca saṃkṣipya muktāsanamidaṃ mune ॥ 9॥

    कूर्पराग्रे मुनिश्रेष्ठ निक्षिपेन्नाभिपार्श्वयोः ।
    भूम्यां पाणितलद्वन्द्वं निक्षिप्यैकाग्रमानसः ॥ १०॥

    kūrparāgre muniśreṣṭha nikṣipennābhipārśvayoḥ ।
    bhūmyāṃ pāṇitaladvandvaṃ nikṣipyaikāgramānasaḥ ॥ 10॥

    समुन्नतशिरःपादो दण्डवद्व्योम्निसंस्थितः ।
    मयूरासनमेतत्स्यात्सर्वपापप्रणाशनम् ॥ ११॥

    samunnataśiraḥpādo daṇḍavadvyomnisaṃsthitaḥ ।
    mayūrāsanametatsyātsarvapāpapraṇāśanam ॥ 11॥

    येन केन प्रकारेण सुखं धैर्यं च जायते ।
    तत्सुखासनमित्युक्तमशक्तस्तत्समाश्रयेत् ॥ १२॥

    yena kena prakāreṇa sukhaṃ dhairyaṃ ca jāyate ।
    tatsukhāsanamityuktamaśaktastatsamāśrayet ॥ 12॥

    आसनं विजितं येन जितं तेन जगत्त्रयम् ।
    अनेन विधिना युक्तः प्राणायामं सदा कुरु ॥ १३॥

    āsanaṃ vijitaṃ yena jitaṃ tena jagattrayam ।
    anena vidhinā yuktaḥ prāṇāyāmaṃ sadā kuru ॥ 13॥

    इति॥

    iti॥

    इति तृतीयः खण्डः ॥ ३॥

    iti tṛtīyaḥ khaṇḍaḥ ॥ 3॥

    शरीरं तावदेव स्यात्षण्णवत्यङ्गुलात्मकम् ।
    देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् ॥ १॥

    śarīraṃ tāvadeva syātṣaṇṇavatyaṅgulātmakam ।
    dehamadhye śikhisthānaṃ taptajāmbūnadaprabham ॥ 1॥

    त्रिकोणं मनुजानां तु सत्यमुक्तं हि सांकृते ।
    गुदात्तु द्व्यङ्गुलादूर्ध्वं मेढ्रात्तु द्व्यन्ङ्गुलादधः ॥ २॥

    trikoṇaṃ manujānāṃ tu satyamuktaṃ hi sāṃkṛte ।
    gudāttu dvyaṅgulādūrdhvaṃ meḍhrāttu dvyanṅgulādadhaḥ ॥ 2॥

    देहमध्यं मुनिप्रोक्तमनुजानीहि सांकृते ।
    कन्दस्थानं मुनिश्रेष्ठ मूलाधारान्नवाङ्गुलम् ॥ ३॥

    dehamadhyaṃ muniproktamanujānīhi sāṃkṛte ।
    kandasthānaṃ muniśreṣṭha mūlādhārānnavāṅgulam ॥ 3॥

    चतुरङ्गुलमायामविस्तारं मुनिपुङ्गव ।
    कुक्कुटाण्डसमाकारं भूषितं तु त्वगादिभिः ॥ ४॥

    caturaṅgulamāyāmavistāraṃ munipuṅgava ।
    kukkuṭāṇḍasamākāraṃ bhūṣitaṃ tu tvagādibhiḥ ॥ 4॥

    तन्मध्ये नाभिरित्युक्तं योगज्ञैर्मुनिपुङ्गव ।
    कन्दमध्यस्थिता नाडी सुषुम्नेति प्रकीर्तिता ॥ ५॥

    tanmadhye nābhirityuktaṃ yogajñairmunipuṅgava ।
    kandamadhyasthitā nāḍī suṣumneti prakīrtitā ॥ 5॥

    तिष्ठन्ति परितस्तस्या नाडयो मुनिपुङ्गव ।
    द्विसप्ततिसहस्राणि तासां मुख्याश्चतुर्दश ॥ ६॥

    tiṣṭhanti paritastasyā nāḍayo munipuṅgava ।
    dvisaptatisahasrāṇi tāsāṃ mukhyāścaturdaśa ॥ 6॥

    सुषुम्ना पिङ्गला तद्वदिडा चैव सरस्वती ।
    पूषा च वरुणा चैव हस्तिजिह्वा यशस्विनी ॥ ७॥

    suṣumnā piṅgalā tadvadiḍā caiva sarasvatī ।
    pūṣā ca varuṇā caiva hastijihvā yaśasvinī ॥ 7॥

    अलम्बुसा कुहुश्चैव विश्वोदरी तपस्विनी ।
    शङ्खिनी चैव गान्धारा इति मुख्याश्चतुर्दश ॥ ८॥

    alambusā kuhuścaiva viśvodarī tapasvinī ।
    śaṅkhinī caiva gāndhārā iti mukhyāścaturdaśa ॥ 8॥

    तासां मुख्यतमास्तिस्रस्तिसृष्वेकोत्तमोत्तमा ।
    ब्रह्मनाडीति सा प्रोक्ता मुने वेदान्तवेदिभिः ॥ ९॥

    tāsāṃ mukhyatamāstisrastisṛṣvekottamottamā ।
    brahmanāḍīti sā proktā mune vedāntavedibhiḥ ॥ 9॥

    पृष्ठमध्यस्थितेनान्स्था वीणादण्डेन सुव्रत ।
    सह मस्तकपर्यन्तं सुषुम्ना सुप्रतिष्ठिता ॥ १०॥

    pṛṣṭhamadhyasthitenānsthā vīṇādaṇḍena suvrata ।
    saha mastakaparyantaṃ suṣumnā supratiṣṭhitā ॥ 10॥

    नाभिकन्दादधः स्थानं कुण्डल्या द्व्यङ्गुलं मुने ।
    अष्टप्रकृतिरूपा सा कुण्डली मुनिसत्तम ॥ ११॥

    nābhikandādadhaḥ sthānaṃ kuṇḍalyā dvyaṅgulaṃ mune ।
    aṣṭaprakṛtirūpā sā kuṇḍalī munisattama ॥ 11॥

    यथावद्वायुचेष्टां च जलान्नादीनि नित्यशः ।
    परितः कन्दपार्श्वेषु निरुध्यैव सदा स्थिता ॥ १२॥

    yathāvadvāyuceṣṭāṃ ca jalānnādīni nityaśaḥ ।
    paritaḥ kandapārśveṣu nirudhyaiva sadā sthitā ॥ 12॥

    स्वमुखेन समावेष्ट्य ब्रह्मरन्ध्रमुखं मुने ।
    सुषुम्नाया इडा सव्ये दक्षिणे पिङ्गला स्थिता ॥ १३॥

    svamukhena samāveṣṭya brahmarandhramukhaṃ mune ।
    suṣumnāyā iḍā savye dakṣiṇe piṅgalā sthitā ॥ 13॥

    सरस्वती कुहुश्चैव सुषुम्नापार्श्वयोः स्थिते ।
    गान्धारा हस्तिजिह्वा च इडायाः पृष्ठपार्श्वयोः ॥ १४॥

    sarasvatī kuhuścaiva suṣumnāpārśvayoḥ sthite ।
    gāndhārā hastijihvā ca iḍāyāḥ pṛṣṭhapārśvayoḥ ॥ 14॥

    पूषा यशस्विनी चैव पिङ्गला पृष्ठपूर्वयोः ।
    कुहोश्च हस्तिजिह्वाया मध्ये विश्वोदरी स्थिता ॥ १५॥

    pūṣā yaśasvinī caiva piṅgalā pṛṣṭhapūrvayoḥ ।
    kuhośca hastijihvāyā madhye viśvodarī sthitā ॥ 15॥

    यशस्विन्याः कुहोर्मध्ये वरुणा सुप्रतिष्ठिता ।
    पूषाश्च सरस्वत्या मध्ये प्रोक्ता यशस्विनी ॥ १६॥

    yaśasvinyāḥ kuhormadhye varuṇā supratiṣṭhitā ।
    pūṣāśca sarasvatyā madhye proktā yaśasvinī ॥ 16॥

    गान्धारायाः सरस्वत्या मध्ये प्रोक्ता च शङ्खिनी ।
    अलम्बुसा स्थिता पायुपर्यन्तं कन्दमध्यगा ॥ १७॥

    gāndhārāyāḥ sarasvatyā madhye proktā ca śaṅkhinī ।
    alambusā sthitā pāyuparyantaṃ kandamadhyagā ॥ 17॥

