Library / Philosophy and Religion |
Pranagnihotra Upanishad
Sanskrit Devanagari with Roman transliteration (IAST)
॥ प्राणाग्निहोत्रोपनिषत् ॥
॥ prāṇāgnihotropaniṣat ॥
शरीरयज्ञसंशुद्धचित्तसंजातबोधतः ।
śarīrayajñasaṃśuddhacittasaṃjātabodhataḥ ।
मुनयो यत्पदं यान्ति तद्रामपदमाश्रये ॥
munayo yatpadaṃ yānti tadrāmapadamāśraye ॥
ॐ सह नाववतु ॥
oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥
saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥
saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ ॥
hariḥ oṃ ॥
अथातः सर्वोपनिषत्सारं संसारज्ञानातीत-
मन्त्रसूक्तं शारीरयज्ञं व्याख्यास्यामः ।
athātaḥ sarvopaniṣatsāraṃ saṃsārajñānātīta-
mantrasūktaṃ śārīrayajñaṃ vyākhyāsyāmaḥ ।
यस्मिन्नेव पुरुषः शरीरे विनाप्यग्निहोत्रेण विनापि
सांख्ययोगेन संसारविमुक्तिर्भवतीति ।
yasminneva puruṣaḥ śarīre vināpyagnihotreṇa vināpi
sāṃkhyayogena saṃsāravimuktirbhavatīti ।
स्वेन विधिनान्नं भूमौ निक्षिप्य
या ओषधीः सोमराज्ञीरिति तिसृभिरन्नपत
इति द्वाभ्या-मनुमन्त्रयते ।
svena vidhinānnaṃ bhūmau nikṣipya
yā oṣadhīḥ somarājñīriti tisṛbhirannapata
iti dvābhyā-manumantrayate ।
या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।
yā oṣadhayaḥ somarājñīrbahvīḥ śatavicakṣaṇāḥ ।
बृहस्पतिप्रसूतास्ता नो मुञ्चत्वंहसः ॥ १॥
bṛhaspatiprasūtāstā no muñcatvaṃhasaḥ ॥ 1॥
याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।
yāḥ phalinīryā aphalā apuṣpā yāśca puṣpiṇīḥ ।
बृहस्पतिप्रसूतास्ता नो मुञ्चत्वंहसः ॥ २॥
bṛhaspatiprasūtāstā no muñcatvaṃhasaḥ ॥ 2॥
जीवला नघारिषां माते बध्नामोषधिम् ।
jīvalā naghāriṣāṃ māte badhnāmoṣadhim ।
यातयायु रुपाहरादप रक्षांसि चातयात् ॥ ३॥
yātayāyu rupāharādapa rakṣāṃsi cātayāt ॥ 3॥
अन्नपतेऽन्नस्य नो धेह्यनमीवस्य शुष्मिणः ।
annapate'nnasya no dhehyanamīvasya śuṣmiṇaḥ ।
प्रप्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥ ४॥
prapradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade ॥ 4॥
यदन्नमग्निर्बहुधा विराद्धि
रुद्रैः प्रजग्धं यदि वा पिशाचैः ।
yadannamagnirbahudhā virāddhi
rudraiḥ prajagdhaṃ yadi vā piśācaiḥ ।
सर्वं तदीशानो अभयं कृणोतु
शिवमीशानाय स्वाहा ॥ ५॥
sarvaṃ tadīśāno abhayaṃ kṛṇotu
śivamīśānāya svāhā ॥ 5॥
अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ।
antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ ।
त्वं यज्ञस्त्वं ब्रह्मा त्वं रुद्रस्तवं विष्णुस्त्वं वषट्कार
आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोंनमः ।