    पूर्वभागे सुषुम्नाया राकायाः संस्थिता कुहूः ।
    अधश्चोर्ध्वं स्थिता नाडी याम्यनासान्तमिष्यते ॥ १८॥

    pūrvabhāge suṣumnāyā rākāyāḥ saṃsthitā kuhūḥ ।
    adhaścordhvaṃ sthitā nāḍī yāmyanāsāntamiṣyate ॥ 18॥

    इअडा तु सव्यनासान्तं संस्थिता मुनिपुङ्गव ।
    यशस्विनी च वामस्य पादाङ्गुष्ठान्तमिष्यते ॥ १९॥

    iaḍā tu savyanāsāntaṃ saṃsthitā munipuṅgava ।
    yaśasvinī ca vāmasya pādāṅguṣṭhāntamiṣyate ॥ 19॥

    पूषा वामाक्षिपर्यन्ता पिङ्गलायास्तु पृष्ठतः ।
    पयस्विनी च याम्यस्य कर्णान्तं प्रोच्यते बुधैः ॥ २०॥

    pūṣā vāmākṣiparyantā piṅgalāyāstu pṛṣṭhataḥ ।
    payasvinī ca yāmyasya karṇāntaṃ procyate budhaiḥ ॥ 20॥

    सरस्वती तथा चोर्ध्वगता जिह्वा तथा मुने ।
    हस्तिजिह्वा तथा सव्यपादाङ्गुष्ठान्तमिष्यते ॥ २१॥

    sarasvatī tathā cordhvagatā jihvā tathā mune ।
    hastijihvā tathā savyapādāṅguṣṭhāntamiṣyate ॥ 21॥

    शङ्खिनी नाम या नाडी सव्यकर्णान्तमिष्यते ।
    गान्धारा सव्यनेत्रान्ता प्रोक्ता वेदान्तवेदिभिः ॥ २२॥

    śaṅkhinī nāma yā nāḍī savyakarṇāntamiṣyate ।
    gāndhārā savyanetrāntā proktā vedāntavedibhiḥ ॥ 22॥

    विश्वोदराभिधा नाडी कन्दमध्ये व्यवस्थिता ।
    प्राणोऽपानस्तथा व्यानः समानोदान एव च ॥ २३॥

    viśvodarābhidhā nāḍī kandamadhye vyavasthitā ।
    prāṇo'pānastathā vyānaḥ samānodāna eva ca ॥ 23॥

    नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ।
    एते नाडीषु सर्वासु चरन्ति दश वायवः ॥ २४॥

    nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ ।
    ete nāḍīṣu sarvāsu caranti daśa vāyavaḥ ॥ 24॥

    तेषु प्राणादयः पञ्च मुख्याः पञ्चसु सुव्रत ।
    प्राणसंज्ञस्तथापानः पूज्यः प्राणस्तयोर्मुने ॥ २५॥

    teṣu prāṇādayaḥ pañca mukhyāḥ pañcasu suvrata ।
    prāṇasaṃjñastathāpānaḥ pūjyaḥ prāṇastayormune ॥ 25॥

    आस्यनासिकयोर्मध्ये नाभिमध्ये तथा हृदि ।
    प्राणसंज्ञोऽनिलो नित्यं वर्तते मुनिसत्तम ॥ २६॥

    āsyanāsikayormadhye nābhimadhye tathā hṛdi ।
    prāṇasaṃjño'nilo nityaṃ vartate munisattama ॥ 26॥

    अपानो वर्तते नित्यं गुदमध्योरुजानुषु ।
    उदरे सकले कट्यां नाभौ जङ्घे च सुव्रत ॥ २७॥

    apāno vartate nityaṃ gudamadhyorujānuṣu ।
    udare sakale kaṭyāṃ nābhau jaṅghe ca suvrata ॥ 27॥

    व्यानः श्रोत्राक्षिमध्ये च कुकुभ्द्यां गुल्फयोरपि ।
    प्राणस्थाने गले चैव वर्तते मुनिपुङ्गव ॥ २८॥

    vyānaḥ śrotrākṣimadhye ca kukubhdyāṃ gulphayorapi ।
    prāṇasthāne gale caiva vartate munipuṅgava ॥ 28॥

    उदानसंज्ञो विज्ञेयः पादयोर्हस्तयोरपि ।
    समानः सर्वदेहेषु व्याप्य तिष्ठत्यसंशयः ॥ २९॥

    udānasaṃjño vijñeyaḥ pādayorhastayorapi ।
    samānaḥ sarvadeheṣu vyāpya tiṣṭhatyasaṃśayaḥ ॥ 29॥

    नागादिवायवः पञ्चत्वगस्थ्यादिषु संस्थिताः ।
    निःश्वासोच्छ्वासकासाश्च प्राणकर्म हि सांकृते ॥ ३०॥

    nāgādivāyavaḥ pañcatvagasthyādiṣu saṃsthitāḥ ।
    niḥśvāsocchvāsakāsāśca prāṇakarma hi sāṃkṛte ॥ 30॥

    अपानाख्यस्य वायोस्तु विण्मूत्रादिविसर्जनम् ।
    समानः सर्वसामीप्यं करोति मुनिपुङ्गव ॥ ३१॥

    apānākhyasya vāyostu viṇmūtrādivisarjanam ।
    samānaḥ sarvasāmīpyaṃ karoti munipuṅgava ॥ 31॥

    उदान ऊर्ध्वगमनं करोत्येव न संशयः ।
    व्यानो विवादकृत्प्रोक्तो मुने वेदान्तवेदिभिः ॥ ३२॥

    udāna ūrdhvagamanaṃ karotyeva na saṃśayaḥ ।
    vyāno vivādakṛtprokto mune vedāntavedibhiḥ ॥ 32॥

    उद्गारादिगुणः प्रोक्तो व्यानाख्यस्य महामुने ।
    धनञ्जयस्य शोभादि कर्म प्रोक्तं हि सांकृते ॥ ३३॥

    udgārādiguṇaḥ prokto vyānākhyasya mahāmune ।
    dhanañjayasya śobhādi karma proktaṃ hi sāṃkṛte ॥ 33॥

    निमीलनादि कूर्मस्य क्षुधा तु कृकरस्य च ।
    देवदत्तस्य विप्रेन्द्र तन्द्रीकर्म प्रकीर्तितम् ॥ ३४॥

    nimīlanādi kūrmasya kṣudhā tu kṛkarasya ca ।
    devadattasya viprendra tandrīkarma prakīrtitam ॥ 34॥

    सुषुम्नायाः शिवो देव इडाया देवता हरिः ।
    पिङ्गलाया विरञ्चिः स्यात्सरस्वत्या विराण्मुने ॥ ३५॥

    suṣumnāyāḥ śivo deva iḍāyā devatā hariḥ ।
    piṅgalāyā virañciḥ syātsarasvatyā virāṇmune ॥ 35॥

    पूषाधिदेवता प्रोक्ता वरुणा वायुदेवता ।
    हस्तिजिह्वाभिधायास्तु वरुणो देवता भवेत् ॥ ३६॥

    pūṣādhidevatā proktā varuṇā vāyudevatā ।
    hastijihvābhidhāyāstu varuṇo devatā bhavet ॥ 36॥

    यशस्विन्या मुनिश्रेष्ठ भगवान्भास्करस्तथा ।
    अलम्बुसाया अबात्मा वरुणः परिकीर्तितः ॥ ३७॥

    yaśasvinyā muniśreṣṭha bhagavānbhāskarastathā ।
    alambusāyā abātmā varuṇaḥ parikīrtitaḥ ॥ 37॥

    कुहोः क्षुद्देवता प्रोक्ता गान्धारी चन्द्रदेवता ।
    शङ्खिन्याश्चन्द्रमास्तद्वत्पयस्विन्याः प्रजापतिः ॥ ३८॥

    kuhoḥ kṣuddevatā proktā gāndhārī candradevatā ।
    śaṅkhinyāścandramāstadvatpayasvinyāḥ prajāpatiḥ ॥ 38॥

    विश्वोदराभिधायास्तु भगवान्पावकः पतिः ।
    इडायां चन्द्रमा नित्यं चरत्येव महामुने ॥ ३९॥

    viśvodarābhidhāyāstu bhagavānpāvakaḥ patiḥ ।
    iḍāyāṃ candramā nityaṃ caratyeva mahāmune ॥ 39॥

    पिङ्गलायां रविस्तद्वन्मुने वेदविदां वर ।
    पिङ्गलायामिडायां तु वायोः संक्रमणं तु यत् ॥ ४०॥

    piṅgalāyāṃ ravistadvanmune vedavidāṃ vara ।
    piṅgalāyāmiḍāyāṃ tu vāyoḥ saṃkramaṇaṃ tu yat ॥ 40॥

    तदुत्तरायणं प्रोक्तं मुने वेदान्तवेदिभिः ।
    इडायां पिङ्गलायां तु प्राणसंक्रमणं मुने ॥ ४१॥

    taduttarāyaṇaṃ proktaṃ mune vedāntavedibhiḥ ।
    iḍāyāṃ piṅgalāyāṃ tu prāṇasaṃkramaṇaṃ mune ॥ 41॥

    दक्षिणायनमित्युक्तं पिङ्गलायामिति श्रुतिः ।
    इडापिङ्गलयोः संधिं यदा प्राणः समागतः ॥ ४२॥

    dakṣiṇāyanamityuktaṃ piṅgalāyāmiti śrutiḥ ।
    iḍāpiṅgalayoḥ saṃdhiṃ yadā prāṇaḥ samāgataḥ ॥ 42॥

    अमावास्या तदा प्रोक्ता देहे देहभृतां वर ।
    मूलाधारं यदा प्राणः प्रविष्टः पण्डितोत्तम ॥ ४३॥

    amāvāsyā tadā proktā dehe dehabhṛtāṃ vara ।
    mūlādhāraṃ yadā prāṇaḥ praviṣṭaḥ paṇḍitottama ॥ 43॥

    तदाद्यं विषुवं प्रोक्तं तपसैस्तापतोत्तम ।
    प्राणसंज्ञो मुनिश्रेष्ठ मूर्धानं प्राविशद्यदा ॥ ४४॥

    tadādyaṃ viṣuvaṃ proktaṃ tapasaistāpatottama ।
    prāṇasaṃjño muniśreṣṭha mūrdhānaṃ prāviśadyadā ॥ 44॥

    तदन्त्यं विषुवं प्रोक्तं तापसैस्तत्त्वचिन्तकैः ।
    निःश्वासोच्छ्वासनं सर्वं मासानां संक्रमो भवेत् ॥ ४५॥

    tadantyaṃ viṣuvaṃ proktaṃ tāpasaistattvacintakaiḥ ।
    niḥśvāsocchvāsanaṃ sarvaṃ māsānāṃ saṃkramo bhavet ॥ 45॥

    इडायाः कुण्डलीस्थानं यदा प्राणः समागतः ।
    सोमग्रहणमित्युक्तं तदा तत्त्वविदां वर ॥ ४६॥

    iḍāyāḥ kuṇḍalīsthānaṃ yadā prāṇaḥ samāgataḥ ।
    somagrahaṇamityuktaṃ tadā tattvavidāṃ vara ॥ 46॥

    यदा पिङ्गलया प्राणः कुण्डलीस्थानमागतः ।
    तदातदा भवेत्सूर्यग्रहण मुनिपुङ्गव ॥ ४७॥

    yadā piṅgalayā prāṇaḥ kuṇḍalīsthānamāgataḥ ।
    tadātadā bhavetsūryagrahaṇa munipuṅgava ॥ 47॥

    श्रीपर्वतं शिरःस्थाने केदारं तु ललाटके ।
    वाराणसी महाप्राज्ञ भ्रुवोर्घ्राणस्य मध्यमे ॥ ४८॥

    śrīparvataṃ śiraḥsthāne kedāraṃ tu lalāṭake ।
    vārāṇasī mahāprājña bhruvorghrāṇasya madhyame ॥ 48॥

    कुरुक्षेत्रं कुचस्थाने प्रयागं हृत्सरोरुहे ।
    चिदम्बरं तु हृन्मध्ये आधारे कमलालयम् ॥ ४९॥

    kurukṣetraṃ kucasthāne prayāgaṃ hṛtsaroruhe ।
    cidambaraṃ tu hṛnmadhye ādhāre kamalālayam ॥ 49॥

    आत्मतीर्थं समुत्सृज्य बहिस्तीर्थानि यो व्रजेत् ।
    करस्थं स महारत्नं त्यक्त्वा काचं विमार्गते ॥ ५०॥

    ātmatīrthaṃ samutsṛjya bahistīrthāni yo vrajet ।
    karasthaṃ sa mahāratnaṃ tyaktvā kācaṃ vimārgate ॥ 50॥

    भावतीर्थं परं तीर्थं प्रमाणं सर्वकर्मसु ।
    अन्यथालिङ्ग्यते कान्ता अन्यथालिङ्ग्यते सुता ॥ ५१॥

    bhāvatīrthaṃ paraṃ tīrthaṃ pramāṇaṃ sarvakarmasu ।
    anyathāliṅgyate kāntā anyathāliṅgyate sutā ॥ 51॥

    तीर्थानि तोयपूर्णानि देवान्काष्ठादिनिर्मितान् ।
    योगिनो न प्रपूज्यन्ते स्वात्मप्रत्ययकारणात् ॥ ५२॥

    tīrthāni toyapūrṇāni devānkāṣṭhādinirmitān ।
    yogino na prapūjyante svātmapratyayakāraṇāt ॥ 52॥

    बहिस्तीर्थात्परं तीर्थमन्तस्तीर्थं महामुने ।
    आत्मतीर्थं महातीर्थमन्यत्तीर्थं निरर्थकम् ॥ ५३॥

    bahistīrthātparaṃ tīrthamantastīrthaṃ mahāmune ।
    ātmatīrthaṃ mahātīrthamanyattīrthaṃ nirarthakam ॥ 53॥

    चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुद्ध्यति ।
    शतशोऽपि जलैर्धौतं सुराभाण्डमिवशुचि ॥ ५४॥

    cittamantargataṃ duṣṭaṃ tīrthasnānairna śuddhyati ।
    śataśo'pi jalairdhautaṃ surābhāṇḍamivaśuci ॥ 54॥

    विषुवायनकालेषु ग्रहणे चान्तरे सदा ।
    वाराणस्यादिके स्थाने स्नात्वा शुद्धो भवेन्नरः ॥ ५५॥

    viṣuvāyanakāleṣu grahaṇe cāntare sadā ।
    vārāṇasyādike sthāne snātvā śuddho bhavennaraḥ ॥ 55॥

    ज्ञानयोगपराणां तु पादप्रक्षालितं जलम् ।
    भावशुद्ध्यर्थमज्ञानां तत्तीर्थं मुनिपुङ्गव ॥ ५६॥

    jñānayogaparāṇāṃ tu pādaprakṣālitaṃ jalam ।
    bhāvaśuddhyarthamajñānāṃ tattīrthaṃ munipuṅgava ॥ 56॥

    तीर्थे ज्ञाने जपे यज्ञे काष्ठे पाषाणके सदा ।
    शिवं पश्यति मूढात्मा शिवे देहे प्रतिष्ठिते ॥ ५७॥

    tīrthe jñāne jape yajñe kāṣṭhe pāṣāṇake sadā ।
    śivaṃ paśyati mūḍhātmā śive dehe pratiṣṭhite ॥ 57॥

    अन्तस्थं मां परित्यज्य बहिष्ठं यस्तु सेवते ।
    हस्तस्थं पिण्डमुत्सृज्य लिहेत्कूर्परमात्मनः ॥ ५८॥

    antasthaṃ māṃ parityajya bahiṣṭhaṃ yastu sevate ।
    hastasthaṃ piṇḍamutsṛjya lihetkūrparamātmanaḥ ॥ 58॥

    शिवमात्मनि पश्यन्ति प्रतिमासु न योगिनः ।
    अज्ञानं भावनार्थाय प्रतिमाः परिकल्पिताः ॥ ५९॥

    śivamātmani paśyanti pratimāsu na yoginaḥ ।
    ajñānaṃ bhāvanārthāya pratimāḥ parikalpitāḥ ॥ 59॥

    अपूर्वमपरं ब्रह्म स्वात्मानं सत्यमद्वयम् ।
    प्रज्ञानघनमानन्दं यः पश्यति स पश्यति ॥ ६०॥

    apūrvamaparaṃ brahma svātmānaṃ satyamadvayam ।
    prajñānaghanamānandaṃ yaḥ paśyati sa paśyati ॥ 60॥

    नाडीपुञ्जं सदा सारं नरभावं महामुने ।
    समुत्सृज्यात्मनात्मानमहमित्येव धारय ॥ ६१॥

    nāḍīpuñjaṃ sadā sāraṃ narabhāvaṃ mahāmune ।
    samutsṛjyātmanātmānamahamityeva dhāraya ॥ 61॥