tvaṃ yajñastvaṃ brahmā tvaṃ rudrastavaṃ viṣṇustvaṃ vaṣaṭkāra
āpo jyotī raso'mṛtaṃ brahma bhūrbhuvaḥ suvaroṃnamaḥ ।
आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् ।
āpaḥ punantu pṛthivīṃ pṛthivī pūtā punātu mām ।
पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम् ।
punantu brahmaṇaspatirbrahmapūtā punātu mām ।
यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम ।
yaducchiṣṭamabhojyaṃ yadvā duścaritaṃ mama ।
सर्वं पुनन्तु मामापोऽसतां च प्रतिग्रहं स्वाहा ।
sarvaṃ punantu māmāpo'satāṃ ca pratigrahaṃ svāhā ।
अमृतमस्य मृतोपस्तरणमस्यमृतं प्राणे जुहोम्यमाशिष्यान्तोऽसि ।
amṛtamasya mṛtopastaraṇamasyamṛtaṃ prāṇe juhomyamāśiṣyānto'si ।
प्राणाय स्वाहा ।
prāṇāya svāhā ।
अपानाय स्वाहा ।
apānāya svāhā ।
व्यानाय स्वाहा ।
vyānāya svāhā ।
उदानाय स्वाहा ।
udānāya svāhā ।
समानाय स्वाहा ।
samānāya svāhā ।
इति कनिष्ठिकाङ्गुल्याङ्गुष्ठेन च प्राणे जुहोति ।
iti kaniṣṭhikāṅgulyāṅguṣṭhena ca prāṇe juhoti ।
अनामिकयापाने ।
anāmikayāpāne ।
मध्यमया व्याने ।
madhyamayā vyāne ।
सर्वाभिरुदाने ।
sarvābhirudāne ।
प्रदेशिन्या समाने ।
pradeśinyā samāne ।
तूष्णीमेकामेकऋषौ जुहोति ।
tūṣṇīmekāmekaṛṣau juhoti ।
द्वे आहवनीये ।
dve āhavanīye ।
एकां दक्षिणाग्नौ ।
ekāṃ dakṣiṇāgnau ।
एकां गार्हपत्ये ।
ekāṃ gārhapatye ।
एकां सर्वप्रायश्चित्तीये ॥
ekāṃ sarvaprāyaścittīye ॥
अथापिधानमस्यमृतत्वायोपस्पृश्य पुनरादाय पुनरुपस्पृशेत् ।
athāpidhānamasyamṛtatvāyopaspṛśya punarādāya punarupaspṛśet ।
स ते प्राणा वाऽऽपो गृहीत्वा हृदयमन्वालभ्य जपेत् ।
sa te prāṇā vā''po gṛhītvā hṛdayamanvālabhya japet ।
प्राणो अग्निः परमात्मा पञ्चवायुभिरावृतः ।
prāṇo agniḥ paramātmā pañcavāyubhirāvṛtaḥ ।
अभयं सर्वभूतेभ्यो न मे भीतिः कदाचन ॥ १॥
abhayaṃ sarvabhūtebhyo na me bhītiḥ kadācana ॥ 1॥
इति प्रथमः खण्डः ॥ १॥
iti prathamaḥ khaṇḍaḥ ॥ 1॥
विश्वोऽसि वैश्वानरो विश्वरूपं त्वया धार्यते
जायमानम् ।
viśvo'si vaiśvānaro viśvarūpaṃ tvayā dhāryate
jāyamānam ।
विश्वं त्वाहुतथः सर्वा यत्र ब्रह्माऽमृतोऽसि ।
viśvaṃ tvāhutathaḥ sarvā yatra brahmā'mṛto'si ।
महानवोऽयं पुरुषो योऽङ्गुष्ठाग्रे प्रतिष्ठितः ।
mahānavo'yaṃ puruṣo yo'ṅguṣṭhāgre pratiṣṭhitaḥ ।
तमद्भिः परिषिञ्चामि सोऽस्यान्ते अमृताय च ।
tamadbhiḥ pariṣiñcāmi so'syānte amṛtāya ca ।
अनावित्येष बाह्यात्मा ध्यायेताग्निहोत्रं जोहोमीति ।
anāvityeṣa bāhyātmā dhyāyetāgnihotraṃ johomīti ।
सर्वेषामेव सूनुर्भवति ।