    अशरीरं शरीरेषु महान्तं विभुमीश्वरम् ।
    आनन्दमक्षरं साक्षान्मत्वा धीरो न शोचति ॥ ६२॥

    aśarīraṃ śarīreṣu mahāntaṃ vibhumīśvaram ।
    ānandamakṣaraṃ sākṣānmatvā dhīro na śocati ॥ 62॥

    विभेदजनके ज्ञाने नष्टे ज्ञानबलान्मुने ।
    आत्मनो ब्रह्मणो भेदमसन्तं किं करिष्यति ॥ ६३॥

    vibhedajanake jñāne naṣṭe jñānabalānmune ।
    ātmano brahmaṇo bhedamasantaṃ kiṃ kariṣyati ॥ 63॥

    इति॥

    iti॥

    इति चतुर्थः खण्डः ॥ ४॥

    iti caturthaḥ khaṇḍaḥ ॥ 4॥

    सम्यक्कथय मे ब्रह्मनाडीशुद्धिं समासतः ।
    यथा शुद्ध्या सदा ध्यायञ्जीवन्मुक्तो भवाम्यहम् ॥ १॥

    samyakkathaya me brahmanāḍīśuddhiṃ samāsataḥ ।
    yathā śuddhyā sadā dhyāyañjīvanmukto bhavāmyaham ॥ 1॥

    सांकृते श्रुणु वक्ष्यामि नाडीशुद्धिं समासतः ।
    विध्युक्तकर्मसंयुक्तः कामसंकल्पवर्जितः ॥ २॥

    sāṃkṛte śruṇu vakṣyāmi nāḍīśuddhiṃ samāsataḥ ।
    vidhyuktakarmasaṃyuktaḥ kāmasaṃkalpavarjitaḥ ॥ 2॥

    यमाद्यष्टाङ्गसंयुक्तः शान्तः सत्यपरायणः ।
    स्वात्मन्यवस्थितः सम्यग्ज्ञानिभिश्च सुशिक्षितः ॥ ३॥

    yamādyaṣṭāṅgasaṃyuktaḥ śāntaḥ satyaparāyaṇaḥ ।
    svātmanyavasthitaḥ samyagjñānibhiśca suśikṣitaḥ ॥ 3॥

    पर्वताग्रे नदीतीरे बिल्वमूले वनेऽथवा ।
    मनोरमे शुचौ देशे मठं कृत्वा समाहितः ॥ ४॥

    parvatāgre nadītīre bilvamūle vane'thavā ।
    manorame śucau deśe maṭhaṃ kṛtvā samāhitaḥ ॥ 4॥

    आरभ्य चासनं पश्चात्प्राङ्मुखोदङ्मुखोऽपि वा ।
    समग्रीवशिरःकायः संवृतास्यः सुनिश्चलः ॥ ५॥

    ārabhya cāsanaṃ paścātprāṅmukhodaṅmukho'pi vā ।
    samagrīvaśiraḥkāyaḥ saṃvṛtāsyaḥ suniścalaḥ ॥ 5॥

    नासाग्रे शशभृद्बिम्बे बिन्दुमध्ये तुरीयकम् ।
    स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः ॥ ६॥

    nāsāgre śaśabhṛdbimbe bindumadhye turīyakam ।
    sravantamamṛtaṃ paśyennetrābhyāṃ susamāhitaḥ ॥ 6॥

    इडया प्राणमाकृष्य पूरयित्वोदरे स्थितम् ।
    ततोऽग्निं देहमध्यस्थं ध्यायञ्ज्वालावलीयुतम् ॥ ७॥

    iḍayā prāṇamākṛṣya pūrayitvodare sthitam ।
    tato'gniṃ dehamadhyasthaṃ dhyāyañjvālāvalīyutam ॥ 7॥

    बिन्दुनादसमायुक्तमग्निबीजं विचिन्तयेत् ।
    पश्चाद्विरेचयेत्सम्यक्प्राणं पिङ्गलया बुधः ॥ ८॥

    bindunādasamāyuktamagnibījaṃ vicintayet ।
    paścādvirecayetsamyakprāṇaṃ piṅgalayā budhaḥ ॥ 8॥

    पुनः पिङ्गलयापूर्य वह्निबीजमनुस्मरेत् ।
    पुनर्विरचयेद्धीमानिडयैव शनैः शनैः ॥ ९॥

    punaḥ piṅgalayāpūrya vahnibījamanusmaret ।
    punarviracayeddhīmāniḍayaiva śanaiḥ śanaiḥ ॥ 9॥

    त्रिचतुर्वासरं वाथ त्रिचतुर्वारमेव च ।
    षट्कृत्वा विचरेन्नित्यं रहस्येवं त्रिसन्धिषु ॥ १०॥

    tricaturvāsaraṃ vātha tricaturvārameva ca ।
    ṣaṭkṛtvā vicarennityaṃ rahasyevaṃ trisandhiṣu ॥ 10॥

    नाडीशुद्धिमवाप्नोति पृथक् चिह्नोपलक्षितः ।
    शरीरलघुता दीप्तिर्वह्नेर्जाठरवर्तिनः ॥ ११॥

    nāḍīśuddhimavāpnoti pṛthak cihnopalakṣitaḥ ।
    śarīralaghutā dīptirvahnerjāṭharavartinaḥ ॥ 11॥

    नादाभिव्यक्तिरित्येतच्चिह्नं तत्सिद्धिसूचकम् ।
    यावदेतानि सम्पश्येत्तावदेवं समाचरेत् ॥ १२॥

    nādābhivyaktirityetaccihnaṃ tatsiddhisūcakam ।
    yāvadetāni sampaśyettāvadevaṃ samācaret ॥ 12॥

    अथवैतत्परित्यज्य स्वात्मशुद्धिं समाचरेत् ।
    आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयंप्रभः ॥ १३॥

    athavaitatparityajya svātmaśuddhiṃ samācaret ।
    ātmā śuddhaḥ sadā nityaḥ sukharūpaḥ svayaṃprabhaḥ ॥ 13॥

    अज्ञानान्मलिनो भाति ज्ञानच्छुद्धो भवत्ययम् ।
    अज्ञानमलपङ्कं यः क्षालयेज्ज्ञानतो यतः ।
    स एव सर्वदा शुद्धो नान्यः कर्मरतो हि सः ॥ १४॥

    ajñānānmalino bhāti jñānacchuddho bhavatyayam ।
    ajñānamalapaṅkaṃ yaḥ kṣālayejjñānato yataḥ ।
    sa eva sarvadā śuddho nānyaḥ karmarato hi saḥ ॥ 14॥

    इति॥

    iti॥

    इति पञ्चमः खण्डः ॥ ५॥

    iti pañcamaḥ khaṇḍaḥ ॥ 5॥

    प्राणायामक्रमं वक्ष्ये सांकृते श्रुणु सादरम् ।
    प्राणायाम इति प्रोक्तो रेचपूरककुम्भकैः ॥ १॥

    prāṇāyāmakramaṃ vakṣye sāṃkṛte śruṇu sādaram ।
    prāṇāyāma iti prokto recapūrakakumbhakaiḥ ॥ 1॥

    वर्णत्रयात्मकाः प्रोक्ता रेचपूरककुम्भकाः ।
    स एष प्रणवः प्रोक्तः प्राणायामस्तु तन्मयः ॥ २॥

    varṇatrayātmakāḥ proktā recapūrakakumbhakāḥ ।
    sa eṣa praṇavaḥ proktaḥ prāṇāyāmastu tanmayaḥ ॥ 2॥

    इडया वायुमाकृष्य पूरयित्वोदरे स्थितम् ।
    शनैः षोडशभिर्मात्रैरकारं तत्र संस्मरेत् ॥ ३॥

    iḍayā vāyumākṛṣya pūrayitvodare sthitam ।
    śanaiḥ ṣoḍaśabhirmātrairakāraṃ tatra saṃsmaret ॥ 3॥

    पूरितं धारयेत्पश्चाच्चतुःषष्ट्या तु मात्रया ।
    उकारमूर्तिमन्त्रापि संस्मरन्प्रणवं जपेत् ॥ ४॥

    pūritaṃ dhārayetpaścāccatuḥṣaṣṭyā tu mātrayā ।
    ukāramūrtimantrāpi saṃsmaranpraṇavaṃ japet ॥ 4॥

    यावद्वा शक्यते तावद्धारयेज्जपतत्परः ।
    पूरितं रेचयेत्पश्चान्मकारेणानिलं बुधः ॥ ५॥

    yāvadvā śakyate tāvaddhārayejjapatatparaḥ ।
    pūritaṃ recayetpaścānmakāreṇānilaṃ budhaḥ ॥ 5॥

    शनैः पिङ्गलया तत्र द्वात्रिंशन्मात्रया पुनः ।
    प्राणायामो भवेदेवं ततश्चैवं समभ्यसेत् ॥ ६॥

    śanaiḥ piṅgalayā tatra dvātriṃśanmātrayā punaḥ ।
    prāṇāyāmo bhavedevaṃ tataścaivaṃ samabhyaset ॥ 6॥

    पुनः पिङ्गलयापूर्य मात्रैः षोडशभिस्तथा ।
    अकारमूर्तिमत्रापि स्मरेदेकाग्रमानसः ॥ ७॥

    punaḥ piṅgalayāpūrya mātraiḥ ṣoḍaśabhistathā ।
    akāramūrtimatrāpi smaredekāgramānasaḥ ॥ 7॥

    धारयेत्पूरितं विद्वान्प्रणवं संजपन्वशी ।
    उकारमूर्तिं स ध्यायंश्चतुःषष्ट्या तु मात्रया ॥ ८॥

    dhārayetpūritaṃ vidvānpraṇavaṃ saṃjapanvaśī ।
    ukāramūrtiṃ sa dhyāyaṃścatuḥṣaṣṭyā tu mātrayā ॥ 8॥

    मकारं तु स्मरन्पश्चाद्रेचयेदिडयानिलम् ।
    एवमेव पुनः कुर्यादिडयापूर्य बुद्धिमान् ॥ ९॥

    makāraṃ tu smaranpaścādrecayediḍayānilam ।
    evameva punaḥ kuryādiḍayāpūrya buddhimān ॥ 9॥

    एवं समभ्यसेन्नित्यं प्राणायामं मुनीश्वर ।
    एवमभ्यासतो नित्यं षण्मासाद्यत्नवान्भवेत् ॥ १०॥

    evaṃ samabhyasennityaṃ prāṇāyāmaṃ munīśvara ।
    evamabhyāsato nityaṃ ṣaṇmāsādyatnavānbhavet ॥ 10॥

    वत्सराद्ब्रह्मविद्वान्स्यात्तस्मान्नित्यं समभ्यसेत् ।
    योगाभ्यासरतो नित्यं स्वधर्मनिरतश्च यः ॥ ११॥

    vatsarādbrahmavidvānsyāttasmānnityaṃ samabhyaset ।
    yogābhyāsarato nityaṃ svadharmanirataśca yaḥ ॥ 11॥

    प्राणसंयमनेनैव ज्ञानान्मुक्तो भविष्यति ।
    बाह्यादापूरणं वायोःरुदरे पूरको हि सः ॥ १२॥

    prāṇasaṃyamanenaiva jñānānmukto bhaviṣyati ।
    bāhyādāpūraṇaṃ vāyoḥrudare pūrako hi saḥ ॥ 12॥

    सम्पूर्णकुम्भवद्वायोर्धारणं कुम्भको भवेत् ।
    बहिर्विरचनं वायोरुदराद्रचेकः स्मृतः ॥ १३॥

    sampūrṇakumbhavadvāyordhāraṇaṃ kumbhako bhavet ।
    bahirviracanaṃ vāyorudarādracekaḥ smṛtaḥ ॥ 13॥

    प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः ।
    कंपनं मध्यमं विद्यादुत्थानं चोत्तमं विदुः ॥ १४॥

    prasvedajanako yastu prāṇāyāmeṣu so'dhamaḥ ।
    kaṃpanaṃ madhyamaṃ vidyādutthānaṃ cottamaṃ viduḥ ॥ 14॥

    पूर्वंपूर्वं प्रकुर्वीत यावदुत्थानसंभवः ।
    संभवत्युत्तमे प्राज्ञः प्राणायामे सुखी भवेत् ॥ १५॥

    pūrvaṃpūrvaṃ prakurvīta yāvadutthānasaṃbhavaḥ ।
    saṃbhavatyuttame prājñaḥ prāṇāyāme sukhī bhavet ॥ 15॥

    प्राणायमेन चित्तं तु शुद्धं भवति सुव्रत ।
    चित्ते शुद्धे शुचिः साक्षात्प्रत्यग्ज्योतिर्व्यवस्थितः ॥ १६॥

    prāṇāyamena cittaṃ tu śuddhaṃ bhavati suvrata ।
    citte śuddhe śuciḥ sākṣātpratyagjyotirvyavasthitaḥ ॥ 16॥

    प्राणश्चित्तेन संयुक्तः परमात्मनि तिष्ठति ।
    प्राणायामपरस्यास्य पुरुषस्य महात्मनः ॥ १७॥

    prāṇaścittena saṃyuktaḥ paramātmani tiṣṭhati ।
    prāṇāyāmaparasyāsya puruṣasya mahātmanaḥ ॥ 17॥

    देहश्चोत्तिष्ठते तेन किंचिज्ज्ञानाद्विमुक्तता ।
    रेचकं पूरकं मुक्त्वा कुम्भकं नित्यमभ्यसेत् ॥ १८॥

    dehaścottiṣṭhate tena kiṃcijjñānādvimuktatā ।
    recakaṃ pūrakaṃ muktvā kumbhakaṃ nityamabhyaset ॥ 18॥

    सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् ।
    मनोजवत्वमाप्नोति पलितादि च नश्यति ॥ १९॥

    sarvapāpavinirmuktaḥ samyagjñānamavāpnuyāt ।
    manojavatvamāpnoti palitādi ca naśyati ॥ 19॥

    प्राणायामैकनिष्ठस्य न किंचिदपि दुर्लभम् ।
    तस्मात्सर्वप्रयत्नेन प्राणायामान्समभ्यसेत् ॥ २०॥

    prāṇāyāmaikaniṣṭhasya na kiṃcidapi durlabham ।
    tasmātsarvaprayatnena prāṇāyāmānsamabhyaset ॥ 20॥

    विनियोगान्प्रवक्ष्यामि प्राणायामस्य सुव्रत ।
    सन्ध्ययोर्ब्राह्मकालेऽपि मध्याह्ने वाथवा सदा ॥ २१॥

    viniyogānpravakṣyāmi prāṇāyāmasya suvrata ।
    sandhyayorbrāhmakāle'pi madhyāhne vāthavā sadā ॥ 21॥

    बाह्यं प्राणं समाकृष्य पूरयित्वोदरेण च ।
    नासाग्रे नाभिमध्ये च पादाङ्गुष्ठे च धारयेत् ॥ २२॥

    bāhyaṃ prāṇaṃ samākṛṣya pūrayitvodareṇa ca ।
    nāsāgre nābhimadhye ca pādāṅguṣṭhe ca dhārayet ॥ 22॥

    सर्वरोगविनिर्मुक्तो जीवेद्वर्षशतं नरः ।
    नासाग्रधारणाद्वापि जितो भवति सुव्रत ॥ २३॥

    sarvarogavinirmukto jīvedvarṣaśataṃ naraḥ ।
    nāsāgradhāraṇādvāpi jito bhavati suvrata ॥ 23॥

    सर्वरोगनिवृत्तिः स्यान्नाभिमध्ये तु धारणात् ।
    शरीरलघुता विप्र पादाङ्गुष्ठनिरोधनात् ॥ २४॥

    sarvaroganivṛttiḥ syānnābhimadhye tu dhāraṇāt ।
    śarīralaghutā vipra pādāṅguṣṭhanirodhanāt ॥ 24॥

    जिह्वया वायुमाकृष्य यः पिबेत्सततं नरः ।
    श्रमदाहविनिर्मुक्तो योगी नीरोगतामियात् ॥ २५॥

    jihvayā vāyumākṛṣya yaḥ pibetsatataṃ naraḥ ।
    śramadāhavinirmukto yogī nīrogatāmiyāt ॥ 25॥

    जिह्वया वायुमाकृष्य जिह्वामूले निरोधयेत् ।
    पिबेदमृतमव्यग्रं सकलं सुखमाप्नुयात् ॥ २६॥

    jihvayā vāyumākṛṣya jihvāmūle nirodhayet ।
    pibedamṛtamavyagraṃ sakalaṃ sukhamāpnuyāt ॥ 26॥

    इडया वायुमाकृष्य भ्रुवोर्मध्ये निरोधयेत् ।
    यः पिबेदमृतं शुद्धं व्याधिभिर्मुच्यते हि सः ॥ २७॥

    iḍayā vāyumākṛṣya bhruvormadhye nirodhayet ।
    yaḥ pibedamṛtaṃ śuddhaṃ vyādhibhirmucyate hi saḥ ॥ 27॥

    इडया वेदतत्त्वज्ञस्तथा पिङ्गलयैव च ।
    नाभौ निरोधयेत्तेन व्याधिभिर्मुच्यते नरः ॥ २८॥

    iḍayā vedatattvajñastathā piṅgalayaiva ca ।
    nābhau nirodhayettena vyādhibhirmucyate naraḥ ॥ 28॥