sarveṣāmeva sūnurbhavati ।
अस्य यज्ञपरिवृता आहुतीर्होमयति ।
asya yajñaparivṛtā āhutīrhomayati ।
स्वशरीरे यज्ञं परिवर्तयामीति ।
svaśarīre yajñaṃ parivartayāmīti ।
चत्वारोऽग्नयस्ते किंभागधेयाः ।
catvāro'gnayaste kiṃbhāgadheyāḥ ।
तत्रसूर्योऽग्निर्नाम सूर्यमण्डलाकृतिः सहस्ररश्मि-
परिवृत एकऋषिर्भूत्वा मूर्धनि तिष्ठति ।
tatrasūryo'gnirnāma sūryamaṇḍalākṛtiḥ sahasraraśmi-
parivṛta ekaṛṣirbhūtvā mūrdhani tiṣṭhati ।
यस्मादुक्तो दर्शनाग्निर्नाम चतुराकृतिराहवनीयो
भूत्वा मुखे तिष्ठति ।
yasmādukto darśanāgnirnāma caturākṛtirāhavanīyo
bhūtvā mukhe tiṣṭhati ।
शारीरोग्निर्नाम जराप्रणुदा हविरवस्कन्दति ।
śārīrognirnāma jarāpraṇudā haviravaskandati ।
अर्धचन्द्राकृति-र्दक्षिणाग्निर्भूत्वा हृदये
तिष्ठति तत्र कोष्ठाग्निरिति ।
ardhacandrākṛti-rdakṣiṇāgnirbhūtvā hṛdaye
tiṣṭhati tatra koṣṭhāgniriti ।
कोष्ठाग्निर्नामाशितपीतलीढखादितानि सम्यग्व्यष्ट्यां
श्रपयित्वा गार्हपत्यो भूत्वा नाभ्यां तिष्ठति ।
koṣṭhāgnirnāmāśitapītalīḍhakhāditāni samyagvyaṣṭyāṃ
śrapayitvā gārhapatyo bhūtvā nābhyāṃ tiṣṭhati ।
प्रायश्चित्तयस्त्वधस्तात्तिर्यक् तिस्रो हिमांशुप्रभाभिः
प्रजननकर्मा ॥
prāyaścittayastvadhastāttiryak tisro himāṃśuprabhābhiḥ
prajananakarmā ॥
इति द्वितीयः खण्डः ॥ २॥
iti dvitīyaḥ khaṇḍaḥ ॥ 2॥
अस्य शरीरयज्ञस्य यूपरशनाशोभितस्य
को यजमानः ।
asya śarīrayajñasya yūparaśanāśobhitasya
ko yajamānaḥ ।
का पत्नी ।
kā patnī ।
के ऋत्विजः ।
ke ṛtvijaḥ ।
के सदस्याः ।
ke sadasyāḥ ।
कानि यज्ञपात्राणि ।
kāni yajñapātrāṇi ।
कानि हवींषि ।
kāni havīṃṣi ।
का वेदिः ।
kā vediḥ ।
कोत्तरवेदिः ।
kottaravediḥ ।
को द्रोणकलशः ।
ko droṇakalaśaḥ ।
को रथः ।
ko rathaḥ ।
कः पशुः ।
kaḥ paśuḥ ।
कोऽध्वर्युः ।
ko'dhvaryuḥ ।
को होता ।
ko hotā ।
को ब्राह्मणाच्छंसी ।
ko brāhmaṇācchaṃsī ।
कः प्रतिप्रस्थाता ।
kaḥ pratiprasthātā ।
कः प्रस्तोता ।
kaḥ prastotā ।
को मैत्रावरुणः ।
ko maitrāvaruṇaḥ ।
क उद्गाता ।
ka udgātā ।
का धारापोता ।
kā dhārāpotā ।
के दर्भाः ।
ke darbhāḥ ।
कः स्रुवः ।
kaḥ sruvaḥ ।
काज्यस्थाली ।
kājyasthālī ।
कावाघारौ ।
kāvāghārau ।
कावाज्यभागौ ।
kāvājyabhāgau ।
केऽत्र याजाः ।
ke'tra yājāḥ ।
के अनुयाजाः ।
ke anuyājāḥ ।
केडा ।
keḍā ।
कः सूक्तवाकः ।
kaḥ sūktavākaḥ ।
कः शंयोर्वाकः ।
kaḥ śaṃyorvākaḥ ।
का हिंसा ।
kā hiṃsā ।
के पत्नीसंयाजाः ।
ke patnīsaṃyājāḥ ।
को यूपः ।
ko yūpaḥ ।
का रशना ।
kā raśanā ।
का इष्टयः ।
kā iṣṭayaḥ ।
का दक्षिणा ।
kā dakṣiṇā ।
किमवभृतमिति ॥
kimavabhṛtamiti ॥
इति तृतीयः खण्डः ॥ ३॥