    मासमात्रं त्रिसन्ध्यायां जिह्वयारोप्य मारुतम् ।
    अमृतं च पिबेन्नाभौ मन्दंमन्दं निरोधयेत् ॥ २९॥

    māsamātraṃ trisandhyāyāṃ jihvayāropya mārutam ।
    amṛtaṃ ca pibennābhau mandaṃmandaṃ nirodhayet ॥ 29॥

    वातजाः पित्तजा दोषा नश्यन्त्येव न संशयः ।
    नासाभ्यां वायुमाकृष्य नेत्रद्वन्द्वे निरोधयेत् ॥ ३०॥

    vātajāḥ pittajā doṣā naśyantyeva na saṃśayaḥ ।
    nāsābhyāṃ vāyumākṛṣya netradvandve nirodhayet ॥ 30॥

    नेत्ररोगा विनश्यन्ति तथा श्रोत्रनिरोधनात् ।
    तथा वायुं समारोप्य धारयेच्छिरसि स्थितम् ॥ ३१॥

    netrarogā vinaśyanti tathā śrotranirodhanāt ।
    tathā vāyuṃ samāropya dhārayecchirasi sthitam ॥ 31॥

    शिरोरोगा विनश्यन्ति सत्यमुक्तं हि सांकृते ।
    स्वस्तिकासनमास्थाय समाहितमनास्तथा ॥ ३२॥

    śirorogā vinaśyanti satyamuktaṃ hi sāṃkṛte ।
    svastikāsanamāsthāya samāhitamanāstathā ॥ 32॥

    अपानमूर्ध्वमुत्थाप्य प्रणवेन शनैः शनैः ।
    हस्ताभ्यां धारयेत्सम्यक्कर्णादिकरणानि च ॥ ३३॥

    apānamūrdhvamutthāpya praṇavena śanaiḥ śanaiḥ ।
    hastābhyāṃ dhārayetsamyakkarṇādikaraṇāni ca ॥ 33॥

    अङ्गुष्ठाभ्यां मुने श्रोत्रे तर्जनीभ्यां तु चक्षुषी ।
    नासापुटवधानाभ्यां प्रच्छाद्य करणानि वै ॥ ३४॥

    aṅguṣṭhābhyāṃ mune śrotre tarjanībhyāṃ tu cakṣuṣī ।
    nāsāpuṭavadhānābhyāṃ pracchādya karaṇāni vai ॥ 34॥

    आनन्दाविर्भवो यावत्तावन्मूर्धनि धारणात् ।
    प्राणः प्रयात्यनेनैव ब्रह्मरन्ध्रं महामुने ॥ ३५॥

    ānandāvirbhavo yāvattāvanmūrdhani dhāraṇāt ।
    prāṇaḥ prayātyanenaiva brahmarandhraṃ mahāmune ॥ 35॥

    ब्रह्मरन्ध्रं गते वायौ नादश्चोत्पद्यतेऽनघ ।
    शङ्खध्वनिनिभश्चादौ मध्ये मेघध्वनिर्यथा ॥ ३६॥

    brahmarandhraṃ gate vāyau nādaścotpadyate'nagha ।
    śaṅkhadhvaninibhaścādau madhye meghadhvaniryathā ॥ 36॥

    शिरोमध्यगते वायौ गिरिप्रस्रवणं यथा ।
    पश्चात्प्रीतो महाप्राज्ञः साक्षादात्मोन्मुखो भवेत् ॥ ३७॥

    śiromadhyagate vāyau giriprasravaṇaṃ yathā ।
    paścātprīto mahāprājñaḥ sākṣādātmonmukho bhavet ॥ 37॥

    पुनस्तज्ज्ञाननिष्पत्तिर्योगात्संसारनिह्नुतिः ।
    दक्षिणोत्तरगुल्फेन सीविनीं पीडयेत्स्थिरम् ॥ ३८॥

    punastajjñānaniṣpattiryogātsaṃsāranihnutiḥ ।
    dakṣiṇottaragulphena sīvinīṃ pīḍayetsthiram ॥ 38॥

    सव्येतरेण गुल्फेन पीडयेद्बुद्धिमान्नरः ।
    जान्वोरधः स्थितां सन्धिं स्मृत्वा देवं त्रियम्बकम् ॥ ३९॥

    savyetareṇa gulphena pīḍayedbuddhimānnaraḥ ।
    jānvoradhaḥ sthitāṃ sandhiṃ smṛtvā devaṃ triyambakam ॥ 39॥

    विनायकं च संस्मृत्य तथा वागीश्वरीं पुनः ।
    लिङ्गनालात्समाकृष्य वायुमप्यग्रतो मुने ॥ ४०॥

    vināyakaṃ ca saṃsmṛtya tathā vāgīśvarīṃ punaḥ ।
    liṅganālātsamākṛṣya vāyumapyagrato mune ॥ 40॥

    प्रणवेन नियुक्तेन बिन्दुयुक्तेन बुद्धिमान् ।
    मूलाधारस्य विप्रेन्द्र मध्ये तं तु निरोधयेत् ॥ ४१॥

    praṇavena niyuktena binduyuktena buddhimān ।
    mūlādhārasya viprendra madhye taṃ tu nirodhayet ॥ 41॥

    निरुध्य वायुना दीप्तो वह्निरूहति कुण्डलीम् ।
    पुनः सुषुम्नया वायुर्वह्निना सह गच्छति ॥ ४२॥

    nirudhya vāyunā dīpto vahnirūhati kuṇḍalīm ।
    punaḥ suṣumnayā vāyurvahninā saha gacchati ॥ 42॥

    एवमभ्यासतस्तस्य जितो वायुर्भवेद्भृशम् ।
    प्रस्वेदः प्रथमः पश्चात्कम्पनं मुनिपुङ्गव ॥ ४३॥

    evamabhyāsatastasya jito vāyurbhavedbhṛśam ।
    prasvedaḥ prathamaḥ paścātkampanaṃ munipuṅgava ॥ 43॥

    उत्थानं च शरीरस्य चिह्नमेतज्जितेऽनले ।
    एवमभ्यासतस्तस्य मूलरोगो विनश्यति ॥ ४४॥

    utthānaṃ ca śarīrasya cihnametajjite'nale ।
    evamabhyāsatastasya mūlarogo vinaśyati ॥ 44॥

    भगन्दरं च नष्टं स्यात्सर्वरोगाश्च सांकृते ।
    पातकानि विनश्यन्ति क्षुद्राणि च महान्ति च ॥ ४५॥

    bhagandaraṃ ca naṣṭaṃ syātsarvarogāśca sāṃkṛte ।
    pātakāni vinaśyanti kṣudrāṇi ca mahānti ca ॥ 45॥

    नष्टे पापे विशुद्धं स्याच्चित्तदर्पणमद्भुतम् ।
    पुनर्ब्रह्मादिभोगेभ्यो वैराग्यं जयते हृदि ॥ ४६॥

    naṣṭe pāpe viśuddhaṃ syāccittadarpaṇamadbhutam ।
    punarbrahmādibhogebhyo vairāgyaṃ jayate hṛdi ॥ 46॥

    विरक्तस्य तु संसाराज्ज्ञानं कैवल्यसाधनम् ।
    तेन पापापहानिः स्याज्ज्ञात्वा देवं सदाशिवम् ॥ ४७॥

    viraktasya tu saṃsārājjñānaṃ kaivalyasādhanam ।
    tena pāpāpahāniḥ syājjñātvā devaṃ sadāśivam ॥ 47॥

    ज्ञानामृतरसो येन सकृदास्वादितो भवेत् ।
    स सर्वकार्यमुत्सृज्य तत्रैव परिधावति ॥ ४८॥

    jñānāmṛtaraso yena sakṛdāsvādito bhavet ।
    sa sarvakāryamutsṛjya tatraiva paridhāvati ॥ 48॥

    ज्ञानस्वरूपमेवाहुर्जगदेतद्विलक्षणम् ।
    अर्थस्वरूपमज्ञानात्पश्यन्त्यन्ये कुदृष्टयः ॥ ४९॥

    jñānasvarūpamevāhurjagadetadvilakṣaṇam ।
    arthasvarūpamajñānātpaśyantyanye kudṛṣṭayaḥ ॥ 49॥

    आत्मस्वरूपविज्ञानादज्ञानस्य परिक्षयः ।
    क्षीणेऽज्ञाने महाप्राज्ञ रागादीनां परिक्षयः ॥ ५०॥