iti tṛtīyaḥ khaṇḍaḥ ॥ 3॥
अस्य शारीरयज्ञस्य यूपरशनाशोभितस्यात्मा यजमानः ।
asya śārīrayajñasya yūparaśanāśobhitasyātmā yajamānaḥ ।
बुद्धिः पत्नी ।
buddhiḥ patnī ।
वेदा महर्त्विजः ।
vedā mahartvijaḥ ।
अहङ्कारोऽध्वर्युः ।
ahaṅkāro'dhvaryuḥ ।
चित्तं होता ।
cittaṃ hotā ।
प्राणो ब्राह्मणच्छंसी ।
prāṇo brāhmaṇacchaṃsī ।
अपानः प्रतिप्रस्थाता ।
apānaḥ pratiprasthātā ।
व्यानः प्रस्तोता ।
vyānaḥ prastotā ।
उदान उद्गाता ।
udāna udgātā ।
समानो मैत्रवरुणः ।
samāno maitravaruṇaḥ ।
शरीरं वेदिः ।
śarīraṃ vediḥ ।
नासिकोत्तरवेदिः ।
nāsikottaravediḥ ।
मूर्धा द्रोणकलशः ।
mūrdhā droṇakalaśaḥ ।
पादो रथः ।
pādo rathaḥ ।
दक्षिणहस्तः स्रुवः ।
dakṣiṇahastaḥ sruvaḥ ।
सव्यहस्त आज्यस्थाली ।
savyahasta ājyasthālī ।
श्रोत्रे आघारौ ।
śrotre āghārau ।
चक्षुषी आज्यभागौ ।
cakṣuṣī ājyabhāgau ।
ग्रीवा धारापोता ।
grīvā dhārāpotā ।
तन्मात्राणि सदस्याः ।
tanmātrāṇi sadasyāḥ ।
महाभूतानि प्रयाजाः ।
mahābhūtāni prayājāḥ ।
भूतानि गुणा अनुयाजाः ।
bhūtāni guṇā anuyājāḥ ।
जिह्वेडा ।
jihveḍā ।
दन्तोष्ठौ सूक्तवाकः ।
dantoṣṭhau sūktavākaḥ ।
तालुः शंयोर्वाकः ।
tāluḥ śaṃyorvākaḥ ।
स्मृतिर्दया क्षान्तिरहिंसा पत्नीसंयाजाः ।
smṛtirdayā kṣāntirahiṃsā patnīsaṃyājāḥ ।
ओङ्कारो यूपः ।
oṅkāro yūpaḥ ।
आशा रशना ।
āśā raśanā ।
मनो रथः ।
mano rathaḥ ।
कामः पशुः ।
kāmaḥ paśuḥ ।
केशा दर्भाः ।
keśā darbhāḥ ।
बुद्धीन्द्रियाणि यज्ञपात्राणि ।
buddhīndriyāṇi yajñapātrāṇi ।
कर्मेन्द्रियाणि हवींषि ।
karmendriyāṇi havīṃṣi ।
अहिंसा इष्टयः ।
ahiṃsā iṣṭayaḥ ।
त्यागो दक्षिणा ।
tyāgo dakṣiṇā ।
अवभृतं मरणात् ।
avabhṛtaṃ maraṇāt ।
सर्वा ह्यस्मिन्देवताः शरीरेऽधिसमाहिताः ।
sarvā hyasmindevatāḥ śarīre'dhisamāhitāḥ ।
वाराणस्यां मृतो वापि इदं वा ब्रह्म यः पठेत् ।
vārāṇasyāṃ mṛto vāpi idaṃ vā brahma yaḥ paṭhet ।
एकेन जन्मना जन्तुर्मोक्षं च प्राप्नुयादिति मोक्षं
च प्राप्नुयादित्युपनिषत् ॥ ४॥
ekena janmanā janturmokṣaṃ ca prāpnuyāditi mokṣaṃ
ca prāpnuyādityupaniṣat ॥ 4॥
ॐ सह नाववतु ॥
oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥
saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥
saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ तत्सत् ॥
hariḥ oṃ tatsat ॥
इति प्राणाग्निहोत्रोपनिषत्समाप्ता ॥
iti prāṇāgnihotropaniṣatsamāptā ॥
Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
Subscription Form
YOU MAY ALSO LIKE
Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
Subscription Form