    ātmasvarūpavijñānādajñānasya parikṣayaḥ ।
    kṣīṇe'jñāne mahāprājña rāgādīnāṃ parikṣayaḥ ॥ 50॥

    रागाद्यसंभवे प्राज्ञ पुण्यपापविमर्दनम् ।
    तयोर्नाशे शरीरेण न पुनः सम्प्रयुज्यते ॥ ५१॥

    rāgādyasaṃbhave prājña puṇyapāpavimardanam ।
    tayornāśe śarīreṇa na punaḥ samprayujyate ॥ 51॥

    इति॥

    iti॥

    इति षष्ठः खण्डः ॥ ६॥

    iti ṣaṣṭhaḥ khaṇḍaḥ ॥ 6॥

    अथातः सम्प्रवक्ष्यामि प्रत्याहारं महामुने ।
    इन्द्रियाणां विचरतां विषयेषु स्वभावतः ॥ १॥

    athātaḥ sampravakṣyāmi pratyāhāraṃ mahāmune ।
    indriyāṇāṃ vicaratāṃ viṣayeṣu svabhāvataḥ ॥ 1॥

    बलादाहरणां तेषां प्रत्याहारः स उच्यते ।
    यत्पश्यति तु तत्सर्वं ब्रह्म पश्यन्समाहितः ॥ २॥

    balādāharaṇāṃ teṣāṃ pratyāhāraḥ sa ucyate ।
    yatpaśyati tu tatsarvaṃ brahma paśyansamāhitaḥ ॥ 2॥

    प्रत्याहारो भवेदेष ब्रह्मविद्भिः पुरोदितः ।
    यद्यच्छुद्धमशुद्धं वा करोत्यामरणान्तिकम् ॥ ३॥

    pratyāhāro bhavedeṣa brahmavidbhiḥ puroditaḥ ।
    yadyacchuddhamaśuddhaṃ vā karotyāmaraṇāntikam ॥ 3॥

    तत्सर्वं ब्रह्मणे कुर्यात्प्रत्याहारः स उच्यते ।
    अथवा नित्यकर्माणि ब्रह्माराधनबुद्धितः ॥ ४॥

    tatsarvaṃ brahmaṇe kuryātpratyāhāraḥ sa ucyate ।
    athavā nityakarmāṇi brahmārādhanabuddhitaḥ ॥ 4॥

    काम्यानि च तथा कुर्यात्प्रत्याहारः स उच्यते ।
    अथवा वायुमाकृष्य स्थानात्स्थानं निरोधयेत् ॥ ५॥

    kāmyāni ca tathā kuryātpratyāhāraḥ sa ucyate ।
    athavā vāyumākṛṣya sthānātsthānaṃ nirodhayet ॥ 5॥

    दन्तमूलात्तथा कण्ठे कण्ठादुरसि मारुतम् ।
    उरोदेशात्समाकृष्य नाभिदेशे निरोधयेत् ॥ ६॥

    dantamūlāttathā kaṇṭhe kaṇṭhādurasi mārutam ।
    urodeśātsamākṛṣya nābhideśe nirodhayet ॥ 6॥

    नाभिदेशात्समाकृष्य कुण्डल्यां तु निरोधयेत् ।
    कुण्डलीदेशतो विद्वान्मूलाधारे निरोधयेत् ॥ ७॥

    nābhideśātsamākṛṣya kuṇḍalyāṃ tu nirodhayet ।
    kuṇḍalīdeśato vidvānmūlādhāre nirodhayet ॥ 7॥

    अथापानात्कटिद्वन्द्वे तथोरौ च सुमध्यमे ।
    तस्माज्जानुद्वये जङ्घे पादाङ्गुष्ठे निरोधयेत् ॥ ८॥

    athāpānātkaṭidvandve tathorau ca sumadhyame ।
    tasmājjānudvaye jaṅghe pādāṅguṣṭhe nirodhayet ॥ 8॥

    प्रत्याहारोऽयमुक्तस्तु प्रत्याहारस्मरैः पुरा ।
    एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः ॥ ९॥

    pratyāhāro'yamuktastu pratyāhārasmaraiḥ purā ।
    evamabhyāsayuktasya puruṣasya mahātmanaḥ ॥ 9॥

    सर्वपापानि नश्यन्ति भवरोगश्च सुव्रत ।
    नासाभ्यां वायुमाकृष्य निश्चलः स्वस्तिकासनः ॥ १०॥

    sarvapāpāni naśyanti bhavarogaśca suvrata ।
    nāsābhyāṃ vāyumākṛṣya niścalaḥ svastikāsanaḥ ॥ 10॥

    पूरयेदनिलं विद्वानापादतलमस्तकम् ।
    पश्चात्पादद्वये तद्वन्मूलाधरे तथैव च ॥ ११॥

    pūrayedanilaṃ vidvānāpādatalamastakam ।
    paścātpādadvaye tadvanmūlādhare tathaiva ca ॥ 11॥

    नाभिकन्दे च हृन्मध्ये कण्ठमूले च तालुके ।
    भ्रुवोर्मध्ये ललाटे च तथा मूर्धनि धारयेत् ॥ १२॥

    nābhikande ca hṛnmadhye kaṇṭhamūle ca tāluke ।
    bhruvormadhye lalāṭe ca tathā mūrdhani dhārayet ॥ 12॥

    देहे स्वात्ममतिं विद्वान्समाकृष्य समाहितः ।
    आत्मनात्मनि निर्द्वन्द्वे निर्विकल्पे निरोधयेत् ॥ १३॥

    dehe svātmamatiṃ vidvānsamākṛṣya samāhitaḥ ।
    ātmanātmani nirdvandve nirvikalpe nirodhayet ॥ 13॥

    प्रत्याहारः समाख्यातः साक्षाद्वेदान्तवेदिभिः ।
    एवमभ्यसतस्तस्य न किंचिदपि दुर्लभम् ॥ १४॥

    pratyāhāraḥ samākhyātaḥ sākṣādvedāntavedibhiḥ ।
    evamabhyasatastasya na kiṃcidapi durlabham ॥ 14॥

    इति॥

    iti॥

    इति सप्तमः खण्डः ॥ ७॥

    iti saptamaḥ khaṇḍaḥ ॥ 7॥

    अथातः सम्प्रवक्ष्यामि धारणाः पञ्च सुव्रत ।
    देहमध्यगते व्योम्नि बाह्याकाशं तु धारयेत् ॥ १॥

    athātaḥ sampravakṣyāmi dhāraṇāḥ pañca suvrata ।
    dehamadhyagate vyomni bāhyākāśaṃ tu dhārayet ॥ 1॥

    प्राणे बाह्यानिलं तद्वज्ज्वलने चाग्निमौदरे ।
    तोयं तोयांशके भूमिं भूमिभागे महामुने ॥ २॥

    prāṇe bāhyānilaṃ tadvajjvalane cāgnimaudare ।
    toyaṃ toyāṃśake bhūmiṃ bhūmibhāge mahāmune ॥ 2॥

    हयवरलकाराख्यं मन्त्रमुच्चारयेत्क्रमात् ।
    धारणैषा परा प्रोक्ता सर्वपापविशोधिनी ॥ ३॥

    hayavaralakārākhyaṃ mantramuccārayetkramāt ।
    dhāraṇaiṣā parā proktā sarvapāpaviśodhinī ॥ 3॥

    जान्वन्तं पृथिवी ह्यंशो ह्यपां पय्वन्तमुच्यते ।
    हृदयांशस्तथाग्नंशो भ्रूमध्यान्तोऽनिलांशकः ॥ ४॥

    jānvantaṃ pṛthivī hyaṃśo hyapāṃ payvantamucyate ।
    hṛdayāṃśastathāgnaṃśo bhrūmadhyānto'nilāṃśakaḥ ॥ 4॥

    आकाशांशस्तथा प्राज्ञ मूर्धांशः परिकीर्तितः ।
    ब्रह्माणं पृथिवीभागे विष्णुं तोयांशके तथा ॥ ५॥

    ākāśāṃśastathā prājña mūrdhāṃśaḥ parikīrtitaḥ ।
    brahmāṇaṃ pṛthivībhāge viṣṇuṃ toyāṃśake tathā ॥ 5॥

    अग्न्यंशे चे महेशानमीश्वरं चानिलांशके ।
    आकाशांशे महाप्राज्ञ धारयेत्तु सदाशिवम् ॥ ६॥

    agnyaṃśe ce maheśānamīśvaraṃ cānilāṃśake ।
    ākāśāṃśe mahāprājña dhārayettu sadāśivam ॥ 6॥

    अथवा तव वक्ष्यामि धारणां मुनिपुङ्गव ।
    पुरुषे सर्वशास्तारं बोधानन्दमयं शिवम् ॥ ७॥

    athavā tava vakṣyāmi dhāraṇāṃ munipuṅgava ।
    puruṣe sarvaśāstāraṃ bodhānandamayaṃ śivam ॥ 7॥

    धारयेद्बुद्धिमान्नित्यं सर्वपापविशुद्धये ।
    ब्रह्मादिकार्यरूपाणि स्वे स्वे संहृत्य कारणे ॥ ८॥

    dhārayedbuddhimānnityaṃ sarvapāpaviśuddhaye ।
    brahmādikāryarūpāṇi sve sve saṃhṛtya kāraṇe ॥ 8॥

    सर्वकारणमव्यक्तमनिरूप्यमचेतनम् ।
    साक्षादात्मनि सम्पूर्णे धारयेत्प्रणवेन तु ।
    इन्द्रियाणि समाहृत्य मनसात्मनि योजयेत् ॥ ९॥

    sarvakāraṇamavyaktamanirūpyamacetanam ।
    sākṣādātmani sampūrṇe dhārayetpraṇavena tu ।
    indriyāṇi samāhṛtya manasātmani yojayet ॥ 9॥

    इति॥

    iti॥

    इत्यष्टमः खण्डः ॥ ८॥

    ityaṣṭamaḥ khaṇḍaḥ ॥ 8॥

    अथातः सम्प्रवक्ष्यामि ध्यानं संसारनाशनम् ।
    ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् ॥ १॥

    athātaḥ sampravakṣyāmi dhyānaṃ saṃsāranāśanam ।
    ṛtaṃ satyaṃ paraṃ brahma sarvasaṃsārabheṣajam ॥ 1॥

    ऊर्ध्वरेतं विश्वरूपं विरूपाक्षं महेश्वरम् ।
    सोऽहमित्यादरेणैव ध्यायेदोगीश्वरेश्वरम् ॥ २॥

    ūrdhvaretaṃ viśvarūpaṃ virūpākṣaṃ maheśvaram ।
    so'hamityādareṇaiva dhyāyedogīśvareśvaram ॥ 2॥

    अथवा सत्यमीशानं ज्ञानमानन्दमद्वयम् ।
    अत्यर्थमचलं नित्यमादिमध्यान्तवर्जितम् ॥ ३॥

    athavā satyamīśānaṃ jñānamānandamadvayam ।
    atyarthamacalaṃ nityamādimadhyāntavarjitam ॥ 3॥

    तथा स्थूलमनाकाशमसंस्पृश्यमचाक्षुषम् ।
    न रसं न च गन्धाख्यमप्रमेयमनूपमम् ॥ ४॥

    tathā sthūlamanākāśamasaṃspṛśyamacākṣuṣam ।
    na rasaṃ na ca gandhākhyamaprameyamanūpamam ॥ 4॥

    आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत ।
    अहमस्मीत्यभिध्यायेद्ध्येयातीतं विमुक्तये ॥ ५॥

    ātmānaṃ saccidānandamanantaṃ brahma suvrata ।
    ahamasmītyabhidhyāyeddhyeyātītaṃ vimuktaye ॥ 5॥

    एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः ।
    क्रमाद्वेदान्तविज्ञानं विजायेत न संशयः ॥ ६॥

    evamabhyāsayuktasya puruṣasya mahātmanaḥ ।
    kramādvedāntavijñānaṃ vijāyeta na saṃśayaḥ ॥ 6॥

    इति॥

    iti॥

    इति नवमः खण्डः ॥ ९॥

    iti navamaḥ khaṇḍaḥ ॥ 9॥

    अथातः सम्प्रवक्ष्यामि समाधिं भवनाशनम् ।
    समाधिः संविदुत्पत्तिः परजीवैकतां प्रति ॥ १॥

    athātaḥ sampravakṣyāmi samādhiṃ bhavanāśanam ।
    samādhiḥ saṃvidutpattiḥ parajīvaikatāṃ prati ॥ 1॥

    नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः ।
    एकः सन्भिद्यते भ्रान्त्या मायया न स्वरूपतः ॥ २॥

    nityaḥ sarvagato hyātmā kūṭastho doṣavarjitaḥ ।
    ekaḥ sanbhidyate bhrāntyā māyayā na svarūpataḥ ॥ 2॥

    तस्मादद्वैतमेवास्ति न प्रपञ्चो न संसृतिः ।
    यथाकाशो घटाकाशो मठाकाश इतीरितः ॥ ३॥

    tasmādadvaitamevāsti na prapañco na saṃsṛtiḥ ।
    yathākāśo ghaṭākāśo maṭhākāśa itīritaḥ ॥ 3॥

    तथा भ्रान्तैर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना ।
    नाहं देहो न च प्राणो नेन्द्रियाणि मनो नहि ॥ ४॥

    tathā bhrāntairdvidhā prokto hyātmā jīveśvarātmanā ।
    nāhaṃ deho na ca prāṇo nendriyāṇi mano nahi ॥ 4॥

    सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः ।
    इति धीर्या मुनिश्रेष्ठ सा समाधिरिहोच्यते ॥ ५॥

    sadā sākṣisvarūpatvācchiva evāsmi kevalaḥ ।
    iti dhīryā muniśreṣṭha sā samādhirihocyate ॥ 5॥

    साहं ब्रह्म न संसारी न मत्तोऽन्यः कदाचन ।
    यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः ॥ ६॥

    sāhaṃ brahma na saṃsārī na matto'nyaḥ kadācana ।
    yathā phenataraṅgādi samudrādutthitaṃ punaḥ ॥ 6॥

    समुद्रे लीयते तद्वज्जगन्मय्यनुलीयते ।
    तस्मान्मनः पृथङ् नास्ति जगन्माया च नास्ति हि ॥ ७॥

    samudre līyate tadvajjaganmayyanulīyate ।
    tasmānmanaḥ pṛthaṅ nāsti jaganmāyā ca nāsti hi ॥ 7॥

    यस्यैवं परमात्मायं प्रत्यग्भूतः प्रकाशितः ।
    स तु याति च पुंभावं स्वयं साक्षात्परामृतम् ॥ ८॥

    yasyaivaṃ paramātmāyaṃ pratyagbhūtaḥ prakāśitaḥ ।
    sa tu yāti ca puṃbhāvaṃ svayaṃ sākṣātparāmṛtam ॥ 8॥

    यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ।
    योगिनोऽव्यवधानेन तदा सम्पद्यते स्वयम् ॥ ९॥

    yadā manasi caitanyaṃ bhāti sarvatragaṃ sadā ।
    yogino'vyavadhānena tadā sampadyate svayam ॥ 9॥

    यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति ।
    सर्वभूतेषु चात्मानं ब्रह्म सम्पद्यते तदा ॥ १०॥

    yadā sarvāṇi bhūtāni svātmanyeva hi paśyati ।
    sarvabhūteṣu cātmānaṃ brahma sampadyate tadā ॥ 10॥

    यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ।
    एकीभूतः परेणाऽसौ तदा भवति केवलः ॥ ११॥

    yadā sarvāṇi bhūtāni samādhistho na paśyati ।
    ekībhūtaḥ pareṇā'sau tadā bhavati kevalaḥ ॥ 11॥

    यदा पश्यति चात्मानं केवलं परमार्थतः ।
    मायामात्रं जगत्कृत्स्नं तदा भवति निर्वृतिः ॥ १२॥

    yadā paśyati cātmānaṃ kevalaṃ paramārthataḥ ।
    māyāmātraṃ jagatkṛtsnaṃ tadā bhavati nirvṛtiḥ ॥ 12॥

    एवमुक्त्वा स भगवान्दत्तात्रेयो महामुनिः ।
    सांकृतिः स्वस्वरूपेण सुखमास्तेऽतिनिर्भयः ॥ १३॥

    evamuktvā sa bhagavāndattātreyo mahāmuniḥ ।
    sāṃkṛtiḥ svasvarūpeṇa sukhamāste'tinirbhayaḥ ॥ 13॥

    इति॥

    iti॥

    इति दशमः खण्डः ॥ १०॥

    iti daśamaḥ khaṇḍaḥ ॥ 10॥

    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ॥

    oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca ॥

    सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म
    निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु
    धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

    sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma
    nirākarodanirākaraṇamastvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu
    dharmāste mayi santu te mayi santu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ तत्सत् ॥

    hariḥ oṃ tatsat ॥

    इति श्रीजाबालदर्शनोपनिषत्समाप्ता ॥

    iti śrījābāladarśanopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact