English Edition
    Library / Philosophy and Religion

    Tejobindu Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    तेजोबिन्दूपनिषत्

    tejobindūpaniṣat

    यत्र चिन्मात्रकलना यात्यपह्नवमञ्जसा ।
    तच्चिन्मात्रमखण्डैकरसं ब्रह्म भवाम्यहम् ॥

    yatra cinmātrakalanā yātyapahnavamañjasā ।
    taccinmātramakhaṇḍaikarasaṃ brahma bhavāmyaham ॥

    ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

    oṃ saha nāvavatu ॥ saha nau bhunaktu ॥ saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॐ तेजोबिन्दुः परं ध्यानं विश्वात्महृदिसंस्थितम् ।
    आणवं शाम्भवं शान्तं स्थूलं सूक्ष्मं परं च यत् ॥ १॥

    oṃ tejobinduḥ paraṃ dhyānaṃ viśvātmahṛdisaṃsthitam ।
    āṇavaṃ śāmbhavaṃ śāntaṃ sthūlaṃ sūkṣmaṃ paraṃ ca yat ॥ 1॥

    दुःखाढ्यं च दुराराध्यं दुष्प्रेक्ष्यं मुक्तमव्ययम् ।
    दुर्लभं तत्स्वयं ध्यानं मुनीनां च मनीषिणाम् ॥ २॥

    duḥkhāḍhyaṃ ca durārādhyaṃ duṣprekṣyaṃ muktamavyayam ।
    durlabhaṃ tatsvayaṃ dhyānaṃ munīnāṃ ca manīṣiṇām ॥ 2॥

    यताहारो जितक्रोधो जितसङ्गो जितेन्द्रियः ।
    निर्द्वन्द्वो निरहङ्कारो निराशीरपरिग्रहः ॥ ३॥

    yatāhāro jitakrodho jitasaṅgo jitendriyaḥ ।
    nirdvandvo nirahaṅkāro nirāśīraparigrahaḥ ॥ 3॥

    अगम्यागमकर्ता यो गम्याऽगमयमानसः ।
    मुखे त्रीणि च विन्दन्ति त्रिधामा हंस उच्यते ॥ ४॥

    agamyāgamakartā yo gamyā'gamayamānasaḥ ।
    mukhe trīṇi ca vindanti tridhāmā haṃsa ucyate ॥ 4॥

    परं गुह्यतमं विद्धि ह्यस्ततन्द्रो निराश्रयः ।
    सोमरूपकला सूक्ष्मा विष्णोस्तत्परमं पदम् ॥ ५॥

    paraṃ guhyatamaṃ viddhi hyastatandro nirāśrayaḥ ।
    somarūpakalā sūkṣmā viṣṇostatparamaṃ padam ॥ 5॥

    त्रिवक्त्रं त्रिगुणं स्थानं त्रिधातुं रूपवर्जितम् ।
    निश्चलं निर्विकल्पं च निराकारं निराश्रयम् ॥ ६॥

    trivaktraṃ triguṇaṃ sthānaṃ tridhātuṃ rūpavarjitam ।
    niścalaṃ nirvikalpaṃ ca nirākāraṃ nirāśrayam ॥ 6॥

    उपाधिरहितं स्थानं वाङ्मनोऽतीतगोचरम् ।
    स्वभावं भावसङ्ग्राह्यमसङ्घातं पदाच्च्युतम् ॥ ७॥

    upādhirahitaṃ sthānaṃ vāṅmano'tītagocaram ।
    svabhāvaṃ bhāvasaṅgrāhyamasaṅghātaṃ padāccyutam ॥ 7॥

    अनानानन्दनातीतं दुष्प्रेक्ष्यं मुक्तिमव्ययम् ।
    चिन्त्यमेवं विनिर्मुक्तं शाश्वतं ध्रुवमच्युतम् ॥ ८॥

    anānānandanātītaṃ duṣprekṣyaṃ muktimavyayam ।
    cintyamevaṃ vinirmuktaṃ śāśvataṃ dhruvamacyutam ॥ 8॥

    तद्ब्रह्मणस्तदध्यात्मं तद्विष्णोस्तत्परायणम् ।
    अचिन्त्यं चिन्मयात्मानं यद्व्योम परमं स्थितम् ॥ ९॥

    tadbrahmaṇastadadhyātmaṃ tadviṣṇostatparāyaṇam ।
    acintyaṃ cinmayātmānaṃ yadvyoma paramaṃ sthitam ॥ 9॥

    अशून्यं शून्यभावं तु शून्यातीतं हृदि स्थितम् ।
    न ध्यानं च न च ध्याता न ध्येयो ध्येय एव च ॥ १०॥

    aśūnyaṃ śūnyabhāvaṃ tu śūnyātītaṃ hṛdi sthitam ।
    na dhyānaṃ ca na ca dhyātā na dhyeyo dhyeya eva ca ॥ 10॥

    सर्वं च न परं शून्यं न परं नापरात्परम् ।
    अचिन्त्यमप्रबुद्धं च न सत्यं न परं विदुः ॥ ११॥

    sarvaṃ ca na paraṃ śūnyaṃ na paraṃ nāparātparam ।
    acintyamaprabuddhaṃ ca na satyaṃ na paraṃ viduḥ ॥ 11॥

    मुनीनां सम्प्रयुक्तं च न देवा न परं विदुः ।
    लोभं मोहं भयं दर्पं कामं क्रोधं च किल्बिषम् ॥ १२॥

    munīnāṃ samprayuktaṃ ca na devā na paraṃ viduḥ ।
    lobhaṃ mohaṃ bhayaṃ darpaṃ kāmaṃ krodhaṃ ca kilbiṣam ॥ 12॥

    शीतोष्णे क्षुत्पिपासे च सङ्कल्पकविकल्पकम् ।
    न ब्रह्मकुलदर्पं च न मुक्तिग्रन्थिसञ्चयम् ॥ १३॥

    śītoṣṇe kṣutpipāse ca saṅkalpakavikalpakam ।
    na brahmakuladarpaṃ ca na muktigranthisañcayam ॥ 13॥

    न भयं न सुखं दुःखं तथा मानावमानयोः ।
    एतद्भावविनिर्मुक्तं तद्ग्राह्यं ब्रह्म तत्परम् ॥ १४॥

    na bhayaṃ na sukhaṃ duḥkhaṃ tathā mānāvamānayoḥ ।
    etadbhāvavinirmuktaṃ tadgrāhyaṃ brahma tatparam ॥ 14॥

    यमो हि नियमस्त्यागो मौनं देशश्च कालतः ।
    आसनं मूलबन्धश्च देहसाम्यं च दृक्स्थितिः ॥ १५॥

    yamo hi niyamastyāgo maunaṃ deśaśca kālataḥ ।
    āsanaṃ mūlabandhaśca dehasāmyaṃ ca dṛksthitiḥ ॥ 15॥

    प्राणसंयमनं चैव प्रत्याहारश्च धारणा ।
    आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् ॥ १६॥

    prāṇasaṃyamanaṃ caiva pratyāhāraśca dhāraṇā ।
    ātmadhyānaṃ samādhiśca proktānyaṅgāni vai kramāt ॥ 16॥

    सर्वं ब्रह्मेति वै ज्ञानादिन्द्रियग्रामसंयमः ।
    यमोऽऽयमिति सम्प्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ॥ १७॥

    sarvaṃ brahmeti vai jñānādindriyagrāmasaṃyamaḥ ।
    yamo''yamiti samprokto'bhyasanīyo muhurmuhuḥ ॥ 17॥

    सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ।
    नियमो हि परानन्दो नियमात्क्रियते बुधैः ॥ १८॥

    sajātīyapravāhaśca vijātīyatiraskṛtiḥ ।
    niyamo hi parānando niyamātkriyate budhaiḥ ॥ 18॥

    त्यागः प्रपञ्चरूपस्य सच्चिदात्मावलोकनात् ।
    त्यागो हि महता पूज्यः सद्यो मोक्षप्रदायकः ॥ १९॥

    tyāgaḥ prapañcarūpasya saccidātmāvalokanāt ।
    tyāgo hi mahatā pūjyaḥ sadyo mokṣapradāyakaḥ ॥ 19॥

    यस्माद्वाचो निवर्तन्ते अप्राप्य मनसा सह ।
    यन्मौनं योगिभिर्गम्यं तद्भजेत्सर्वदा बुधः ॥ २०॥

    yasmādvāco nivartante aprāpya manasā saha ।
    yanmaunaṃ yogibhirgamyaṃ tadbhajetsarvadā budhaḥ ॥ 20॥

    वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते ।
    प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः ॥ २१॥

    vāco yasmānnivartante tadvaktuṃ kena śakyate ।
    prapañco yadi vaktavyaḥ so'pi śabdavivarjitaḥ ॥ 21॥

    इति वा तद्भवेन्मौनं सर्वं सहजसंज्ञितम् ।
    गिरां मौनं तु बालानामयुक्तं ब्रह्मवादिनाम् ॥ २२॥

    iti vā tadbhavenmaunaṃ sarvaṃ sahajasaṃjñitam ।
    girāṃ maunaṃ tu bālānāmayuktaṃ brahmavādinām ॥ 22॥

    आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते ।
    येनेदं सततं व्याप्तं स देशो विजनः स्मृतः ॥ २३॥

    ādāvante ca madhye ca jano yasminna vidyate ।
    yenedaṃ satataṃ vyāptaṃ sa deśo vijanaḥ smṛtaḥ ॥ 23॥

    कल्पना सर्वभूतानां ब्रह्मादीनां निमेषतः ।
    कालशब्देन निर्दिष्टं ह्यखण्डानन्दमद्वयम् ॥ २४॥

    kalpanā sarvabhūtānāṃ brahmādīnāṃ nimeṣataḥ ।
    kālaśabdena nirdiṣṭaṃ hyakhaṇḍānandamadvayam ॥ 24॥

    सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् ।
    आसनं तद्विजानीयादन्यत्सुखविनाशनम् ॥ २५॥

    sukhenaiva bhavedyasminnajasraṃ brahmacintanam ।
    āsanaṃ tadvijānīyādanyatsukhavināśanam ॥ 25॥

    सिद्धये सर्वभूतादि विश्वाधिष्ठानमद्वयम् ।
    यस्मिन्सिद्धिं गताः सिद्धास्तत्सिद्धासनमुच्यते ॥ २६॥

    siddhaye sarvabhūtādi viśvādhiṣṭhānamadvayam ।
    yasminsiddhiṃ gatāḥ siddhāstatsiddhāsanamucyate ॥ 26॥

    यन्मूलं सर्वलोकानां यन्मूलं चित्तबन्धनम् ।
    मूलबन्धः सदा सेव्यो योग्योऽसौ ब्रह्मवादिनाम् ॥ २७॥

    yanmūlaṃ sarvalokānāṃ yanmūlaṃ cittabandhanam ।
    mūlabandhaḥ sadā sevyo yogyo'sau brahmavādinām ॥ 27॥

    अङ्गानां समतां विद्यात्समे ब्रह्मणि लीयते ।
    नो चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत् ॥ २८॥

    aṅgānāṃ samatāṃ vidyātsame brahmaṇi līyate ।
    no cennaiva samānatvamṛjutvaṃ śuṣkavṛkṣavat ॥ 28॥

    दृष्टीं ज्ञानमयीं कृत्वा पश्येद्ब्रह्ममयं जगत् ।
    सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥ २९॥

    dṛṣṭīṃ jñānamayīṃ kṛtvā paśyedbrahmamayaṃ jagat ।
    sā dṛṣṭiḥ paramodārā na nāsāgrāvalokinī ॥ 29॥

    द्रष्टृदर्शनदृश्यानां विरामो यत्र वा भवेत् ।
    दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकिनी ॥ ३०॥

    draṣṭṛdarśanadṛśyānāṃ virāmo yatra vā bhavet ।
    dṛṣṭistatraiva kartavyā na nāsāgrāvalokinī ॥ 30॥

    चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् ।
    निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ॥ ३१॥

    cittādisarvabhāveṣu brahmatvenaiva bhāvanāt ।
    nirodhaḥ sarvavṛttīnāṃ prāṇāyāmaḥ sa ucyate ॥ 31॥

    निषेधनं प्रपञ्चस्य रेचकाख्यः समीरितः ।
    ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरुच्यते ॥ ३२॥

    niṣedhanaṃ prapañcasya recakākhyaḥ samīritaḥ ।
    brahmaivāsmīti yā vṛttiḥ pūrako vāyurucyate ॥ 32॥

    ततस्तद्वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः ।
    अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनम् ॥ ३३॥

    tatastadvṛttinaiścalyaṃ kumbhakaḥ prāṇasaṃyamaḥ ।
    ayaṃ cāpi prabuddhānāmajñānāṃ ghrāṇapīḍanam ॥ 33॥

    विषयेष्वात्मतां दृष्ट्वा मनसश्चित्तरञ्जकम् ।
    प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुहुर्मुहुः ॥ ३४॥

    viṣayeṣvātmatāṃ dṛṣṭvā manasaścittarañjakam ।
    pratyāhāraḥ sa vijñeyo'bhyasanīyo muhurmuhuḥ ॥ 34॥

    यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् ।
    मनसा धारणं चैव धारणा सा परा मता ॥ ३५॥

    yatra yatra mano yāti brahmaṇastatra darśanāt ।
    manasā dhāraṇaṃ caiva dhāraṇā sā parā matā ॥ 35॥

    ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः ।
    ध्यानशब्देन विख्यातः परमानन्ददायकः ॥ ३६॥

    brahmaivāsmīti sadvṛttyā nirālambatayā sthitiḥ ।
    dhyānaśabdena vikhyātaḥ paramānandadāyakaḥ ॥ 36॥

    निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ।
    वृत्तिविस्मरणं सम्यक्समाधिरभिधीयते ॥ ३७॥

    nirvikāratayā vṛttyā brahmākāratayā punaḥ ।
    vṛttivismaraṇaṃ samyaksamādhirabhidhīyate ॥ 37॥

    इमं चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् ।
    लक्ष्यो यावत्क्षणात्पुंसः प्रत्यक्त्वं सम्भवेत्स्वयम् ॥ ३८॥

    imaṃ cākṛtrimānandaṃ tāvatsādhu samabhyaset ।
    lakṣyo yāvatkṣaṇātpuṃsaḥ pratyaktvaṃ sambhavetsvayam ॥ 38॥

    ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् ।
    तत्स्वं रूपं भवेत्तस्य विषयो मनसो गिराम् ॥ ३९॥

    tataḥ sādhananirmuktaḥ siddho bhavati yogirāṭ ।
    tatsvaṃ rūpaṃ bhavettasya viṣayo manaso girām ॥ 39॥

    समाधौ क्रियमाणे तु विघ्नान्यायान्ति वै बलात् ।
    अनुसन्धानराहित्यमालस्यं भोगलालसम् ॥ ४०॥

    samādhau kriyamāṇe tu vighnānyāyānti vai balāt ।
    anusandhānarāhityamālasyaṃ bhogalālasam ॥ 40॥

    लयस्तमश्च विक्षेपस्तेजः स्वेदश्च शून्यता ।
    एवं हि विघ्नबाहुल्यं त्याज्यं ब्रह्मविशारदैः ॥ ४१॥

    layastamaśca vikṣepastejaḥ svedaśca śūnyatā ।
    evaṃ hi vighnabāhulyaṃ tyājyaṃ brahmaviśāradaiḥ ॥ 41॥

    भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता ।
    ब्रह्मवृत्त्या हि पूर्णत्वं तया पूर्णत्वमभ्यसेत् ॥ ४२॥

    bhāvavṛttyā hi bhāvatvaṃ śūnyavṛttyā hi śūnyatā ।
    brahmavṛttyā hi pūrṇatvaṃ tayā pūrṇatvamabhyaset ॥ 42॥

    ये हि वृत्तिं विहायैनां ब्रह्माख्यां पावनीं पराम् ।
    वृथैव ते तु जीवन्ति पशुभिश्च समा नराः ॥ ४३॥

    ye hi vṛttiṃ vihāyaināṃ brahmākhyāṃ pāvanīṃ parām ।
    vṛthaiva te tu jīvanti paśubhiśca samā narāḥ ॥ 43॥

    ये तु वृत्तिं विजानन्ति ज्ञात्वा वै वर्धयन्ति ये ।
    ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये ॥ ४४॥

    ye tu vṛttiṃ vijānanti jñātvā vai vardhayanti ye ।
    te vai satpuruṣā dhanyā vandyāste bhuvanatraye ॥ 44॥

    येषां वृत्तिः समा वृद्धा परिपक्वा च सा पुनः ।
    ते वै सद्ब्रह्मतां प्राप्ता नेतरे शब्दवादिनः ॥ ४५॥

    yeṣāṃ vṛttiḥ samā vṛddhā paripakvā ca sā punaḥ ।
    te vai sadbrahmatāṃ prāptā netare śabdavādinaḥ ॥ 45॥

    कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः ।
    तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च ॥ ४६॥

    kuśalā brahmavārtāyāṃ vṛttihīnāḥ surāgiṇaḥ ।
    te'pyajñānatayā nūnaṃ punarāyānti yānti ca ॥ 46॥

    निमिषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना ।
    यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः ॥ ४७॥

    nimiṣārdhaṃ na tiṣṭhanti vṛttiṃ brahmamayīṃ vinā ।
    yathā tiṣṭhanti brahmādyāḥ sanakādyāḥ śukādayaḥ ॥ 47॥

    कारणं यस्य वै कार्यं कारणं तस्य जायते ।
    कारणं तत्त्वतो नश्येत्कार्याभावे विचारतः ॥ ४८॥

    kāraṇaṃ yasya vai kāryaṃ kāraṇaṃ tasya jāyate ।
    kāraṇaṃ tattvato naśyetkāryābhāve vicārataḥ ॥ 48॥

    अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरम् ।
    उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् ॥ ४९॥

    atha śuddhaṃ bhavedvastu yadvai vācāmagocaram ।
    udeti śuddhacittānāṃ vṛttijñānaṃ tataḥ param ॥ 49॥

    भावितं तीव्रवेगेन यद्वस्तु निश्चयात्मकम् ।
    दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् ॥ ५०॥

    bhāvitaṃ tīvravegena yadvastu niścayātmakam ।
    dṛśyaṃ hyadṛśyatāṃ nītvā brahmākāreṇa cintayet ॥ 50॥

    विद्वान्नित्यं सुखे तिष्ठेद्धिया चिद्रसपूर्णया ॥

    vidvānnityaṃ sukhe tiṣṭheddhiyā cidrasapūrṇayā ॥

    इति प्रथमोऽध्यायः ॥ १॥

    iti prathamo'dhyāyaḥ ॥ 1॥

    अथ ह कुमारः शिवं पप्रच्छाऽखण्डैकरस-
    चिन्मात्रस्वरूपमनुब्रूहीति । स होवाच परमः शिवः ।
    अखण्डैकरसं दृश्यमखण्डैकरसं जगत् ।
    अखण्डैकरसं भावमखण्डैकरसं स्वयम् ॥ १॥

    atha ha kumāraḥ śivaṃ papracchā'khaṇḍaikarasa-
    cinmātrasvarūpamanubrūhīti । sa hovāca paramaḥ śivaḥ ।
    akhaṇḍaikarasaṃ dṛśyamakhaṇḍaikarasaṃ jagat ।
    akhaṇḍaikarasaṃ bhāvamakhaṇḍaikarasaṃ svayam ॥ 1॥

    अखण्डैकरसो मन्त्र अखण्डैकरसा क्रिया ।
    अखण्डैकरसं ज्ञानमखण्डैकरसं जलम् ॥ २॥

    akhaṇḍaikaraso mantra akhaṇḍaikarasā kriyā ।
    akhaṇḍaikarasaṃ jñānamakhaṇḍaikarasaṃ jalam ॥ 2॥

    अखण्डैकरसा भूमिरखण्डैकरसं वियत् ।
    अखण्डैकरसं शास्त्रमखण्डैकरसा त्रयी ॥ ३॥

    akhaṇḍaikarasā bhūmirakhaṇḍaikarasaṃ viyat ।
    akhaṇḍaikarasaṃ śāstramakhaṇḍaikarasā trayī ॥ 3॥

    अखण्डैकरसं ब्रह्म चाखण्डैकरसं व्रतम् ।
    अखण्डैकरसो जीव अखण्डैकरसो ह्यजः ॥ ४॥

    akhaṇḍaikarasaṃ brahma cākhaṇḍaikarasaṃ vratam ।
    akhaṇḍaikaraso jīva akhaṇḍaikaraso hyajaḥ ॥ 4॥

    अखण्डैकरसो ब्रह्मा अखण्डैकरसो हरिः ।
    अखण्डैकरसो रुद्र अखण्डैकरसोऽस्म्यहम् ॥ ५॥

    akhaṇḍaikaraso brahmā akhaṇḍaikaraso hariḥ ।
    akhaṇḍaikaraso rudra akhaṇḍaikaraso'smyaham ॥ 5॥

    अखण्डैकरसो ह्यात्मा ह्यखण्डैकरसो गुरुः ।
    अखण्डैकरसं लक्ष्यमखण्डैकरसं महः ॥ ६॥

    akhaṇḍaikaraso hyātmā hyakhaṇḍaikaraso guruḥ ।
    akhaṇḍaikarasaṃ lakṣyamakhaṇḍaikarasaṃ mahaḥ ॥ 6॥

    अखण्डैकरसो देह अखण्डैकरसं मनः ।
    अखण्डैकरसं चित्तमखण्डैकरसं सुखम् ॥ ७॥

    akhaṇḍaikaraso deha akhaṇḍaikarasaṃ manaḥ ।
    akhaṇḍaikarasaṃ cittamakhaṇḍaikarasaṃ sukham ॥ 7॥

    अखण्डैकरसा विद्या अखण्डैकरसोऽव्ययः ।
    अखण्डैकरसं नित्यमखण्डैकरसं परम् ॥ ८॥

    akhaṇḍaikarasā vidyā akhaṇḍaikaraso'vyayaḥ ।
    akhaṇḍaikarasaṃ nityamakhaṇḍaikarasaṃ param ॥ 8॥

    अखण्डैकरसं किञ्चिदखण्डैकरसं परम् ।
    अखण्डैकरसादन्यन्नास्ति नास्ति षडानन ॥ ९॥

    akhaṇḍaikarasaṃ kiñcidakhaṇḍaikarasaṃ param ।
    akhaṇḍaikarasādanyannāsti nāsti ṣaḍānana ॥ 9॥

    अखण्डैकरसान्नास्ति अखण्डैकरसान्न हि ।
    अखण्डैकरसात्किञ्चिदखण्डैकरसादहम् ॥ १०॥

    akhaṇḍaikarasānnāsti akhaṇḍaikarasānna hi ।
    akhaṇḍaikarasātkiñcidakhaṇḍaikarasādaham ॥ 10॥

    अखण्डैकरसं स्थूलं सूक्ष्मं चाखण्डरूपकम् ।
    अखण्डैकरसं वेद्यमखण्डैकरसो भवान् ॥ ११॥

    akhaṇḍaikarasaṃ sthūlaṃ sūkṣmaṃ cākhaṇḍarūpakam ।
    akhaṇḍaikarasaṃ vedyamakhaṇḍaikaraso bhavān ॥ 11॥

    अखण्डैकरसं गुह्यमखण्डैकरसादिकम् ।
    अखण्डैकरसो ज्ञाता ह्यखण्डैकरसा स्थितिः ॥ १२॥

    akhaṇḍaikarasaṃ guhyamakhaṇḍaikarasādikam ।
    akhaṇḍaikaraso jñātā hyakhaṇḍaikarasā sthitiḥ ॥ 12॥

    अखण्डैकरसा माता अखण्डैकररसः पिता ।
    अखण्डैकरसो भ्राता अखण्डैकरसः पतिः ॥ १३॥

    akhaṇḍaikarasā mātā akhaṇḍaikararasaḥ pitā ।
    akhaṇḍaikaraso bhrātā akhaṇḍaikarasaḥ patiḥ ॥ 13॥

    अखण्डैकरसं सूत्रमखण्डैकरसो विराट् ।
    अखण्डैकरसं गात्रमखण्डैकरसं शिरः ॥ १४॥

    akhaṇḍaikarasaṃ sūtramakhaṇḍaikaraso virāṭ ।
    akhaṇḍaikarasaṃ gātramakhaṇḍaikarasaṃ śiraḥ ॥ 14॥

    अखण्डैकरसं चान्तरखण्डैकरसं बहिः ।
    अखण्डैकरसं पूर्णमखण्डैकरसामृतम् ॥ १५॥

    akhaṇḍaikarasaṃ cāntarakhaṇḍaikarasaṃ bahiḥ ।
    akhaṇḍaikarasaṃ pūrṇamakhaṇḍaikarasāmṛtam ॥ 15॥

    अखैण्डैकरसं गोत्रमखण्डैकरसं गृहम् ।
    अखण्डैकरसं गोप्यमखण्डैकरसशशी ॥ १६॥

    akhaiṇḍaikarasaṃ gotramakhaṇḍaikarasaṃ gṛham ।
    akhaṇḍaikarasaṃ gopyamakhaṇḍaikarasaśaśī ॥ 16॥

    अखण्डैकरसास्तारा अखण्डैकरसो रविः ।
    अखण्डैकरसं क्षेत्रमखण्डैकरसा क्षमा ॥ १७॥

    akhaṇḍaikarasāstārā akhaṇḍaikaraso raviḥ ।
    akhaṇḍaikarasaṃ kṣetramakhaṇḍaikarasā kṣamā ॥ 17॥

    अखण्डैकरस शान्त अखण्डैकरसोऽगुणः ।
    अखण्डैकरसः साक्षी अखण्डैकरसः सुहृत् ॥ १८॥

    akhaṇḍaikarasa śānta akhaṇḍaikaraso'guṇaḥ ।
    akhaṇḍaikarasaḥ sākṣī akhaṇḍaikarasaḥ suhṛt ॥ 18॥

    अखण्डैकरसो बन्धुरखण्डैकरसः सखा ।
    अखण्डैकरसो राजा अखण्डैकरसं पुरम् ॥ १९॥

    akhaṇḍaikaraso bandhurakhaṇḍaikarasaḥ sakhā ।
    akhaṇḍaikaraso rājā akhaṇḍaikarasaṃ puram ॥ 19॥

    अखण्डैकरसं राज्यमखण्डैकरसाः प्रजाः ।
    अखण्डैकरसं तारमखण्डैकरसो जपः ॥ २०॥

    akhaṇḍaikarasaṃ rājyamakhaṇḍaikarasāḥ prajāḥ ।
    akhaṇḍaikarasaṃ tāramakhaṇḍaikaraso japaḥ ॥ 20॥

    अखण्डैकरसं ध्यानमखण्डैकरसं पदम् ।
    अखण्डैकरसं ग्राह्यमखण्डैकरसं महत् ॥ २१॥

    akhaṇḍaikarasaṃ dhyānamakhaṇḍaikarasaṃ padam ।
    akhaṇḍaikarasaṃ grāhyamakhaṇḍaikarasaṃ mahat ॥ 21॥

    अखण्डैकरसं ज्योतिरखण्डैकरसं धनम् ।
    अखण्डैकरसं भोज्यमखण्डैकरसं हविः ॥ २२॥

    akhaṇḍaikarasaṃ jyotirakhaṇḍaikarasaṃ dhanam ।
    akhaṇḍaikarasaṃ bhojyamakhaṇḍaikarasaṃ haviḥ ॥ 22॥

    अखण्डैकरसो होम अखण्डैकरसो जपः ।
    अखण्डैकरसं स्वर्गमखण्डैकरसः स्वयम् ॥ २३॥

    akhaṇḍaikaraso homa akhaṇḍaikaraso japaḥ ।
    akhaṇḍaikarasaṃ svargamakhaṇḍaikarasaḥ svayam ॥ 23॥

    अखण्डैकरसं सर्वं चिन्मात्रमिति भावयेत् ।
    चिन्मात्रमेव चिन्मात्रमखण्डैकरसं परम् ॥ २४॥

    akhaṇḍaikarasaṃ sarvaṃ cinmātramiti bhāvayet ।
    cinmātrameva cinmātramakhaṇḍaikarasaṃ param ॥ 24॥

    भववर्जितचिन्मात्रं सर्वं चिन्मात्रमेव हि ।
    इदं च सर्वं चिन्मात्रमयं चिन्मयमेव हि ॥ २५॥

    bhavavarjitacinmātraṃ sarvaṃ cinmātrameva hi ।
    idaṃ ca sarvaṃ cinmātramayaṃ cinmayameva hi ॥ 25॥

    आत्मभावं च चिन्मात्रमखण्डैकरसं विदुः ।
    सर्वलोकं च चिन्मात्रं वत्ता मत्ता च चिन्मयम् ॥ २६॥

    ātmabhāvaṃ ca cinmātramakhaṇḍaikarasaṃ viduḥ ।
    sarvalokaṃ ca cinmātraṃ vattā mattā ca cinmayam ॥ 26॥

    आकाशो भूर्जलं वायुरग्निर्ब्रह्मा हरिः शिवः ।
    यत्किञ्चिद्यन्न किञ्चिच्च सर्वं चिन्मात्रमेव हि ॥ २७॥

    ākāśo bhūrjalaṃ vāyuragnirbrahmā hariḥ śivaḥ ।
    yatkiñcidyanna kiñcicca sarvaṃ cinmātrameva hi ॥ 27॥

    अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि ।
    भूतं भव्यं भविष्यच्च सर्वं चिन्मात्रमेव हि ॥ २८॥

    akhaṇḍaikarasaṃ sarvaṃ yadyaccinmātrameva hi ।
    bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ cinmātrameva hi ॥ 28॥

    द्रव्यं कालं च चिन्मात्रं ज्ञानं ज्ञेयं चिदेव हि ।
    ज्ञाता चिन्मात्ररूपश्च सर्वं चिन्मयमेव हि ॥ २९॥

    dravyaṃ kālaṃ ca cinmātraṃ jñānaṃ jñeyaṃ cideva hi ।
    jñātā cinmātrarūpaśca sarvaṃ cinmayameva hi ॥ 29॥

    सम्भाषणं च चिन्मात्रं यद्यच्चिन्मात्रमेव हि ।
    असच्च सच्च चिन्मात्रमाद्यन्तं चिन्मयं सदा ॥ ३०॥

    sambhāṣaṇaṃ ca cinmātraṃ yadyaccinmātrameva hi ।
    asacca sacca cinmātramādyantaṃ cinmayaṃ sadā ॥ 30॥

    आदिरन्तश्च चिन्मात्रं गुरुशिष्यादि चिन्मयम् ।
    दृग्दृश्यं यदि चिन्मात्रमस्ति चेच्चिन्मयं सदा ॥ ३१॥

    ādirantaśca cinmātraṃ guruśiṣyādi cinmayam ।
    dṛgdṛśyaṃ yadi cinmātramasti ceccinmayaṃ sadā ॥ 31॥

    सर्वाश्चर्यं हि चिन्मात्रं देहं चिन्मात्रमेव हि ।
    लिङ्गं च कारणं चैव चिन्मात्रान्न हि विद्यते ॥ ३२॥

    sarvāścaryaṃ hi cinmātraṃ dehaṃ cinmātrameva hi ।
    liṅgaṃ ca kāraṇaṃ caiva cinmātrānna hi vidyate ॥ 32॥

    अहं त्वं चैव चिन्मात्रं मूर्तामूर्तादिचिन्मयम् ।
    पुण्यं पापं च चिन्मात्रं जीवश्चिन्मात्रविग्रहः ॥ ३३॥

    ahaṃ tvaṃ caiva cinmātraṃ mūrtāmūrtādicinmayam ।
    puṇyaṃ pāpaṃ ca cinmātraṃ jīvaścinmātravigrahaḥ ॥ 33॥

    चिन्मात्रान्नास्ति सङ्कल्पश्चिन्मात्रान्नास्ति वेदनम् ।
    चिन्मात्रान्नास्ति मन्त्रादि चिन्मात्रान्नास्ति देवता ॥ ३४॥

    cinmātrānnāsti saṅkalpaścinmātrānnāsti vedanam ।
    cinmātrānnāsti mantrādi cinmātrānnāsti devatā ॥ 34॥

    चिन्मात्रान्नास्ति दिक्पालाश्चिन्मात्राद्व्यावहारिकम् ।
    चिन्मात्रात्परमं ब्रह्म चिन्मात्रान्नास्ति कोऽपि हि ॥ ३५॥

    cinmātrānnāsti dikpālāścinmātrādvyāvahārikam ।
    cinmātrātparamaṃ brahma cinmātrānnāsti ko'pi hi ॥ 35॥

    चिन्मात्रान्नास्ति माया च चिन्मात्रान्नास्ति पूजनम् ।
    चिन्मात्रान्नास्ति मन्तव्यं चिन्मात्रान्नास्ति सत्यकम् ॥ ३६॥

    cinmātrānnāsti māyā ca cinmātrānnāsti pūjanam ।
    cinmātrānnāsti mantavyaṃ cinmātrānnāsti satyakam ॥ 36॥

    चिन्मात्रान्नास्ति कोशादि चिन्मात्रान्नास्ति वै वसु ।
    चिन्मात्रान्नास्ति मौनं च चिन्मात्रान्नस्त्यमौनकम् ॥ ३७॥

    cinmātrānnāsti kośādi cinmātrānnāsti vai vasu ।
    cinmātrānnāsti maunaṃ ca cinmātrānnastyamaunakam ॥ 37॥

    चिन्मात्रान्नास्ति वैराग्यं सर्वं चिन्मात्रमेव हि ।
    यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते ॥ ३८॥

    cinmātrānnāsti vairāgyaṃ sarvaṃ cinmātrameva hi ।
    yacca yāvacca cinmātraṃ yacca yāvacca dṛśyate ॥ 38॥

    यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि ।
    यच्च यावच्च भूतादि यच्च यावच्च लक्ष्यते ॥ ३९॥

    yacca yāvacca dūrasthaṃ sarvaṃ cinmātrameva hi ।
    yacca yāvacca bhūtādi yacca yāvacca lakṣyate ॥ 39॥

    यच्च यावच्च वेदान्ताः सर्वं चिन्मात्रमेव हि ।
    चिन्मात्रान्नास्ति गमनं चिन्मात्रान्नास्ति मोक्षकम् ॥ ४०॥

    yacca yāvacca vedāntāḥ sarvaṃ cinmātrameva hi ।
    cinmātrānnāsti gamanaṃ cinmātrānnāsti mokṣakam ॥ 40॥

    चिन्मात्रान्नास्ति लक्ष्यं च सर्वं चिन्मात्रमेव हि ।
    अखण्डैकरसं ब्रह्म चिन्मात्रान्न हि विद्यते ॥ ४१॥

    cinmātrānnāsti lakṣyaṃ ca sarvaṃ cinmātrameva hi ।
    akhaṇḍaikarasaṃ brahma cinmātrānna hi vidyate ॥ 41॥

    शास्त्रे मयि त्वयीशे च ह्यखण्डैकरसो भवान् ।
    इत्येकरूपतया यो वा जानात्यहं त्विति ॥ ४२॥

    śāstre mayi tvayīśe ca hyakhaṇḍaikaraso bhavān ।
    ityekarūpatayā yo vā jānātyahaṃ tviti ॥ 42॥

    सकृज्ज्ञानेन मुक्तिः स्यात्सम्यग्ज्ञाने स्वयं गुरुः ॥ ४३॥

    sakṛjjñānena muktiḥ syātsamyagjñāne svayaṃ guruḥ ॥ 43॥

    इति द्वितीयोऽध्यायः ॥ २॥

    iti dvitīyo'dhyāyaḥ ॥ 2॥

    कुमारः पितरमात्मानुभवमनुब्रूहीति पप्रच्छ ।
    स होवाच परः शिवः ।
    परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् ।
    केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम् ॥ १॥

    kumāraḥ pitaramātmānubhavamanubrūhīti papraccha ।
    sa hovāca paraḥ śivaḥ ।
    parabrahmasvarūpo'haṃ paramānandamasmyaham ।
    kevalaṃ jñānarūpo'haṃ kevalaṃ paramo'smyaham ॥ 1॥

    केवलं शान्तरूपोऽहं केवलं चिन्मयोऽस्म्यहम् ।
    केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् ॥ २॥

    kevalaṃ śāntarūpo'haṃ kevalaṃ cinmayo'smyaham ।
    kevalaṃ nityarūpo'haṃ kevalaṃ śāśvato'smyaham ॥ 2॥

    केवलं सत्त्वरूपोऽहमहं त्यक्त्वाहमस्म्यहम् ।
    सर्वहीनस्वरूपोऽहं चिदाकाशमयोऽस्म्यहम् ॥ ३॥

    kevalaṃ sattvarūpo'hamahaṃ tyaktvāhamasmyaham ।
    sarvahīnasvarūpo'haṃ cidākāśamayo'smyaham ॥ 3॥

    केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलः ।
    सदा चैतन्यरूपोऽस्मि चिदानन्दमयोऽस्म्यहम् ॥ ४॥

    kevalaṃ turyarūpo'smi turyātīto'smi kevalaḥ ।
    sadā caitanyarūpo'smi cidānandamayo'smyaham ॥ 4॥

    केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा ।
    केवलं ज्ञानरूपोऽस्मि केवलं प्रियमस्म्यहम् ॥ ५॥

    kevalākārarūpo'smi śuddharūpo'smyahaṃ sadā ।
    kevalaṃ jñānarūpo'smi kevalaṃ priyamasmyaham ॥ 5॥

    निर्विकल्पस्वरूपोऽस्मि निरीहोऽस्मि निरामयः ।
    सदाऽसङ्गस्वरूपोऽस्मि निर्विकारोऽहमव्ययः ॥ ६॥

    nirvikalpasvarūpo'smi nirīho'smi nirāmayaḥ ।
    sadā'saṅgasvarūpo'smi nirvikāro'hamavyayaḥ ॥ 6॥

    सदैकरसरूपोऽस्मि सदा चिन्मात्रविग्रहः ।
    अपरिच्छिन्नरूपोऽस्मि ह्यखण्डानन्दरूपवान् ॥ ७॥

    sadaikarasarūpo'smi sadā cinmātravigrahaḥ ।
    aparicchinnarūpo'smi hyakhaṇḍānandarūpavān ॥ 7॥

    सत्परानन्दरूपोऽस्मि चित्परानन्दमस्म्यहम् ।
    अन्तरान्तररूपोऽहमवाङ्मनसगोचरः ॥ ८॥

    satparānandarūpo'smi citparānandamasmyaham ।
    antarāntararūpo'hamavāṅmanasagocaraḥ ॥ 8॥

    आत्मानन्दस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा ।
    आत्मारामस्वरूपोऽस्मि ह्ययमात्मा सदाशिवः ॥ ९॥

    ātmānandasvarūpo'haṃ satyānando'smyahaṃ sadā ।
    ātmārāmasvarūpo'smi hyayamātmā sadāśivaḥ ॥ 9॥

    आत्मप्रकाशरूपोऽस्मि ह्यात्मज्योतिरसोऽस्म्यहम् ।
    आदिमध्यान्तहीनोऽस्मि ह्याकाशसदृशोऽस्म्यहम् ॥ १०॥

    ātmaprakāśarūpo'smi hyātmajyotiraso'smyaham ।
    ādimadhyāntahīno'smi hyākāśasadṛśo'smyaham ॥ 10॥

    नित्यशुद्धचिदानन्दसत्तामात्रोऽहमव्ययः ।
    नित्यबुद्धविशुद्धैकसच्चिदानन्दमस्म्यहम् ॥ १॥

    nityaśuddhacidānandasattāmātro'hamavyayaḥ ।
    nityabuddhaviśuddhaikasaccidānandamasmyaham ॥ 1॥

    नित्यशेषस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा ।
    रूपातीतस्वरूपोऽस्मि परमाकाशविग्रहः ॥ १२॥

    nityaśeṣasvarūpo'smi sarvātīto'smyahaṃ sadā ।
    rūpātītasvarūpo'smi paramākāśavigrahaḥ ॥ 12॥

    भूमानन्दस्वरूपोऽस्मि भाषाहीनोऽस्म्यहं सदा ।
    सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्घनोऽस्म्यहम् ॥ १३॥

    bhūmānandasvarūpo'smi bhāṣāhīno'smyahaṃ sadā ।
    sarvādhiṣṭhānarūpo'smi sarvadā cidghano'smyaham ॥ 13॥

    देहभावविहीनोऽस्मि चिन्ताहीनोऽस्मि सर्वदा ।
    चित्तवृत्तिविहीनोऽहं चिदात्मैकरसोऽस्म्यहम् ॥ १४॥

    dehabhāvavihīno'smi cintāhīno'smi sarvadā ।
    cittavṛttivihīno'haṃ cidātmaikaraso'smyaham ॥ 14॥

    सर्वदृश्यविहीनोऽहं दृग्रूपोऽस्म्यहमेव हि ।
    सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा ॥ १५॥

    sarvadṛśyavihīno'haṃ dṛgrūpo'smyahameva hi ।
    sarvadā pūrṇarūpo'smi nityatṛpto'smyahaṃ sadā ॥ 15॥

    अहं ब्रह्मैव सर्वं स्यादहं चैतन्यमेव हि ।
    अहमेवाहमेवास्मि भूमाकाशस्वरूपवान् ॥ १६॥

    ahaṃ brahmaiva sarvaṃ syādahaṃ caitanyameva hi ।
    ahamevāhamevāsmi bhūmākāśasvarūpavān ॥ 16॥

    अहमेव महानात्मा ह्यहमेव परात्परः ।
    अहमन्यवदाभामि ह्यहमेव शरीरवत् ॥ १७॥

    ahameva mahānātmā hyahameva parātparaḥ ।
    ahamanyavadābhāmi hyahameva śarīravat ॥ 17॥

    अहं शिष्यवदाभामि ह्ययं लोकत्रयाश्रयः ।
    अहं कालत्रयातीत अहं वेदैरुपासितः ॥ १८॥

    ahaṃ śiṣyavadābhāmi hyayaṃ lokatrayāśrayaḥ ।
    ahaṃ kālatrayātīta ahaṃ vedairupāsitaḥ ॥ 18॥

    अहं शास्त्रेण निर्णीत अहं चित्ते व्यवस्थितः ।
    मत्त्यक्तं नास्ति किञ्चिद्वा मत्त्यक्तं पृथिवी च वा ॥ १९॥

    ahaṃ śāstreṇa nirṇīta ahaṃ citte vyavasthitaḥ ।
    mattyaktaṃ nāsti kiñcidvā mattyaktaṃ pṛthivī ca vā ॥ 19॥

    मयातिरिक्तं यद्यद्वा तत्तन्नास्तीति निश्चिनु ।
    अहं ब्रह्मास्मि सिद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा ॥ २०॥

    mayātiriktaṃ yadyadvā tattannāstīti niścinu ।
    ahaṃ brahmāsmi siddho'smi nityaśuddho'smyahaṃ sadā ॥ 20॥

    निर्गुणः केवलात्मास्मि निराकारोऽस्म्यहं सदा ।
    केवलं ब्रह्ममात्रोऽस्मि ह्यजरोऽस्म्यमरोऽस्म्यहम् ॥ २१॥

    nirguṇaḥ kevalātmāsmi nirākāro'smyahaṃ sadā ।
    kevalaṃ brahmamātro'smi hyajaro'smyamaro'smyaham ॥ 21॥

    स्वयमेव स्वयं भामि स्वयमेव सदात्मकः ।
    स्वयमेवात्मनि स्वस्थः स्वयमेव परा गतिः ॥ २२॥

    svayameva svayaṃ bhāmi svayameva sadātmakaḥ ।
    svayamevātmani svasthaḥ svayameva parā gatiḥ ॥ 22॥

    स्वयमेव स्वयं भञ्जे स्वयमेव स्वयं रमे ।
    स्वयमेव स्वयं ज्योतिः स्वयमेव स्वयं महः ॥ २३॥

    svayameva svayaṃ bhañje svayameva svayaṃ rame ।
    svayameva svayaṃ jyotiḥ svayameva svayaṃ mahaḥ ॥ 23॥

    स्वस्यात्मनि स्वयं रंस्ये स्वात्मन्येव विलोकये ।
    स्वात्मन्येव सुखासीनः स्वात्ममात्रावशेषकः ॥ २४॥

    svasyātmani svayaṃ raṃsye svātmanyeva vilokaye ।
    svātmanyeva sukhāsīnaḥ svātmamātrāvaśeṣakaḥ ॥ 24॥

    स्वचैतन्ये स्वयं स्थास्ये स्वात्मराज्ये सुखे रमे ।
    स्वात्मसिंहासने स्थित्वा स्वात्मनोऽन्यन्न चिन्तये ॥ २५॥

    svacaitanye svayaṃ sthāsye svātmarājye sukhe rame ।
    svātmasiṃhāsane sthitvā svātmano'nyanna cintaye ॥ 25॥

    चिद्रूपमात्रं ब्रह्मैव सच्चिदानन्दमद्वयम् ।
    आनन्दघन एवाहमहं ब्रह्मास्मि केवलम् ॥ २६॥

    cidrūpamātraṃ brahmaiva saccidānandamadvayam ।
    ānandaghana evāhamahaṃ brahmāsmi kevalam ॥ 26॥

    सर्वदा सर्वशून्योऽहं सर्वात्मानन्दवानहम् ।
    नित्यानन्दस्वरूपोऽहमात्माकाशोऽस्मि नित्यदा ॥ २७॥

    sarvadā sarvaśūnyo'haṃ sarvātmānandavānaham ।
    nityānandasvarūpo'hamātmākāśo'smi nityadā ॥ 27॥

    अहमेव हृदाकाशश्चिदादित्यस्वरूपवान् ।
    आत्मनात्मनि तृप्तोऽस्मि ह्यरूपोऽस्म्यहमव्ययः ॥ २८॥

    ahameva hṛdākāśaścidādityasvarūpavān ।
    ātmanātmani tṛpto'smi hyarūpo'smyahamavyayaḥ ॥ 28॥

    एकसङ्ख्याविहीनोऽस्मि नित्यमुक्तस्वरूपवान् ।
    आकाशादपि सूक्ष्मोऽहमाद्यन्ताभाववानहम् ॥ २९॥

    ekasaṅkhyāvihīno'smi nityamuktasvarūpavān ।
    ākāśādapi sūkṣmo'hamādyantābhāvavānaham ॥ 29॥

    सर्वप्रकाशरूपोऽहं परावरसुखोऽस्म्यहम् ।
    सत्तामात्रस्वरूपोऽहं शुद्धमोक्षस्वरूपवान् ॥ ३०॥

    sarvaprakāśarūpo'haṃ parāvarasukho'smyaham ।
    sattāmātrasvarūpo'haṃ śuddhamokṣasvarūpavān ॥ 30॥

    सत्यानन्दस्वरूपोऽहं ज्ञानानन्दघनोऽस्म्यहम् ।
    विज्ञानमात्ररूपोऽहं सच्चिदानन्दलक्षणः ॥ ३१॥

    satyānandasvarūpo'haṃ jñānānandaghano'smyaham ।
    vijñānamātrarūpo'haṃ saccidānandalakṣaṇaḥ ॥ 31॥

    ब्रह्ममात्रमिदं सर्वं ब्रह्मणोऽन्यन्न किञ्चन ।
    तदेवाहं सदानन्दं ब्रह्मैवाहं सनातनम् ॥ ३२॥

    brahmamātramidaṃ sarvaṃ brahmaṇo'nyanna kiñcana ।
    tadevāhaṃ sadānandaṃ brahmaivāhaṃ sanātanam ॥ 32॥

    त्वमित्येतत्तदित्येतन्मत्तोऽन्यन्नास्ति किञ्चन ।
    चिच्चैतन्यस्वरूपोऽहमहमेव शिवः परः ॥ ३३॥

    tvamityetattadityetanmatto'nyannāsti kiñcana ।
    ciccaitanyasvarūpo'hamahameva śivaḥ paraḥ ॥ 33॥

    अतिभावस्वरूपोऽहमहमेव सुखात्मकः ।
    साक्षिवस्तुविहीनत्वात्साक्षित्वं नास्ति मे सदा ॥ ३४॥

    atibhāvasvarūpo'hamahameva sukhātmakaḥ ।
    sākṣivastuvihīnatvātsākṣitvaṃ nāsti me sadā ॥ 34॥

    केवलं ब्रह्ममात्रत्वादहमात्मा सनातनः ।
    अहमेवादिशेषोऽहमहं शेषोऽहमेव हि ॥ ३५॥

    kevalaṃ brahmamātratvādahamātmā sanātanaḥ ।
    ahamevādiśeṣo'hamahaṃ śeṣo'hameva hi ॥ 35॥

    नामरूपविमुक्तोऽहमहमानन्दविग्रहः ।
    इन्द्रियाभावरूपोऽहं सर्वभावस्वरूपकः ॥ ३६॥

    nāmarūpavimukto'hamahamānandavigrahaḥ ।
    indriyābhāvarūpo'haṃ sarvabhāvasvarūpakaḥ ॥ 36॥

    बन्धमुक्तिविहीनोऽहं शाश्वतानन्दविग्रहः ।
    आदिचैतन्यमात्रोऽहमखण्डैकरसोऽस्म्यहम् ॥ ३७॥

    bandhamuktivihīno'haṃ śāśvatānandavigrahaḥ ।
    ādicaitanyamātro'hamakhaṇḍaikaraso'smyaham ॥ 37॥

    वाङ्मनोऽगोचरश्चाहं सर्वत्र सुखवानहम् ।
    सर्वत्र पूर्णरूपोऽहं भूमानन्दमयोऽस्म्यहम् ॥ ३८॥

    vāṅmano'gocaraścāhaṃ sarvatra sukhavānaham ।
    sarvatra pūrṇarūpo'haṃ bhūmānandamayo'smyaham ॥ 38॥

    सर्वत्र तृप्तिरूपोऽहं परामृतरसोऽस्म्यहम् ।
    एकमेवाद्वितीयं सद्ब्रह्मैवाहं न संशयः ॥ ३९॥

    sarvatra tṛptirūpo'haṃ parāmṛtaraso'smyaham ।
    ekamevādvitīyaṃ sadbrahmaivāhaṃ na saṃśayaḥ ॥ 39॥

    सर्वशून्यस्वरूपोऽहं सकलागमगोचरः ।
    मुक्तोऽहं मोक्षरूपोऽहं निर्वाणसुखरूपवान् ॥ ४०॥

    sarvaśūnyasvarūpo'haṃ sakalāgamagocaraḥ ।
    mukto'haṃ mokṣarūpo'haṃ nirvāṇasukharūpavān ॥ 40॥

    सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् ।
    तुरीयातीतरूपोऽहं निर्विकल्पस्वरूपवान् ॥ ४१॥

    satyavijñānamātro'haṃ sanmātrānandavānaham ।
    turīyātītarūpo'haṃ nirvikalpasvarūpavān ॥ 41॥

    सर्वदा ह्यजरूपोऽहं नीरागोऽस्मि निरञ्जनः ।
    अहं शुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् ॥ ४२॥

    sarvadā hyajarūpo'haṃ nīrāgo'smi nirañjanaḥ ।
    ahaṃ śuddho'smi buddho'smi nityo'smi prabhurasmyaham ॥ 42॥

    ओङ्कारार्थस्वरूपोऽस्मि निष्कलङ्कमयोऽस्म्यहम् ।
    चिदाकारस्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् ॥ ४३॥

    oṅkārārthasvarūpo'smi niṣkalaṅkamayo'smyaham ।
    cidākārasvarūpo'smi nāhamasmi na so'smyaham ॥ 43॥

    न हि किञ्चित्स्वरूपोऽस्मि निर्व्यापारस्वरूपवान् ।
    निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् ॥ ४४॥

    na hi kiñcitsvarūpo'smi nirvyāpārasvarūpavān ।
    niraṃśo'smi nirābhāso na mano nendriyo'smyaham ॥ 44॥

    न बुद्धिर्न विकल्पोऽहं न देहादित्रयोऽस्म्यहम् ।
    न जाग्रत्स्वप्नरूपोऽहं न सुषुप्तिस्वरूपवान् ॥ ४५॥

    na buddhirna vikalpo'haṃ na dehāditrayo'smyaham ।
    na jāgratsvapnarūpo'haṃ na suṣuptisvarūpavān ॥ 45॥

    न तापत्रयरूपोऽहं नेषणात्रयवानहम् ।
    श्रवणं नास्ति मे सिद्धेर्मननं च चिदात्मनि ॥ ४६॥

    na tāpatrayarūpo'haṃ neṣaṇātrayavānaham ।
    śravaṇaṃ nāsti me siddhermananaṃ ca cidātmani ॥ 46॥

    सजातीयं न मे किञ्चिद्विजातीयं न मे क्वचित् ।
    स्वगतं च न मे किञ्चिन्न मे भेदत्रयं क्वचित् ॥ ४७॥

    sajātīyaṃ na me kiñcidvijātīyaṃ na me kvacit ।
    svagataṃ ca na me kiñcinna me bhedatrayaṃ kvacit ॥ 47॥

    असत्यं हि मनोरूपमसत्यं बुद्धिरूपकम् ।
    अहङ्कारमसिद्धीति नित्योऽहं शाश्वतो ह्यजः ॥ ४८॥

    asatyaṃ hi manorūpamasatyaṃ buddhirūpakam ।
    ahaṅkāramasiddhīti nityo'haṃ śāśvato hyajaḥ ॥ 48॥

    देहत्रयमसद्विद्धि कालत्रयमसत्सदा ।
    गुणत्रयमसत्विद्धि ह्ययं सत्यात्मकः शुचिः ॥ ४९॥

    dehatrayamasadviddhi kālatrayamasatsadā ।
    guṇatrayamasatviddhi hyayaṃ satyātmakaḥ śuciḥ ॥ 49॥

    श्रुतं सर्वमसत्द्विद्धि वेदं सर्वमसत्सदा ।
    शास्त्रं सर्वमसत्द्विद्धि ह्यहं सत्यचिदात्मकः ॥ ५०॥

    śrutaṃ sarvamasatdviddhi vedaṃ sarvamasatsadā ।
    śāstraṃ sarvamasatdviddhi hyahaṃ satyacidātmakaḥ ॥ 50॥

    मूर्तित्रयमसद्विद्धि सर्वभूतमसत्सदा ।
    सर्वतत्त्वमसद्विद्धि ह्ययं भूमा सदाशिवः ॥ ५१॥

    mūrtitrayamasadviddhi sarvabhūtamasatsadā ।
    sarvatattvamasadviddhi hyayaṃ bhūmā sadāśivaḥ ॥ 51॥

    गुरुशिष्यमसद्विद्धि गुरोर्मन्त्रमसत्ततः ।
    यद्दृश्यं तदसद्विद्धि न मां विद्धि तथाविधम् ॥ ५२॥

    guruśiṣyamasadviddhi gurormantramasattataḥ ।
    yaddṛśyaṃ tadasadviddhi na māṃ viddhi tathāvidham ॥ 52॥

    यच्चिन्त्यं तदसद्विद्धि यन्न्यायं तदसत्सदा ।
    यद्धितं तदसद्विद्धि न मां विद्धि तथाविधम् ॥ ५३॥

    yaccintyaṃ tadasadviddhi yannyāyaṃ tadasatsadā ।
    yaddhitaṃ tadasadviddhi na māṃ viddhi tathāvidham ॥ 53॥

    सर्वान्प्राणानसद्विद्धि सर्वान्भोगानसत्त्विति ।
    दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयम् ॥ ५४॥

    sarvānprāṇānasadviddhi sarvānbhogānasattviti ।
    dṛṣṭaṃ śrutamasadviddhi otaṃ protamasanmayam ॥ 54॥

    कार्याकार्यमसद्विद्धि नष्टं प्राप्तमसन्मयम् ।
    दुःखादुःखमसद्विद्धि सर्वासर्वमन्मयम् ॥ ५५॥

    kāryākāryamasadviddhi naṣṭaṃ prāptamasanmayam ।
    duḥkhāduḥkhamasadviddhi sarvāsarvamanmayam ॥ 55॥

    पूर्णापूर्णमसद्विद्धि धर्माधर्ममसन्मयम् ।
    लाभालाभावसद्विद्धि जयाजयमसन्मयम् ॥ ५६॥

    pūrṇāpūrṇamasadviddhi dharmādharmamasanmayam ।
    lābhālābhāvasadviddhi jayājayamasanmayam ॥ 56॥

    शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत्सदा ।
    रूपं सर्वमसद्विद्धि रसं सर्वमसन्मयम् ॥ ५७॥

    śabdaṃ sarvamasadviddhi sparśaṃ sarvamasatsadā ।
    rūpaṃ sarvamasadviddhi rasaṃ sarvamasanmayam ॥ 57॥

    गन्धं सर्वमसद्विद्धि सर्वाज्ञानमसन्मयम् ।
    असदेव सदा सर्वमसदेव भवोद्भवम् ॥ ५८॥

    gandhaṃ sarvamasadviddhi sarvājñānamasanmayam ।
    asadeva sadā sarvamasadeva bhavodbhavam ॥ 58॥

    असदेव गुणं सर्वं सन्मात्रमहमेव हि ।
    स्वात्ममन्त्रं सदा पश्येत्स्वात्ममन्त्रं सदाभ्यसेत् ॥ ५९॥

    asadeva guṇaṃ sarvaṃ sanmātramahameva hi ।
    svātmamantraṃ sadā paśyetsvātmamantraṃ sadābhyaset ॥ 59॥

    अहं ब्रह्मास्मि मन्त्रोऽयं दृश्यपापं विनाशयेत् ।
    अहं ब्रह्मास्मि मन्त्रोऽयमन्यमन्त्रं विनाशयेत् ॥ ६०॥

    ahaṃ brahmāsmi mantro'yaṃ dṛśyapāpaṃ vināśayet ।
    ahaṃ brahmāsmi mantro'yamanyamantraṃ vināśayet ॥ 60॥

    अहं ब्रह्मास्मि मन्त्रोऽयं देहदोषं विनाशयेत् ।
    अहं ब्रह्मास्मि मन्त्रोऽयं जन्मपापं विनाशयेत् ॥ ६१॥

    ahaṃ brahmāsmi mantro'yaṃ dehadoṣaṃ vināśayet ।
    ahaṃ brahmāsmi mantro'yaṃ janmapāpaṃ vināśayet ॥ 61॥

    अहं ब्रह्मास्मि मन्त्रोऽयं मृत्युपाशं विनाशयेत् ।
    अहं ब्रह्मास्मि मन्त्रोऽयं द्वैतदुःखं विनाशयेत् ॥ ६२॥

    ahaṃ brahmāsmi mantro'yaṃ mṛtyupāśaṃ vināśayet ।
    ahaṃ brahmāsmi mantro'yaṃ dvaitaduḥkhaṃ vināśayet ॥ 62॥

    अहं ब्रह्मास्मि मन्त्रोऽयं भेदबुद्धिं विनाशयेत् ।
    अहं ब्रह्मास्मि मन्त्रोऽयं चिन्तादुःखं विनाशयेत् ॥ ६३॥

    ahaṃ brahmāsmi mantro'yaṃ bhedabuddhiṃ vināśayet ।
    ahaṃ brahmāsmi mantro'yaṃ cintāduḥkhaṃ vināśayet ॥ 63॥

    अहं ब्रह्मास्मि मन्त्रोऽयं बुद्धिव्याधिं विनाशयेत् ।
    अहं ब्रह्मास्मि मन्त्रोऽयं चित्तबन्धं विनाशयेत् ॥ ६४॥

    ahaṃ brahmāsmi mantro'yaṃ buddhivyādhiṃ vināśayet ।
    ahaṃ brahmāsmi mantro'yaṃ cittabandhaṃ vināśayet ॥ 64॥

    अहं ब्रह्मास्मि मन्त्रोऽयं सर्वव्याधीन्विनाशयेत् ।
    अहं ब्रह्मास्मि मन्त्रोऽयं सर्वशोकं विनाशयेत् ॥ ६५॥

    ahaṃ brahmāsmi mantro'yaṃ sarvavyādhīnvināśayet ।
    ahaṃ brahmāsmi mantro'yaṃ sarvaśokaṃ vināśayet ॥ 65॥

    अहं ब्रह्मास्मि मन्त्रोऽयं कामादीन्नाशयेत्क्षणात् ।
    अहं ब्रह्मास्मि मन्त्रोऽयं क्रोधशक्तिं विनाशयेत् ॥ ६६॥

    ahaṃ brahmāsmi mantro'yaṃ kāmādīnnāśayetkṣaṇāt ।
    ahaṃ brahmāsmi mantro'yaṃ krodhaśaktiṃ vināśayet ॥ 66॥

    अहं ब्रह्मास्मि मन्त्रोऽयं चित्तवृत्तिं विनाशयेत् ।
    अहं ब्रह्मास्मि मन्त्रोऽयं सङ्कल्पादीन्विनाशयेत् ॥ ६७॥

    ahaṃ brahmāsmi mantro'yaṃ cittavṛttiṃ vināśayet ।
    ahaṃ brahmāsmi mantro'yaṃ saṅkalpādīnvināśayet ॥ 67॥

    अहं ब्रह्मास्मि मन्त्रोऽयं कोटिदोषं विनाशयेत् ।
    अहं ब्रह्मास्मि मन्त्रोऽयं सर्वतन्त्रं विनाशयेत् ॥ ६८॥

    ahaṃ brahmāsmi mantro'yaṃ koṭidoṣaṃ vināśayet ।
    ahaṃ brahmāsmi mantro'yaṃ sarvatantraṃ vināśayet ॥ 68॥

    अहं ब्रह्मास्मि मन्त्रोऽयमात्माज्ञानं विनाशयेत् ।
    अहं ब्रह्मास्मि मन्त्रोऽयमात्मलोकजयप्रदः ॥ ६९॥

    ahaṃ brahmāsmi mantro'yamātmājñānaṃ vināśayet ।
    ahaṃ brahmāsmi mantro'yamātmalokajayapradaḥ ॥ 69॥

    अहं ब्रह्मास्मि मन्त्रोऽयमप्रतर्क्यसुखप्रदः ।
    अहं ब्रह्मास्मि मन्त्रोऽयमजडत्वं प्रयच्छति ॥ ७०॥

    ahaṃ brahmāsmi mantro'yamapratarkyasukhapradaḥ ।
    ahaṃ brahmāsmi mantro'yamajaḍatvaṃ prayacchati ॥ 70॥

    अहं ब्रह्मास्मि मन्त्रोऽयमनात्मासुरमर्दनः ।
    अहं ब्रह्मास्मि वज्रोऽयमनात्माख्यगिरीन्हरेत् ॥ ७१॥

    ahaṃ brahmāsmi mantro'yamanātmāsuramardanaḥ ।
    ahaṃ brahmāsmi vajro'yamanātmākhyagirīnharet ॥ 71॥

    अहं ब्रह्मास्मि मन्त्रोऽयमनात्माख्यासुरान्हरेत् ।
    अहं ब्रह्मास्मि मन्त्रोऽयं सर्वांस्तान्मोक्षयिष्यति ॥ ७२॥

    ahaṃ brahmāsmi mantro'yamanātmākhyāsurānharet ।
    ahaṃ brahmāsmi mantro'yaṃ sarvāṃstānmokṣayiṣyati ॥ 72॥

    अहं ब्रह्मास्मि मन्त्रोऽयं ज्ञानानन्दं प्रयच्छति ।
    सप्तकोटिमहामन्त्रं जन्मकोटिशतप्रदम् ॥ ७३॥

    ahaṃ brahmāsmi mantro'yaṃ jñānānandaṃ prayacchati ।
    saptakoṭimahāmantraṃ janmakoṭiśatapradam ॥ 73॥

    सर्वमन्त्रान्समुत्सृज्य एतं मन्त्रं समभ्यसेत् ।
    सद्यो मोक्षमवाप्नोति नात्र सन्देहमण्वपि ॥ ७४॥

    sarvamantrānsamutsṛjya etaṃ mantraṃ samabhyaset ।
    sadyo mokṣamavāpnoti nātra sandehamaṇvapi ॥ 74॥

    इति तृतीयोध्यायः ॥ ३॥

    iti tṛtīyodhyāyaḥ ॥ 3॥

    कुमारः परमेश्वरं पप्रच्छ जीवन्मुक्तविदेहमुक्तयोः
    स्थितिमनुब्रूहीति । स होवाच परः शिवः ।
    चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः ।
    आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ १॥

    kumāraḥ parameśvaraṃ papraccha jīvanmuktavidehamuktayoḥ
    sthitimanubrūhīti । sa hovāca paraḥ śivaḥ ।
    cidātmāhaṃ parātmāhaṃ nirguṇo'haṃ parātparaḥ ।
    ātmamātreṇa yastiṣṭhetsa jīvanmukta ucyate ॥ 1॥

    देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम् ।
    ब्रह्माहमिति यस्यान्तः स जीवनमुक्त उच्यते ॥ २॥

    dehatrayātirikto'haṃ śuddhacaitanyamasmyaham ।
    brahmāhamiti yasyāntaḥ sa jīvanamukta ucyate ॥ 2॥

    आनन्दघनरूपोऽस्मि परानन्दघनोऽस्म्यहम् ।
    यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः ।
    परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ ३॥

    ānandaghanarūpo'smi parānandaghano'smyaham ।
    yasya dehādikaṃ nāsti yasya brahmeti niścayaḥ ।
    paramānandapūrṇo yaḥ sa jīvanmukta ucyate ॥ 3॥

    यस्य किञ्चिदहं नास्ति चिन्मात्रेणावतिष्ठते ।
    चैतन्यमात्रो यस्यान्तश्चिन्मात्रैकस्वरूपवान् ॥ ४॥

    yasya kiñcidahaṃ nāsti cinmātreṇāvatiṣṭhate ।
    caitanyamātro yasyāntaścinmātraikasvarūpavān ॥ 4॥

    सर्वत्र पूर्णरूपात्मा सर्वत्रात्मावशेषकः ।
    आनन्दरतिरव्यक्तः परिपूर्णश्चिदात्मकः ॥ ५॥

    sarvatra pūrṇarūpātmā sarvatrātmāvaśeṣakaḥ ।
    ānandaratiravyaktaḥ paripūrṇaścidātmakaḥ ॥ 5॥

    शुद्धचैतन्यरूपात्मा सर्वसङ्गविवर्जितः ।
    नित्यानन्दः प्रसन्नात्मा ह्यन्यचिन्ताविवर्जितः ॥ ६
    किञ्चिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते ।
    न मे चित्तं न मे बुद्धिर्नाहङ्कारो न चेन्द्रियम् ॥ ७॥

    śuddhacaitanyarūpātmā sarvasaṅgavivarjitaḥ ।
    nityānandaḥ prasannātmā hyanyacintāvivarjitaḥ ॥ 6
    kiñcidastitvahīno yaḥ sa jīvanmukta ucyate ।
    na me cittaṃ na me buddhirnāhaṅkāro na cendriyam ॥ 7॥

    न मे देहः कदाचिद्वा न मे प्राणादयः क्वचित् ।
    न मे माया न मे कामो न मे क्रोधः परोऽस्म्यहम् ॥ ८॥

    na me dehaḥ kadācidvā na me prāṇādayaḥ kvacit ।
    na me māyā na me kāmo na me krodhaḥ paro'smyaham ॥ 8॥

    न मे किञ्चिदिदं वापि न मे किञ्चित्क्वचिज्जगत् ।
    न मे दोषो न मे लिङ्गं न मे चक्षुर्न मे मनः ॥ ९॥

    na me kiñcididaṃ vāpi na me kiñcitkvacijjagat ।
    na me doṣo na me liṅgaṃ na me cakṣurna me manaḥ ॥ 9॥

    न मे श्रोत्रं न मे नासा न मे जिह्वा न मे करः ।
    न मे जाग्रन्न मे स्वप्नं न मे कारणमण्वपि ॥ १०॥

    na me śrotraṃ na me nāsā na me jihvā na me karaḥ ।
    na me jāgranna me svapnaṃ na me kāraṇamaṇvapi ॥ 10॥

    न मे तुरीयमिति यः स जीवन्मुक्त उच्यते ।
    इदं सर्वं न मे किञ्चिदयं सर्वं न मे क्वचित् ॥ ११॥

    na me turīyamiti yaḥ sa jīvanmukta ucyate ।
    idaṃ sarvaṃ na me kiñcidayaṃ sarvaṃ na me kvacit ॥ 11॥

    न मे कालो न मे देशो न मे वस्तु न मे मतिः ।
    न मे स्नानं न मे सन्ध्या न मे दैवं न मे स्थलम् ॥ १२॥

    na me kālo na me deśo na me vastu na me matiḥ ।
    na me snānaṃ na me sandhyā na me daivaṃ na me sthalam ॥ 12॥

    न मे तीर्थं न मे सेवा न मे ज्ञानं न मे पदम् ।
    न मे बन्धो न मे जन्म न मे वाक्यं न मे रविः ॥ १३॥

    na me tīrthaṃ na me sevā na me jñānaṃ na me padam ।
    na me bandho na me janma na me vākyaṃ na me raviḥ ॥ 13॥

    न मे पुण्यं न मे पापं न मे कार्यं न मे शुभम् ।
    ने मे जीव इति स्वात्मा न मे किञ्चिज्जगत्रयम् ॥ १४॥

    na me puṇyaṃ na me pāpaṃ na me kāryaṃ na me śubham ।
    ne me jīva iti svātmā na me kiñcijjagatrayam ॥ 14॥

    न मे मोक्षो न मे द्वैतं न मे वेदो न मे विधिः ।
    न मेऽन्तिकं न मे दूरं न मे बोधो न मे रहः ॥ १५॥

    na me mokṣo na me dvaitaṃ na me vedo na me vidhiḥ ।
    na me'ntikaṃ na me dūraṃ na me bodho na me rahaḥ ॥ 15॥

    न मे गुरुर्न मे शिष्यो न मे हीनो न चाधिकः ।
    न मे ब्रह्म न मे विष्णुर्न मे रुद्रो न चन्द्रमाः ॥ १६॥

    na me gururna me śiṣyo na me hīno na cādhikaḥ ।
    na me brahma na me viṣṇurna me rudro na candramāḥ ॥ 16॥

    न मे पृथ्वी न मे तोयं न मे वायुर्न मे वियत् ।
    न मे वह्निर्न मे गोत्रं न मे लक्ष्यं न मे भवः ॥ १७॥

    na me pṛthvī na me toyaṃ na me vāyurna me viyat ।
    na me vahnirna me gotraṃ na me lakṣyaṃ na me bhavaḥ ॥ 17॥

    न मे ध्याता न मे ध्येयं न मे ध्यानं न मे मनुः ।
    न मे शीतं न मे चोष्णं न मे तृष्णा न मे क्षुधा ॥ १८॥

    na me dhyātā na me dhyeyaṃ na me dhyānaṃ na me manuḥ ।
    na me śītaṃ na me coṣṇaṃ na me tṛṣṇā na me kṣudhā ॥ 18॥

    न मे मित्रं न मे शत्रुर्न मे मोहो न मे जयः ।
    न मे पूर्वं न मे पश्चान्न मे चोर्ध्वं न मे दिशः ॥ १९॥

    na me mitraṃ na me śatrurna me moho na me jayaḥ ।
    na me pūrvaṃ na me paścānna me cordhvaṃ na me diśaḥ ॥ 19॥

    न मे वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि ।
    न मे गन्तव्यमीषद्वा न मे ध्यातव्यमण्वपि ॥ २०॥

    na me vaktavyamalpaṃ vā na me śrotavyamaṇvapi ।
    na me gantavyamīṣadvā na me dhyātavyamaṇvapi ॥ 20॥

    न मे भोक्तव्यमीषद्वा न मे स्मर्तव्यमण्वपि ।
    न मे भोगो न मे रागो न मे यागो न मे लयः ॥ २१॥

    na me bhoktavyamīṣadvā na me smartavyamaṇvapi ।
    na me bhogo na me rāgo na me yāgo na me layaḥ ॥ 21॥

    न मे मौर्ख्यं न मे शान्तं न मे बन्धो न मे प्रियम् ।
    न मे मोदः प्रमोदो वा न मे स्थूलं न मे कृशम् ॥ २२॥

    na me maurkhyaṃ na me śāntaṃ na me bandho na me priyam ।
    na me modaḥ pramodo vā na me sthūlaṃ na me kṛśam ॥ 22॥

    न मे दीर्घं न मे ह्रस्वं न मे वृद्धिर्न मे क्षयः ।
    अध्यारोपोऽपवादो वा न मे चैकं न मे बहु ॥ २३॥

    na me dīrghaṃ na me hrasvaṃ na me vṛddhirna me kṣayaḥ ।
    adhyāropo'pavādo vā na me caikaṃ na me bahu ॥ 23॥

    न मे आन्ध्यं न मे मान्द्यं न मे पट्विदमण्वपि ।
    न मे मांसं न मे रक्तं न मे मेदो न मे ह्यसृक् ॥ २४॥

    na me āndhyaṃ na me māndyaṃ na me paṭvidamaṇvapi ।
    na me māṃsaṃ na me raktaṃ na me medo na me hyasṛk ॥ 24॥

    न मे मज्जा न मेऽस्थिर्वा न मे त्वग्धातु सप्तकम् ।
    न मे शुक्लं न मे रक्तं न मे नीलं नमे पृथक् ॥ २५॥

    na me majjā na me'sthirvā na me tvagdhātu saptakam ।
    na me śuklaṃ na me raktaṃ na me nīlaṃ name pṛthak ॥ 25॥

    न मे तापो न मे लाभो मुख्यं गौणं न मे क्वचित् ।
    न मे भ्रान्तिर्न मे स्थैर्यं न मे गुह्यं न मे कुलम् ॥ २६॥

    na me tāpo na me lābho mukhyaṃ gauṇaṃ na me kvacit ।
    na me bhrāntirna me sthairyaṃ na me guhyaṃ na me kulam ॥ 26॥

    न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे नयः ।
    न मे वृत्तं न मे ग्लानिर्न मे शोष्यं न मे सुखम् ॥ २७॥

    na me tyājyaṃ na me grāhyaṃ na me hāsyaṃ na me nayaḥ ।
    na me vṛttaṃ na me glānirna me śoṣyaṃ na me sukham ॥ 27॥

    न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् ।
    न मे तुभ्यं नमे मह्यं न मे त्वं च न मे त्वहम् ॥ २८॥

    na me jñātā na me jñānaṃ na me jñeyaṃ na me svayam ।
    na me tubhyaṃ name mahyaṃ na me tvaṃ ca na me tvaham ॥ 28॥

    न मे जरा न मे बाल्यं न मे यौवनमण्वपि ।
    अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्चयः ॥ २९॥

    na me jarā na me bālyaṃ na me yauvanamaṇvapi ।
    ahaṃ brahmāsmyahaṃ brahmāsmyahaṃ brahmeti niścayaḥ ॥ 29॥

    चिदहं चिदहं चेति स जीवन्मुक्त उच्यते ।
    ब्रह्मैवाहं चिदेवाहं परो वाहं न संशयः ॥ ३०॥

    cidahaṃ cidahaṃ ceti sa jīvanmukta ucyate ।
    brahmaivāhaṃ cidevāhaṃ paro vāhaṃ na saṃśayaḥ ॥ 30॥

    स्वयमेव स्वयं हंसः स्वयमेव स्वयं स्थितः ।
    स्वयमेव स्वयं पश्येत्स्वात्मराज्ये सुखं वसेत् ॥ ३१॥

    svayameva svayaṃ haṃsaḥ svayameva svayaṃ sthitaḥ ।
    svayameva svayaṃ paśyetsvātmarājye sukhaṃ vaset ॥ 31॥

    स्वात्मानन्दं स्वयं भोक्ष्येत्स जीवन्मुक्त उच्यते ।
    स्वयमेवैकवीरोऽग्रे स्वयमेव प्रभुः स्मृतः ॥ ३२॥

    svātmānandaṃ svayaṃ bhokṣyetsa jīvanmukta ucyate ।
    svayamevaikavīro'gre svayameva prabhuḥ smṛtaḥ ॥ 32॥

    ब्रह्मभूतः प्रशान्तात्मा ब्रह्मानन्दमयः सुखी ।
    स्वच्छरूपो महामौनी वैदेही मुक्त एव सः ॥ ३३॥

    brahmabhūtaḥ praśāntātmā brahmānandamayaḥ sukhī ।
    svaccharūpo mahāmaunī vaidehī mukta eva saḥ ॥ 33॥

    सर्वात्मा समरूपात्मा शुद्धात्मा त्वहमुत्थितः ।
    एकवर्जित एकात्मा सर्वात्मा स्वात्ममात्रकः ॥ ३४॥

    sarvātmā samarūpātmā śuddhātmā tvahamutthitaḥ ।
    ekavarjita ekātmā sarvātmā svātmamātrakaḥ ॥ 34॥

    अजात्मा चामृतात्माहं स्वयमात्माहमव्ययः ।
    लक्ष्यात्मा ललितात्माहं तूष्णीमात्मस्वभाववान् ॥ ३५॥

    ajātmā cāmṛtātmāhaṃ svayamātmāhamavyayaḥ ।
    lakṣyātmā lalitātmāhaṃ tūṣṇīmātmasvabhāvavān ॥ 35॥

    आनन्दात्मा प्रियो ह्यात्मा मोक्षात्मा बन्धवर्जितः ।
    ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते ॥ ३६॥

    ānandātmā priyo hyātmā mokṣātmā bandhavarjitaḥ ।
    brahmaivāhaṃ cidevāhamevaṃ vāpi na cintyate ॥ 36॥

    चिन्मात्रेणैव यस्तिष्ठेद्वैदेही मुक्त एव सः ॥ ३७॥

    cinmātreṇaiva yastiṣṭhedvaidehī mukta eva saḥ ॥ 37॥

    निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयम् ।
    आनन्दभरितस्वान्तो वैदेही मुक्त एव सः ॥ ३८॥

    niścayaṃ ca parityajya ahaṃ brahmeti niścayam ।
    ānandabharitasvānto vaidehī mukta eva saḥ ॥ 38॥

    सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति ।
    अहं ब्रह्मास्मि नास्मीति सच्चिदानन्दमात्रकः ॥ ३९॥

    sarvamastīti nāstīti niścayaṃ tyajya tiṣṭhati ।
    ahaṃ brahmāsmi nāsmīti saccidānandamātrakaḥ ॥ 39॥

    किञ्चित्क्वचित्कदाचिच्च आत्मानं न स्पृशत्यसौ ।
    तूष्णीमेव स्थितस्तूष्णीं तूष्णीं सत्यं न किञ्चन ॥ ४०॥

    kiñcitkvacitkadācicca ātmānaṃ na spṛśatyasau ।
    tūṣṇīmeva sthitastūṣṇīṃ tūṣṇīṃ satyaṃ na kiñcana ॥ 40॥

    परमात्मा गुणातीतः सर्वात्मा भूतभावनः ।
    कालभेदं वस्तुभेदं देशभेदं स्वभेदकम् ॥ ४१॥

    paramātmā guṇātītaḥ sarvātmā bhūtabhāvanaḥ ।
    kālabhedaṃ vastubhedaṃ deśabhedaṃ svabhedakam ॥ 41॥

    किञ्चिद्भेदं न तस्यास्ति किञ्चिद्वापि न विद्यते ।
    अहं त्वं तदिदं सोऽयं कालात्मा कालहीनकः ॥ ४२॥

    kiñcidbhedaṃ na tasyāsti kiñcidvāpi na vidyate ।
    ahaṃ tvaṃ tadidaṃ so'yaṃ kālātmā kālahīnakaḥ ॥ 42॥

    शून्यात्मा सूक्ष्मरूपात्मा विश्वात्मा विश्वहीनकः ।
    देवात्मादेवहीनात्मा मेयात्मा मेयवर्जितः ॥ ४३॥

    śūnyātmā sūkṣmarūpātmā viśvātmā viśvahīnakaḥ ।
    devātmādevahīnātmā meyātmā meyavarjitaḥ ॥ 43॥

    सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः ।
    सर्वसङ्कल्पहीनात्मा चिन्मात्रोऽस्मीति सर्वदा ॥ ४४॥

    sarvatra jaḍahīnātmā sarveṣāmantarātmakaḥ ।
    sarvasaṅkalpahīnātmā cinmātro'smīti sarvadā ॥ 44॥

    केवलः परमात्माहं केवलो ज्ञानविग्रहः ।
    सत्तामात्रस्वरूपात्मा नान्यत्किञ्चिज्जगद्भयम् ॥ ४५॥

    kevalaḥ paramātmāhaṃ kevalo jñānavigrahaḥ ।
    sattāmātrasvarūpātmā nānyatkiñcijjagadbhayam ॥ 45॥

    जीवेश्वरेति वाक्क्वेति वेदशास्त्राद्यहं त्विति ।
    इदं चैतन्यमेवेति अहं चैतन्यमित्यपि ॥ ४६॥

    jīveśvareti vākkveti vedaśāstrādyahaṃ tviti ।
    idaṃ caitanyameveti ahaṃ caitanyamityapi ॥ 46॥

    इति निश्चयशून्यो यो वैदेही मुक्त एव सः ।
    चैतन्यमात्रसंसिद्धः स्वात्मारामः सुखासनः ॥ ४७॥

    iti niścayaśūnyo yo vaidehī mukta eva saḥ ।
    caitanyamātrasaṃsiddhaḥ svātmārāmaḥ sukhāsanaḥ ॥ 47॥

    अपरिच्छिन्नरूपात्मा अणुस्थूलादिवर्जितः ।
    तुर्यतुर्या परानन्दो वैदेही मुक्त एव सः ॥ ४८॥

    aparicchinnarūpātmā aṇusthūlādivarjitaḥ ।
    turyaturyā parānando vaidehī mukta eva saḥ ॥ 48॥

    नामरूपविहीनात्मा परसंवित्सुखात्मकः ।
    तुरीयातीतरूपात्मा शुभाशुभविवर्जितः ॥ ४९॥

    nāmarūpavihīnātmā parasaṃvitsukhātmakaḥ ।
    turīyātītarūpātmā śubhāśubhavivarjitaḥ ॥ 49॥

    योगात्मा योगयुक्तात्मा बन्धमोक्षविवर्जितः ।
    गुणागुणविहीनात्मा देशकालादिवर्जितः ॥ ५०॥

    yogātmā yogayuktātmā bandhamokṣavivarjitaḥ ।
    guṇāguṇavihīnātmā deśakālādivarjitaḥ ॥ 50॥

    साक्ष्यसाक्षित्वहीनात्मा किञ्चित्किञ्चिन्न किञ्चन ।
    यस्य प्रपञ्चमानं न ब्रह्माकारमपीह न ॥ ५१॥

    sākṣyasākṣitvahīnātmā kiñcitkiñcinna kiñcana ।
    yasya prapañcamānaṃ na brahmākāramapīha na ॥ 51॥

    स्वस्वरूपे स्वयञ्ज्योतिः स्वस्वरूपे स्वयंरतिः ।
    वाचामगोचरानन्दो वाङ्मनोगोचरः स्वयम् ॥ ५२॥

    svasvarūpe svayañjyotiḥ svasvarūpe svayaṃratiḥ ।
    vācāmagocarānando vāṅmanogocaraḥ svayam ॥ 52॥

    अतीतातीतभावो यो वैदेही मुक्त एव सः ।
    चित्तवृत्तेरतीतो यश्चित्तवृत्त्यवभासकः ॥ ५३॥

    atītātītabhāvo yo vaidehī mukta eva saḥ ।
    cittavṛtteratīto yaścittavṛttyavabhāsakaḥ ॥ 53॥

    सर्ववृत्तिविहीनात्मा वैदेही मुक्त एव सः ।
    तस्मिन्काले विदेहीति देहस्मरणवर्जितः ॥ ५४॥

    sarvavṛttivihīnātmā vaidehī mukta eva saḥ ।
    tasminkāle videhīti dehasmaraṇavarjitaḥ ॥ 54॥

    ईषन्मात्रं स्मृतं चेद्यस्तदा सर्वसमन्वितः ।
    परैरदृष्टबाह्यात्मा परमानन्दचिद्धनः ॥ ५५॥

    īṣanmātraṃ smṛtaṃ cedyastadā sarvasamanvitaḥ ।
    parairadṛṣṭabāhyātmā paramānandaciddhanaḥ ॥ 55॥

    परैरदृष्टबाह्यात्मा सर्ववेदान्तगोचरः ।
    ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनः ॥ ५६॥

    parairadṛṣṭabāhyātmā sarvavedāntagocaraḥ ।
    brahmāmṛtarasāsvādo brahmāmṛtarasāyanaḥ ॥ 56॥

    ब्रह्मामृतरसासक्तो ब्रह्मामृतरसः स्वयम् ।
    ब्रह्मामृतरसे मग्नो ब्रह्मानन्दशिवार्चनः ॥ ५७॥

    brahmāmṛtarasāsakto brahmāmṛtarasaḥ svayam ।
    brahmāmṛtarase magno brahmānandaśivārcanaḥ ॥ 57॥

    ब्रह्मामृतरसे तृप्तो ब्रह्मानन्दानुभावकः ।
    ब्रह्मानन्दशिवानन्दो ब्रह्मानन्दरसप्रभः ॥ ५८॥

    brahmāmṛtarase tṛpto brahmānandānubhāvakaḥ ।
    brahmānandaśivānando brahmānandarasaprabhaḥ ॥ 58॥

    ब्रह्मानन्दपरं ज्योतिर्ब्रह्मानन्दनिरन्तरः ।
    ब्रह्मानन्दरसान्नादो ब्रह्मानन्दकुटुम्बकः ॥ ५९॥

    brahmānandaparaṃ jyotirbrahmānandanirantaraḥ ।
    brahmānandarasānnādo brahmānandakuṭumbakaḥ ॥ 59॥

    ब्रह्मानन्दरसारूढो ब्रह्मानन्दैकचिद्धनः ।
    ब्रह्मानन्दरसोद्बाहो ब्रह्मानन्दरसम्भरः ॥ ६०॥

    brahmānandarasārūḍho brahmānandaikaciddhanaḥ ।
    brahmānandarasodbāho brahmānandarasambharaḥ ॥ 60॥

    ब्रह्मानन्दजनैर्युक्तो ब्रह्मानन्दात्मनि स्थितः ।
    आत्मरूपमिदं सर्वमात्मनोऽन्यन्न कञ्चन ॥ ६१॥

    brahmānandajanairyukto brahmānandātmani sthitaḥ ।
    ātmarūpamidaṃ sarvamātmano'nyanna kañcana ॥ 61॥

    सर्वमात्माहमात्मास्मि परमात्मा परात्मकः ।
    नित्यानन्द स्वरूपात्मा वैदेही मुक्त एव सः ॥ ६२॥

    sarvamātmāhamātmāsmi paramātmā parātmakaḥ ।
    nityānanda svarūpātmā vaidehī mukta eva saḥ ॥ 62॥

    पूर्णरूपो महानात्मा प्रीतात्मा शाश्वतात्मकः ।
    सर्वान्तर्यामिरूपात्मा निर्मलात्मा निरात्मकः ॥ ६३॥

    pūrṇarūpo mahānātmā prītātmā śāśvatātmakaḥ ।
    sarvāntaryāmirūpātmā nirmalātmā nirātmakaḥ ॥ 63॥

    निर्विकारस्वरूपात्मा शुद्धात्मा शान्तरूपकः ।
    शान्ताशान्तस्वरूपात्मा नैकात्मत्वविवर्जितः ॥ ६४॥

    nirvikārasvarūpātmā śuddhātmā śāntarūpakaḥ ।
    śāntāśāntasvarūpātmā naikātmatvavivarjitaḥ ॥ 64॥

    जीवात्मपरमात्मेति चिन्तासर्वस्ववर्जितः ।
    मुक्तामुक्तस्वरूपात्मा मुक्तामुक्तविवर्जितः ॥ ६५॥

    jīvātmaparamātmeti cintāsarvasvavarjitaḥ ।
    muktāmuktasvarūpātmā muktāmuktavivarjitaḥ ॥ 65॥

    बन्धमोक्षस्वरूपात्मा बन्धमोक्षविवर्जितः ।
    द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः ॥ ६६॥

    bandhamokṣasvarūpātmā bandhamokṣavivarjitaḥ ।
    dvaitādvaitasvarūpātmā dvaitādvaitavivarjitaḥ ॥ 66॥

    सर्वासर्वस्वरूपात्मा सर्वासर्वविवर्जितः ।
    मोदप्रमोदरूपात्मा मोदादिविनिवर्जितः ॥ ६७॥

    sarvāsarvasvarūpātmā sarvāsarvavivarjitaḥ ।
    modapramodarūpātmā modādivinivarjitaḥ ॥ 67॥

    सर्वसङ्कल्पहीनात्मा वैदेही मुक्त एव सः ।
    निष्कलात्मा निर्मलात्मा बुद्धात्मापुरुषात्मकः ॥ ६८॥

    sarvasaṅkalpahīnātmā vaidehī mukta eva saḥ ।
    niṣkalātmā nirmalātmā buddhātmāpuruṣātmakaḥ ॥ 68॥

    आनन्दादिविहीनात्मा अमृतात्मामृतात्मकः ।
    कालत्रयस्वरूपात्मा कालत्रयविवर्जितः ॥ ६९॥

    ānandādivihīnātmā amṛtātmāmṛtātmakaḥ ।
    kālatrayasvarūpātmā kālatrayavivarjitaḥ ॥ 69॥

    अखिलात्मा ह्यमेयात्मा मानात्मा मानवर्जितः ।
    नित्यप्रत्यक्षरूपात्मा नित्यप्रत्यक्षनिर्णयः ॥ ७०॥

    akhilātmā hyameyātmā mānātmā mānavarjitaḥ ।
    nityapratyakṣarūpātmā nityapratyakṣanirṇayaḥ ॥ 70॥

    अन्यहीनस्वभावात्मा अन्यहीनस्वयम्प्रभः ।
    विद्याविद्यादिमेयात्मा विद्याविद्यादिवर्जितः ॥ ७१॥

    anyahīnasvabhāvātmā anyahīnasvayamprabhaḥ ।
    vidyāvidyādimeyātmā vidyāvidyādivarjitaḥ ॥ 71॥

    नित्यानित्यविहीनात्मा इहामुत्रविवर्जितः ।
    शमादिषट्कशून्यात्मा मुमुक्षुत्वादिवर्जितः ॥ ७२॥

    nityānityavihīnātmā ihāmutravivarjitaḥ ।
    śamādiṣaṭkaśūnyātmā mumukṣutvādivarjitaḥ ॥ 72॥

    स्थूलदेहविहीनात्मा सूक्ष्मदेहविवर्जितः ।
    कारणादिविहीनात्मा तुरीयादिविवर्जितः ॥ ७३॥

    sthūladehavihīnātmā sūkṣmadehavivarjitaḥ ।
    kāraṇādivihīnātmā turīyādivivarjitaḥ ॥ 73॥

    अन्नकोशविहीनात्मा प्राणकोशविवर्जितः ।
    मनःकोशविहीनात्मा विज्ञानादिविवर्जितः ॥ ७४॥

    annakośavihīnātmā prāṇakośavivarjitaḥ ।
    manaḥkośavihīnātmā vijñānādivivarjitaḥ ॥ 74॥

    आनन्दकोशहीनात्मा पञ्चकोशविवर्जितः ।
    निर्विकल्पस्वरूपात्मा सविकल्पविवर्जितः ॥ ७५॥

    ānandakośahīnātmā pañcakośavivarjitaḥ ।
    nirvikalpasvarūpātmā savikalpavivarjitaḥ ॥ 75॥

    दृश्यानुविद्धहीनात्मा शब्दविद्धविवर्जितः ।
    सदा समाधिशून्यात्मा आदिमध्यान्तवर्जितः ॥ ७६॥

    dṛśyānuviddhahīnātmā śabdaviddhavivarjitaḥ ।
    sadā samādhiśūnyātmā ādimadhyāntavarjitaḥ ॥ 76॥

    प्रज्ञानवाक्यहीनात्मा अहम्ब्रह्मास्मिवर्जितः ।
    तत्त्वमस्यादिहीनात्मा अयमात्मेत्यभावकः ॥ ७७॥

    prajñānavākyahīnātmā ahambrahmāsmivarjitaḥ ।
    tattvamasyādihīnātmā ayamātmetyabhāvakaḥ ॥ 77॥

    ओङ्कारवाच्यहीनात्मा सर्ववाच्यविवर्जितः ।
    अवस्थात्रयहीनात्मा अक्षरात्मा चिदात्मकः ॥ ७८॥

    oṅkāravācyahīnātmā sarvavācyavivarjitaḥ ।
    avasthātrayahīnātmā akṣarātmā cidātmakaḥ ॥ 78॥

    आत्मज्ञेयादिहीनात्मा यत्किञ्चिदिदमात्मकः ।
    भानाभानविहीनात्मा वैदेही मुक्त एव सः ॥ ७९॥

    ātmajñeyādihīnātmā yatkiñcididamātmakaḥ ।
    bhānābhānavihīnātmā vaidehī mukta eva saḥ ॥ 79॥

    आत्मानमेव वीक्षस्व आत्मानं बोधय स्वकम् ।
    स्वमात्मानं स्वयं भुङ्क्ष्व स्वस्थो भव षडानन ॥ ८०॥

    ātmānameva vīkṣasva ātmānaṃ bodhaya svakam ।
    svamātmānaṃ svayaṃ bhuṅkṣva svastho bhava ṣaḍānana ॥ 80॥

    स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयं चर ।
    आत्मानमेव मोदस्व वैदेही मुक्तिको भवेत्युपनिषत् ॥

    svamātmani svayaṃ tṛptaḥ svamātmānaṃ svayaṃ cara ।
    ātmānameva modasva vaidehī muktiko bhavetyupaniṣat ॥

    इति चतुर्थोऽध्यायः ॥ ४॥

    iti caturtho'dhyāyaḥ ॥ 4॥

    निदाघो नाम वै मुनिः पप्रच्छ ऋभुं
    भगवन्तमात्मानात्मविवेकमनुब्रूहीति ।
    स होवाच ऋभुः ।
    सर्ववाचोऽवधिर्ब्रह्म सर्वचिन्तावधिर्गुरुः ।
    सर्वकारणकार्यात्मा कार्यकारणवर्जितः ॥ १॥

    nidāgho nāma vai muniḥ papraccha ṛbhuṃ
    bhagavantamātmānātmavivekamanubrūhīti ।
    sa hovāca ṛbhuḥ ।
    sarvavāco'vadhirbrahma sarvacintāvadhirguruḥ ।
    sarvakāraṇakāryātmā kāryakāraṇavarjitaḥ ॥ 1॥

    सर्वसङ्कल्परहितः सर्वनादमयः शिवः ।
    सर्ववर्जितचिन्मात्रः सर्वानन्दमयः परः ॥ २॥

    sarvasaṅkalparahitaḥ sarvanādamayaḥ śivaḥ ।
    sarvavarjitacinmātraḥ sarvānandamayaḥ paraḥ ॥ 2॥

    सर्वतेजःप्रकाशात्मा नादानन्दमयात्मकः ।
    सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः ॥ ३॥

    sarvatejaḥprakāśātmā nādānandamayātmakaḥ ।
    sarvānubhavanirmuktaḥ sarvadhyānavivarjitaḥ ॥ 3॥

    सर्वनादकलातीत एष आत्माहमव्ययः ।
    आत्मानात्मविवेकादिभेदाभेदविवर्जितः ॥ ४॥

    sarvanādakalātīta eṣa ātmāhamavyayaḥ ।
    ātmānātmavivekādibhedābhedavivarjitaḥ ॥ 4॥

    शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरूपकः ।
    महावाक्यार्थतो दूरो ब्रह्मास्मीत्यतिदूरतः ॥ ५॥

    śāntāśāntādihīnātmā nādāntarjyotirūpakaḥ ।
    mahāvākyārthato dūro brahmāsmītyatidūrataḥ ॥ 5॥

    तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः ।
    क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः ॥ ६॥

    tacchabdavarjyastvaṃśabdahīno vākyārthavarjitaḥ ।
    kṣarākṣaravihīno yo nādāntarjyotireva saḥ ॥ 6॥

    अखण्डैकरसो वाहमानन्दोऽस्मीति वर्जितः ।
    सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः ॥ ७॥

    akhaṇḍaikaraso vāhamānando'smīti varjitaḥ ।
    sarvātītasvabhāvātmā nādāntarjyotireva saḥ ॥ 7॥

    आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः ।
    सच्चिदानन्दहीनो य एषैवात्मा सनातनः ॥ ८॥

    ātmeti śabdahīno ya ātmaśabdārthavarjitaḥ ।
    saccidānandahīno ya eṣaivātmā sanātanaḥ ॥ 8॥

    स निर्देष्टुमशक्यो यो वेदवाक्यैरगम्यतः ।
    यस्य किञ्चिद्बहिर्नास्ति किञ्चिदन्तः कियन्न च ॥ ९॥

    sa nirdeṣṭumaśakyo yo vedavākyairagamyataḥ ।
    yasya kiñcidbahirnāsti kiñcidantaḥ kiyanna ca ॥ 9॥

    यस्य लिङ्गं प्रपञ्चं वा ब्रह्मैवात्मा न संशयः ।
    नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः ॥ १०॥

    yasya liṅgaṃ prapañcaṃ vā brahmaivātmā na saṃśayaḥ ।
    nāsti yasya śarīraṃ vā jīvo vā bhūtabhautikaḥ ॥ 10॥

    नामरूपादिकं नास्ति भोज्यं वा भोगभुक्च वा ।
    सद्वाऽसद्वा स्थितिर्वापि यस्य नास्ति क्षराक्षरम् ॥ ११॥

    nāmarūpādikaṃ nāsti bhojyaṃ vā bhogabhukca vā ।
    sadvā'sadvā sthitirvāpi yasya nāsti kṣarākṣaram ॥ 11॥

    गुणं वा विगुणं वापि सम आत्मा न संशयः ।
    यस्य वाच्यं वाचकं वा श्रवणं मननं च वा ॥ १२॥

    guṇaṃ vā viguṇaṃ vāpi sama ātmā na saṃśayaḥ ।
    yasya vācyaṃ vācakaṃ vā śravaṇaṃ mananaṃ ca vā ॥ 12॥

    गुरुशिष्यादिभेदं वा देवलोकाः सुरासुराः ।
    यत्र धर्ममधर्मं वा शुद्धं वाशुद्धमण्वपि ॥ १३॥

    guruśiṣyādibhedaṃ vā devalokāḥ surāsurāḥ ।
    yatra dharmamadharmaṃ vā śuddhaṃ vāśuddhamaṇvapi ॥ 13॥

    यत्र कालमकालं वा निश्चयः संशयो न हि ।
    यत्र मन्त्रममन्त्रं वा विद्याविद्ये न विद्यते ॥ १४॥

    yatra kālamakālaṃ vā niścayaḥ saṃśayo na hi ।
    yatra mantramamantraṃ vā vidyāvidye na vidyate ॥ 14॥

    द्रष्टृदर्शनदृश्यं वा ईषन्मात्रं कलात्मकम् ।
    अनात्मेति प्रसङ्गो वा ह्यनात्मेति मनोऽपि वा ॥ १५॥

    draṣṭṛdarśanadṛśyaṃ vā īṣanmātraṃ kalātmakam ।
    anātmeti prasaṅgo vā hyanātmeti mano'pi vā ॥ 15॥

    अनात्मेति जगद्वापि नास्ति नास्ति निश्चिनु ।
    सर्वसङ्कल्पशून्यत्वात्सर्वकार्यविवर्जनात् ॥ १६॥

    anātmeti jagadvāpi nāsti nāsti niścinu ।
    sarvasaṅkalpaśūnyatvātsarvakāryavivarjanāt ॥ 16॥

    केवलं ब्रह्ममात्रत्वान्नास्त्यनात्मेति निश्चिनु ।
    देहत्रयविहीनत्वात्कालत्रयविवर्जनात् ॥ १७॥

    kevalaṃ brahmamātratvānnāstyanātmeti niścinu ।
    dehatrayavihīnatvātkālatrayavivarjanāt ॥ 17॥

    जीवत्रयगुणाभावात्तापत्रयविवर्जनात् ।
    लोकत्रयविहीनत्वात्सर्वमात्मेति शासनात् ॥ १८॥

    jīvatrayaguṇābhāvāttāpatrayavivarjanāt ।
    lokatrayavihīnatvātsarvamātmeti śāsanāt ॥ 18॥

    चित्ताभाच्चिन्तनीयं देहाभावाज्जरा न च ।
    पादाभावाद्गतिर्नास्ति हस्ताभावात्क्रिया न च ॥ १९॥

    cittābhāccintanīyaṃ dehābhāvājjarā na ca ।
    pādābhāvādgatirnāsti hastābhāvātkriyā na ca ॥ 19॥

    मृत्युर्नास्ति जनाभावाद्बुद्ध्यभावात्सुखादिकम् ।
    धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च ॥ २०॥

    mṛtyurnāsti janābhāvādbuddhyabhāvātsukhādikam ।
    dharmo nāsti śucirnāsti satyaṃ nāsti bhayaṃ na ca ॥ 20॥

    अक्षरोच्चारणं नास्ति गुरुशिष्यादि नास्त्यपि ।
    एकाभावे द्वितीयं न न द्वितीये न चैकता ॥ २१॥

    akṣaroccāraṇaṃ nāsti guruśiṣyādi nāstyapi ।
    ekābhāve dvitīyaṃ na na dvitīye na caikatā ॥ 21॥

    सत्यत्वमस्ति चेत्किञ्चिदसत्यं न च सम्भवेत् ।
    असत्यत्वं यदि भवेत्सत्यत्वं न घटिष्यति ॥ २२॥

    satyatvamasti cetkiñcidasatyaṃ na ca sambhavet ।
    asatyatvaṃ yadi bhavetsatyatvaṃ na ghaṭiṣyati ॥ 22॥

    शुभं यद्यशुभं विद्धि अशुभाच्छुभमिष्यते ।
    भयं यद्यभवं विद्धि अभयाद्भयमापतेत् ॥ २३॥

    śubhaṃ yadyaśubhaṃ viddhi aśubhācchubhamiṣyate ।
    bhayaṃ yadyabhavaṃ viddhi abhayādbhayamāpatet ॥ 23॥

    बन्धत्वमपि चेन्मोक्षो बन्धाभावे क्व मोक्षता ।
    मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च ॥ २४॥

    bandhatvamapi cenmokṣo bandhābhāve kva mokṣatā ।
    maraṇaṃ yadi cejjanma janmābhāve mṛtirna ca ॥ 24॥

    त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न ।
    इदं यदि तदेवास्ति तदभादिदं न च ॥ २५॥

    tvamityapi bhaveccāhaṃ tvaṃ no cedahameva na ।
    idaṃ yadi tadevāsti tadabhādidaṃ na ca ॥ 25॥

    अस्तीति चेन्नास्ति तदा नास्ति चेदस्ति किञ्चन ।
    कार्यं चेत्कारणं किञ्चित्कार्याभावे न कारणम् ॥ २६॥

    astīti cennāsti tadā nāsti cedasti kiñcana ।
    kāryaṃ cetkāraṇaṃ kiñcitkāryābhāve na kāraṇam ॥ 26॥

    द्वैतं यदि तदाऽद्वैतं द्वैताभावे द्वयं न च ।
    दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेन न ॥ २७॥

    dvaitaṃ yadi tadā'dvaitaṃ dvaitābhāve dvayaṃ na ca ।
    dṛśyaṃ yadi dṛgapyasti dṛśyābhāve dṛgena na ॥ 27॥

    अन्तर्यदि बहिः सत्यमन्ता भावे बहिर्न च ।
    पूर्णत्वमस्ति चेत्किञ्चिदपूर्णत्वं प्रसज्यते ॥ २८॥

    antaryadi bahiḥ satyamantā bhāve bahirna ca ।
    pūrṇatvamasti cetkiñcidapūrṇatvaṃ prasajyate ॥ 28॥

    तस्मादेतत्क्वचिन्नास्ति त्वं चाहं वा इमे इदम् ।
    नास्ति दृष्टान्तिकं सत्ये नास्ति दार्ष्टान्तिकं ह्यजे ॥ २९॥

    tasmādetatkvacinnāsti tvaṃ cāhaṃ vā ime idam ।
    nāsti dṛṣṭāntikaṃ satye nāsti dārṣṭāntikaṃ hyaje ॥ 29॥

    परम्ब्रह्माहमस्मीति स्मरणस्य मनो न हि ।
    ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहम् ॥ ३०॥

    parambrahmāhamasmīti smaraṇasya mano na hi ।
    brahmamātraṃ jagadidaṃ brahmamātraṃ tvamapyaham ॥ 30॥

    चिन्मात्रं केवलं चाहं नास्त्यनात्म्येति निश्चिनु ।
    इदं प्रपञ्चं नास्त्येव नोत्पन्नं नो स्थितं क्वचित् ॥ ३१॥

    cinmātraṃ kevalaṃ cāhaṃ nāstyanātmyeti niścinu ।
    idaṃ prapañcaṃ nāstyeva notpannaṃ no sthitaṃ kvacit ॥ 31॥

    चित्तं प्रपञ्चमित्याहुर्नास्ति नास्त्येव सर्वदा ।
    न प्रपञ्चं न चित्तादि नाहङ्कारो न जीवकः ॥ ३२॥

    cittaṃ prapañcamityāhurnāsti nāstyeva sarvadā ।
    na prapañcaṃ na cittādi nāhaṅkāro na jīvakaḥ ॥ 32॥

    मायाकार्यादिकं नास्ति माया नास्ति भयं नहि ।
    कर्ता नास्ति क्रिया नास्ति श्रवणं मननं नहि ॥ ३३॥

    māyākāryādikaṃ nāsti māyā nāsti bhayaṃ nahi ।
    kartā nāsti kriyā nāsti śravaṇaṃ mananaṃ nahi ॥ 33॥

    समाधिद्वितयं नास्ति मातृमानादि नास्ति हि ।
    अज्ञानं चापि नास्त्येव ह्यविवेकं कदाचन ॥ ३४॥

    samādhidvitayaṃ nāsti mātṛmānādi nāsti hi ।
    ajñānaṃ cāpi nāstyeva hyavivekaṃ kadācana ॥ 34॥

    अनुबन्धचतुष्कं न सम्बन्धत्रयमेव न ।
    न गङ्गा न गया सेतुर्न भूतं नान्यदस्ति हि ॥ ३५॥

    anubandhacatuṣkaṃ na sambandhatrayameva na ।
    na gaṅgā na gayā seturna bhūtaṃ nānyadasti hi ॥ 35॥

    न भूमिर्न जलं नाग्निर्न न वायुर्न च खं क्वचित् ।
    न देवा न च दिक्पाला न वेदा न गुरुः क्वचित् ॥ ३६॥

    na bhūmirna jalaṃ nāgnirna na vāyurna ca khaṃ kvacit ।
    na devā na ca dikpālā na vedā na guruḥ kvacit ॥ 36॥

    न दूरं नास्तिकं नालं न मध्यं न क्वचित्स्थितम् ।
    नाद्वैतं द्वैतसत्यं वा ह्यसत्यं वा इदं न च ॥ ३७॥

    na dūraṃ nāstikaṃ nālaṃ na madhyaṃ na kvacitsthitam ।
    nādvaitaṃ dvaitasatyaṃ vā hyasatyaṃ vā idaṃ na ca ॥ 37॥

    बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा सुखादि वा ।
    जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् ॥ ३८॥

    bandhamokṣādikaṃ nāsti sadvā'sadvā sukhādi vā ।
    jātirnāsti gatirnāsti varṇo nāsti na laukikam ॥ 38॥

    सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्यपि नास्ति हि ।
    चिदित्येवेति नास्त्येव चिदहम्भाषणं न हि ॥ ३९॥

    sarvaṃ brahmeti nāstyeva brahma ityapi nāsti hi ।
    cidityeveti nāstyeva cidahambhāṣaṇaṃ na hi ॥ 39॥

    अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोऽस्मि न क्वचित् ।
    वाचा यदुच्यते किञ्चिन्मनसा मनुते क्वचित् ॥ ४०॥

    ahaṃ brahmāsmi nāstyeva nityaśuddho'smi na kvacit ।
    vācā yaducyate kiñcinmanasā manute kvacit ॥ 40॥

    बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते नहि ।
    योगी योगादिकं नास्ति सदा सर्वं सदा न च ॥ ४१॥

    buddhyā niścinute nāsti cittena jñāyate nahi ।
    yogī yogādikaṃ nāsti sadā sarvaṃ sadā na ca ॥ 41॥

    अहोरात्रादिकं नास्ति स्नानध्यानादिकं नहि ।
    भ्रान्तिरभ्रान्तिर्नास्त्येव नास्त्यनात्मेति निश्चिनु ॥ ४२॥

    ahorātrādikaṃ nāsti snānadhyānādikaṃ nahi ।
    bhrāntirabhrāntirnāstyeva nāstyanātmeti niścinu ॥ 42॥

    वेदशास्त्रं पुराणं च कार्यं कारणमीश्वरः ।
    लोको भूतं जनस्त्वैक्यं सर्वं मिथ्या न संशयः ॥ ४३॥

    vedaśāstraṃ purāṇaṃ ca kāryaṃ kāraṇamīśvaraḥ ।
    loko bhūtaṃ janastvaikyaṃ sarvaṃ mithyā na saṃśayaḥ ॥ 43॥

    बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः ।
    गौणं मुख्यं परं चान्यत्सर्वं मिथ्या न संशयः ॥ ४४॥

    bandho mokṣaḥ sukhaṃ duḥkhaṃ dhyānaṃ cittaṃ surāsurāḥ ।
    gauṇaṃ mukhyaṃ paraṃ cānyatsarvaṃ mithyā na saṃśayaḥ ॥ 44॥

    वाचा वदति यत्किञ्चित्सङ्कल्पैः कल्प्यते च यत् ।
    मनसा चिन्त्यते यद्यत्सर्वं मिथ्या न संशयः ॥ ४५॥

    vācā vadati yatkiñcitsaṅkalpaiḥ kalpyate ca yat ।
    manasā cintyate yadyatsarvaṃ mithyā na saṃśayaḥ ॥ 45॥

    बुद्ध्या निश्चीयते किञ्चिच्चित्ते निश्चीयते क्वचित् ।
    शास्त्रैः प्रपञ्च्यते यद्यन्नेत्रेणैव निरीक्ष्यते ॥ ४६॥

    buddhyā niścīyate kiñciccitte niścīyate kvacit ।
    śāstraiḥ prapañcyate yadyannetreṇaiva nirīkṣyate ॥ 46॥

    श्रोत्राभ्यां श्रूयते यद्यदन्यत्सद्भावमेव च ।
    नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चितम् ॥ ४७॥

    śrotrābhyāṃ śrūyate yadyadanyatsadbhāvameva ca ।
    netraṃ śrotraṃ gātrameva mithyeti ca suniścitam ॥ 47॥

    इदमित्येव निर्दिष्टमयमित्येव कल्प्यते ।
    त्वमहं तदिदं सोऽहमन्यत्सद्भावमेव च ॥ ४८॥

    idamityeva nirdiṣṭamayamityeva kalpyate ।
    tvamahaṃ tadidaṃ so'hamanyatsadbhāvameva ca ॥ 48॥

    यद्यत्सम्भाव्यते लोके सर्वसङ्कल्पसम्भ्रमः ।
    सर्वाध्यासं सर्वगोप्यं सर्वभोगप्रभेदकम् ॥ ४९॥

    yadyatsambhāvyate loke sarvasaṅkalpasambhramaḥ ।
    sarvādhyāsaṃ sarvagopyaṃ sarvabhogaprabhedakam ॥ 49॥

    सर्वदोषप्रभेदाच्च नास्त्यनात्मेति निश्चिनु ।
    मदीयं च त्वदीयं च ममेति च तवेति च ॥ ५०॥

    sarvadoṣaprabhedācca nāstyanātmeti niścinu ।
    madīyaṃ ca tvadīyaṃ ca mameti ca taveti ca ॥ 50॥

    मह्यं तुभ्यं मयेत्यादि तत्सर्वं वितथं भवेत् ।
    रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम् ॥ ५१॥

    mahyaṃ tubhyaṃ mayetyādi tatsarvaṃ vitathaṃ bhavet ।
    rakṣako viṣṇurityādi brahmā sṛṣṭestu kāraṇam ॥ 51॥

    संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु ।
    स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् ॥ ५२॥

    saṃhāre rudra ityevaṃ sarvaṃ mithyeti niścinu ।
    snānaṃ japastapo homaḥ svādhyāyo devapūjanam ॥ 52॥

    मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृम्भणम् ।
    अन्तःकरणसद्भाव अविद्याश्च सम्भवः ॥ ५३॥

    mantraṃ tantraṃ ca satsaṅgo guṇadoṣavijṛmbhaṇam ।
    antaḥkaraṇasadbhāva avidyāśca sambhavaḥ ॥ 53॥

    अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु ।
    सर्वदेशिकवाक्योक्तिर्येन केनापि निश्चितम् ॥ ५४॥

    anekakoṭibrahmāṇḍaṃ sarvaṃ mithyeti niścinu ।
    sarvadeśikavākyoktiryena kenāpi niścitam ॥ 54॥

    दृश्यते जगति यद्यद्यद्यज्जगति वीक्ष्यते ।
    वर्तते जगति यद्यत्सर्वं मिथ्येति निश्चिनु ॥ ५५॥

    dṛśyate jagati yadyadyadyajjagati vīkṣyate ।
    vartate jagati yadyatsarvaṃ mithyeti niścinu ॥ 55॥

    येन केनाक्षरेणोक्तं येन केन विनिश्चितम् ।
    येन केनापि गदितं येन केनापि मोदितम् ॥ ५६॥

    yena kenākṣareṇoktaṃ yena kena viniścitam ।
    yena kenāpi gaditaṃ yena kenāpi moditam ॥ 56॥

    येन केनापि यद्दत्तं येन केनापि यत्कृतम् ।
    यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् ॥ ५७॥

    yena kenāpi yaddattaṃ yena kenāpi yatkṛtam ।
    yatra yatra śubhaṃ karma yatra yatra ca duṣkṛtam ॥ 57॥

    यद्यत्करोषि सत्येन सर्वं मिथ्येति निश्चिनु ।
    त्वमेव परमात्मासि त्वमेव परमो गुरुः ॥ ५८॥

    yadyatkaroṣi satyena sarvaṃ mithyeti niścinu ।
    tvameva paramātmāsi tvameva paramo guruḥ ॥ 58॥

    त्वमेवाकाशरूपोऽसि साक्षिहीनोऽसि सर्वदा ।
    त्वमेव सर्वभावोऽसि त्वं ब्रह्मासि न संशयः ॥ ५९॥

    tvamevākāśarūpo'si sākṣihīno'si sarvadā ।
    tvameva sarvabhāvo'si tvaṃ brahmāsi na saṃśayaḥ ॥ 59॥

    कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्घनः ।
    सर्वतः स्वस्वरूपोऽसि चैतन्यघनवानसि ॥ ६०॥

    kālahīno'si kālo'si sadā brahmāsi cidghanaḥ ।
    sarvataḥ svasvarūpo'si caitanyaghanavānasi ॥ 60॥

    सत्योऽसि सिद्धोऽसि सनातनोऽसि
    मुक्तोऽसि मोक्षोऽसि मुदामृतोऽसि ।
    देवोऽसि शान्तोऽसि निरामयोऽसि
    ब्रह्मासि पूर्णोऽसि परात्परोऽसि ॥ ६१॥

    satyo'si siddho'si sanātano'si
    mukto'si mokṣo'si mudāmṛto'si ।
    devo'si śānto'si nirāmayo'si
    brahmāsi pūrṇo'si parātparo'si ॥ 61॥

    समोऽसि सच्चापि सनातनोऽसि
    सत्यादिवाक्यैः प्रतिबोधितोऽसि ।
    सर्वाङ्गहीनोऽसि सदा स्थितोऽसि
    ब्रह्मेन्द्ररुद्रादिविभावितोऽसि ॥ ६२॥

    samo'si saccāpi sanātano'si
    satyādivākyaiḥ pratibodhito'si ।
    sarvāṅgahīno'si sadā sthito'si
    brahmendrarudrādivibhāvito'si ॥ 62॥

    सर्वप्रपञ्चभ्रमवर्जितोऽसि
    सर्वेषु भूतेषु च भासितोऽसि ।
    सर्वत्र सङ्कल्पविवर्जितोऽसि
    सर्वागमान्तार्थविभावितोऽसि ॥ ६३॥

    sarvaprapañcabhramavarjito'si
    sarveṣu bhūteṣu ca bhāsito'si ।
    sarvatra saṅkalpavivarjito'si
    sarvāgamāntārthavibhāvito'si ॥ 63॥

    सर्वत्र सन्तोषसुखासनोऽसि
    सर्वत्र गत्यादिविवर्जितोऽसि ।
    सर्वत्र लक्ष्यादिविवर्जितोऽसि
    ध्यातोऽसि विष्ण्वादिसुरैरजस्रम् ॥ ६४॥

    sarvatra santoṣasukhāsano'si
    sarvatra gatyādivivarjito'si ।
    sarvatra lakṣyādivivarjito'si
    dhyāto'si viṣṇvādisurairajasram ॥ 64॥

    चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः ।
    आत्मन्येव स्थितोऽसि त्वं सर्वशून्योऽसि निर्गुणः ॥ ६५॥

    cidākārasvarūpo'si cinmātro'si niraṅkuśaḥ ।
    ātmanyeva sthito'si tvaṃ sarvaśūnyo'si nirguṇaḥ ॥ 65॥

    आनन्दोऽसि परोऽसि त्वमेक एवाद्वितीयकः ।
    चिद्घनानन्दरूपोऽसि परिपूर्णस्वरूपकः ॥ ६६॥

    ānando'si paro'si tvameka evādvitīyakaḥ ।
    cidghanānandarūpo'si paripūrṇasvarūpakaḥ ॥ 66॥

    सदसि त्वमसि ज्ञोऽसि सोऽसि जानासि वीक्षसि ।
    सच्चिदानन्दरूपोऽसि वासुदेवोऽसि वै प्रभुः ॥ ६७॥

    sadasi tvamasi jño'si so'si jānāsi vīkṣasi ।
    saccidānandarūpo'si vāsudevo'si vai prabhuḥ ॥ 67॥

    अमृतोऽसि विभुश्चासि चञ्चलो ह्यचलो ह्यसि ।
    सर्वोऽसि सर्वहीनोऽसि शान्ताशान्तविवर्जितः ॥ ६८॥

    amṛto'si vibhuścāsi cañcalo hyacalo hyasi ।
    sarvo'si sarvahīno'si śāntāśāntavivarjitaḥ ॥ 68॥

    सत्तामात्रप्रकाशोऽसि सत्तासामान्यको ह्यसि ।
    नित्यसिद्धिस्वरूपोऽसि सर्वसिद्धिविवर्जितः ॥ ६९॥

    sattāmātraprakāśo'si sattāsāmānyako hyasi ।
    nityasiddhisvarūpo'si sarvasiddhivivarjitaḥ ॥ 69॥

    ईषन्मात्रविशून्योऽसि अणुमात्रविवर्जितः ।
    अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः ॥ ७०॥

    īṣanmātraviśūnyo'si aṇumātravivarjitaḥ ।
    astitvavarjito'si tvaṃ nāstitvādivivarjitaḥ ॥ 70॥

    लक्ष्यलक्षणहीनोऽसि निर्विकारो निरामयः ।
    सर्वनादान्तरोऽसि त्वं कलाकाष्ठाविवर्जितः ॥ ७१॥

    lakṣyalakṣaṇahīno'si nirvikāro nirāmayaḥ ।
    sarvanādāntaro'si tvaṃ kalākāṣṭhāvivarjitaḥ ॥ 71॥

    ब्रह्मविष्ण्वीशहीनोऽसि स्वस्वरूपं प्रपश्यसि ।
    स्वस्वरूपावशेषोऽसि स्वानन्दाब्धौ निमज्जसि ॥ ७२॥

    brahmaviṣṇvīśahīno'si svasvarūpaṃ prapaśyasi ।
    svasvarūpāvaśeṣo'si svānandābdhau nimajjasi ॥ 72॥

    स्वात्मराज्ये स्वमेवासि स्वयम्भावविवर्जितः ।
    शिष्टपूर्णस्वरूपोऽसि स्वस्मात्किञ्चिन्न पश्यसि ॥ ७३॥

    svātmarājye svamevāsi svayambhāvavivarjitaḥ ।
    śiṣṭapūrṇasvarūpo'si svasmātkiñcinna paśyasi ॥ 73॥

    स्वस्वरूपान्न चलसि स्वस्वरूपेण जृम्भसि ।
    स्वस्वरूपादनन्योऽसि ह्यहमेवासि निश्चिनु ॥ ७४॥

    svasvarūpānna calasi svasvarūpeṇa jṛmbhasi ।
    svasvarūpādananyo'si hyahamevāsi niścinu ॥ 74॥

    इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति विद्यते ।
    दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ ७५॥

    idaṃ prapañcaṃ yatkiñcidyadyajjagati vidyate ।
    dṛśyarūpaṃ ca dṛgrūpaṃ sarvaṃ śaśaviṣāṇavat ॥ 75॥

    भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
    अहङ्कारश्च तेजश्च लोकं भुवनमण्डलम् ॥ ७६॥

    bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca ।
    ahaṅkāraśca tejaśca lokaṃ bhuvanamaṇḍalam ॥ 76॥

    नाशो जन्म च सत्यं च पुण्यपापजयादिकम् ।
    रागः कामः क्रोधलोभौ ध्यानं ध्येयं गुणं परम् ॥ ७७॥

    nāśo janma ca satyaṃ ca puṇyapāpajayādikam ।
    rāgaḥ kāmaḥ krodhalobhau dhyānaṃ dhyeyaṃ guṇaṃ param ॥ 77॥

    गुरुशिष्योपदेशादिरादिरन्तं शमं शुभम् ।
    भूतं भव्यं वर्तमानं लक्ष्यं लक्षणमद्वयम् ॥ ७८॥

    guruśiṣyopadeśādirādirantaṃ śamaṃ śubham ।
    bhūtaṃ bhavyaṃ vartamānaṃ lakṣyaṃ lakṣaṇamadvayam ॥ 78॥

    शमो विचारः सन्तोषो भोक्तृभोज्यादिरूपकम् ।
    यमाद्यष्टाङ्गयोगं च गमनागमनात्मकम् ॥ ७९॥

    śamo vicāraḥ santoṣo bhoktṛbhojyādirūpakam ।
    yamādyaṣṭāṅgayogaṃ ca gamanāgamanātmakam ॥ 79॥

    आदिमध्यान्तरङ्गं च ग्राह्यं त्याज्यं हरिः शिवः ।
    इन्द्रियाणि मनश्चैव अवस्थात्रितयं तथा ॥ ८०॥

    ādimadhyāntaraṅgaṃ ca grāhyaṃ tyājyaṃ hariḥ śivaḥ ।
    indriyāṇi manaścaiva avasthātritayaṃ tathā ॥ 80॥

    चतुर्विंशतितत्त्वं च साधनानां चतुष्टयम् ।
    सजातीयं विजातीयं लोका भूरादयः क्रमात् ॥ ८१॥

    caturviṃśatitattvaṃ ca sādhanānāṃ catuṣṭayam ।
    sajātīyaṃ vijātīyaṃ lokā bhūrādayaḥ kramāt ॥ 81॥

    सर्ववर्णाश्रमाचारं मन्त्रतन्त्रादिसङ्ग्रहम् ।
    विद्याविद्यादिरूपं च सर्ववेदं जडाजडम् ॥ ८२॥

    sarvavarṇāśramācāraṃ mantratantrādisaṅgraham ।
    vidyāvidyādirūpaṃ ca sarvavedaṃ jaḍājaḍam ॥ 82॥

    बन्धमोक्षविभागं च ज्ञानविज्ञानरूपकम् ।
    बोधाबोधस्वरूपं वा द्वैताद्वैतादिभाषणम् ॥ ८३॥

    bandhamokṣavibhāgaṃ ca jñānavijñānarūpakam ।
    bodhābodhasvarūpaṃ vā dvaitādvaitādibhāṣaṇam ॥ 83॥

    सर्ववेदान्तसिद्धान्तं सर्वशास्त्रार्थनिर्णयम् ।
    अनेकजीवसद्भावमेकजीवादिनिर्णयम् ॥ ८४॥

    sarvavedāntasiddhāntaṃ sarvaśāstrārthanirṇayam ।
    anekajīvasadbhāvamekajīvādinirṇayam ॥ 84॥

    यद्यद्ध्यायति चित्तेन यद्यत्सङ्कल्पते क्वचित् ।
    बुद्ध्या निश्चीयते यद्यद्गुरुणा संशृणोति यत् ॥ ८५॥

    yadyaddhyāyati cittena yadyatsaṅkalpate kvacit ।
    buddhyā niścīyate yadyadguruṇā saṃśṛṇoti yat ॥ 85॥

    यद्यद्वाचा व्याकरोति यद्यदाचार्यभाषणम् ।
    यद्यत्स्वरेन्द्रियैर्भाव्यं यद्यन्मीमांसते पृथक् ॥ ८६॥

    yadyadvācā vyākaroti yadyadācāryabhāṣaṇam ।
    yadyatsvarendriyairbhāvyaṃ yadyanmīmāṃsate pṛthak ॥ 86॥

    यद्यन्न्यायेन निर्णीतं महद्भिर्वेदपारगैः ।
    शिवः क्षरति लोकान्वै विष्णुः पाति जगत्त्रयम् ॥ ८७॥

    yadyannyāyena nirṇītaṃ mahadbhirvedapāragaiḥ ।
    śivaḥ kṣarati lokānvai viṣṇuḥ pāti jagattrayam ॥ 87॥

    ब्रह्मा सृजति लोकान्वै एवमादिक्रियादिकम् ।
    यद्यदस्ति पुराणेषु यद्यद्वेदेषु निर्णयम् ॥ ८८॥

    brahmā sṛjati lokānvai evamādikriyādikam ।
    yadyadasti purāṇeṣu yadyadvedeṣu nirṇayam ॥ 88॥

    सर्वोपनिषदां भावं सर्वं शशविषाणवत् ।
    देहोऽहमिति सङ्कल्पं तदन्तःकरणं स्मृतम् ॥ ८९॥

    sarvopaniṣadāṃ bhāvaṃ sarvaṃ śaśaviṣāṇavat ।
    deho'hamiti saṅkalpaṃ tadantaḥkaraṇaṃ smṛtam ॥ 89॥

    देहोऽहमिति सङ्कल्पो महत्संसार उच्यते ।
    देहोऽहमिति सङ्कल्पस्तद्बन्धमिति चोच्यते ॥ ९०॥

    deho'hamiti saṅkalpo mahatsaṃsāra ucyate ।
    deho'hamiti saṅkalpastadbandhamiti cocyate ॥ 90॥

    देहोऽहमिति सङ्कल्पस्तद्दुःखमिति चोच्यते ।
    देहोऽहमिति यद्भानं तदेव नरकं स्मृतम् ॥ ९१॥

    deho'hamiti saṅkalpastadduḥkhamiti cocyate ।
    deho'hamiti yadbhānaṃ tadeva narakaṃ smṛtam ॥ 91॥

    देहोऽहमिति सङ्कल्पो जगत्सर्वमितीर्यते ।
    देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितिः ॥ ९२॥

    deho'hamiti saṅkalpo jagatsarvamitīryate ।
    deho'hamiti saṅkalpo hṛdayagranthirīritiḥ ॥ 92॥

    देहोऽहमिति यज्ज्ञानं तदेवाज्ञानमुच्यते ।
    देहोऽहमिति यज्ज्ञानं तदसद्भावमेव च ॥ ९३॥

    deho'hamiti yajjñānaṃ tadevājñānamucyate ।
    deho'hamiti yajjñānaṃ tadasadbhāvameva ca ॥ 93॥

    देहोऽहमिति या बुद्धिः सा चाविद्येति भण्यते ।
    देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते ॥ ९४॥

    deho'hamiti yā buddhiḥ sā cāvidyeti bhaṇyate ।
    deho'hamiti yajjñānaṃ tadeva dvaitamucyate ॥ 94॥

    देहोऽहमिति सङ्कल्पः सत्यजीवः स एव हि ।
    देहोऽहमिति यज्ज्ञानं परिच्छिन्नमितीरितम् ॥ ९५॥

    deho'hamiti saṅkalpaḥ satyajīvaḥ sa eva hi ।
    deho'hamiti yajjñānaṃ paricchinnamitīritam ॥ 95॥

    देहोऽहमिति सङ्कल्पो महापापमिति स्फुटम् ।
    देहोऽहमिति या बुद्धिस्तृष्णा दोषामयः किल ॥ ९६॥

    deho'hamiti saṅkalpo mahāpāpamiti sphuṭam ।
    deho'hamiti yā buddhistṛṣṇā doṣāmayaḥ kila ॥ 96॥

    यत्किञ्चिदपि सङ्कल्पस्तापत्रयमितीरितम् ।
    कामं क्रोधं बन्धनं सर्वदुःखं
    विश्वं दोषं कालनानास्वरूपम् ।
    यत्किञ्चेदं सर्वसङ्कल्पजालं
    तत्किञ्चेदं मानसं सोम विद्धि ॥ ९७॥

    yatkiñcidapi saṅkalpastāpatrayamitīritam ।
    kāmaṃ krodhaṃ bandhanaṃ sarvaduḥkhaṃ
    viśvaṃ doṣaṃ kālanānāsvarūpam ।
    yatkiñcedaṃ sarvasaṅkalpajālaṃ
    tatkiñcedaṃ mānasaṃ soma viddhi ॥ 97॥

    मन एव जगत्सर्वं मन एव महारिपुः ।
    मन एव हि संसारो मन एव जगत्त्रयम् ॥ ९८॥

    mana eva jagatsarvaṃ mana eva mahāripuḥ ।
    mana eva hi saṃsāro mana eva jagattrayam ॥ 98॥

    मन एव महद्दुःखं मन एव जरादिकम् ।
    मन एव हि कालश्च मन एव मलं तथा ॥ ९९॥

    mana eva mahadduḥkhaṃ mana eva jarādikam ।
    mana eva hi kālaśca mana eva malaṃ tathā ॥ 99॥

    मन एव हि सङ्कल्पो मन एव हि जीवकः ।
    मन एव हि चित्तं च मनोऽहङ्कार एव च ॥ १००॥

    mana eva hi saṅkalpo mana eva hi jīvakaḥ ।
    mana eva hi cittaṃ ca mano'haṅkāra eva ca ॥ 100॥

    मन एव महद्बन्धं मनोऽन्तःकरणं च तत् ।
    मन एव हि भूमिश्च मन एव हि तोयकम् ॥ १०१॥

    mana eva mahadbandhaṃ mano'ntaḥkaraṇaṃ ca tat ।
    mana eva hi bhūmiśca mana eva hi toyakam ॥ 101॥

    मन एव हि तेजश्च मन एव मरुन्महान् ।
    मन एव हि चाकाशं मन एव हि शब्दकम् ॥ १०२॥

    mana eva hi tejaśca mana eva marunmahān ।
    mana eva hi cākāśaṃ mana eva hi śabdakam ॥ 102॥

    स्पर्शं रूपं रसं गन्धं कोशाः पञ्च मनोभवाः ।
    जाग्रत्स्वप्नसुषुप्त्यादि मनोमयरितीरितम् ॥ १०३॥

    sparśaṃ rūpaṃ rasaṃ gandhaṃ kośāḥ pañca manobhavāḥ ।
    jāgratsvapnasuṣuptyādi manomayaritīritam ॥ 103॥

    दिक्पाला वसवो रुद्रा आदित्याश्च मनोमयाः ।
    दृश्यं जडं द्वन्द्वजातमज्ञानं मानसं स्मृतम् ॥ १०४॥

    dikpālā vasavo rudrā ādityāśca manomayāḥ ।
    dṛśyaṃ jaḍaṃ dvandvajātamajñānaṃ mānasaṃ smṛtam ॥ 104॥

    सङ्कल्पमेव यत्किञ्चित्तत्तन्नास्तीति निश्चिनु ।
    नास्ति नास्ति जगत्सर्वं गुरुशिष्यादिकं नहीत्युपनिषत् ॥ १०५॥

    saṅkalpameva yatkiñcittattannāstīti niścinu ।
    nāsti nāsti jagatsarvaṃ guruśiṣyādikaṃ nahītyupaniṣat ॥ 105॥

    इति पञ्चमोऽध्यायः ॥ ५॥

    iti pañcamo'dhyāyaḥ ॥ 5॥

    ऋभुः ॥ सर्वं सच्चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम् ।
    सच्चिदानन्दमद्वैतं सच्चिदानन्दमद्वयम् ॥ १॥

    ṛbhuḥ ॥ sarvaṃ saccinmayaṃ viddhi sarvaṃ saccinmayaṃ tatam ।
    saccidānandamadvaitaṃ saccidānandamadvayam ॥ 1॥

    सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् ।
    सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम् ॥ २॥

    saccidānandamātraṃ hi saccidānandamanyakam ।
    saccidānandarūpo'haṃ saccidānandameva kham ॥ 2॥

    सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहम् ।
    मनोबुद्धिरहङ्कारचित्तसङ्घातका अमी ॥ ३॥

    saccidānandameva tvaṃ saccidānandako'smyaham ।
    manobuddhirahaṅkāracittasaṅghātakā amī ॥ 3॥

    न त्वं नाहं न चान्यद्वा सर्वं ब्रह्मैव केवलम् ।
    न वाक्यं न पदं वेदं नाक्षरं न जडं क्वचित् ॥ ४॥

    na tvaṃ nāhaṃ na cānyadvā sarvaṃ brahmaiva kevalam ।
    na vākyaṃ na padaṃ vedaṃ nākṣaraṃ na jaḍaṃ kvacit ॥ 4॥

    न मध्यं नादि नान्तं वा न सत्यं न निबन्धजम् ।
    न दुःखं न सुखं भावं न माया प्रकृतिस्तथा ॥ ५॥

    na madhyaṃ nādi nāntaṃ vā na satyaṃ na nibandhajam ।
    na duḥkhaṃ na sukhaṃ bhāvaṃ na māyā prakṛtistathā ॥ 5॥

    न देहं न मुखं घ्राणं न जिह्वा न च तालुनी ।
    न दन्तोष्ठौ ललाटं च निश्वासोच्छ्वास एव च ॥ ६॥

    na dehaṃ na mukhaṃ ghrāṇaṃ na jihvā na ca tālunī ।
    na dantoṣṭhau lalāṭaṃ ca niśvāsocchvāsa eva ca ॥ 6॥

    न स्वेदमस्थि मांसं च न रक्तं न च मूत्रकम् ।
    न दूरं नान्तिकं नाङ्गं नोदरं न किरीटकम् ॥ ७॥

    na svedamasthi māṃsaṃ ca na raktaṃ na ca mūtrakam ।
    na dūraṃ nāntikaṃ nāṅgaṃ nodaraṃ na kirīṭakam ॥ 7॥

    न हस्तपादचलनं न शास्त्रं न च शासनम् ।
    न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः ॥ ८॥

    na hastapādacalanaṃ na śāstraṃ na ca śāsanam ।
    na vettā vedanaṃ vedyaṃ na jāgratsvapnasuptayaḥ ॥ 8॥

    तुर्यातीतं न मे किञ्चित्सर्वं सच्चिन्मयं ततम् ।
    नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम् ॥ ९॥

    turyātītaṃ na me kiñcitsarvaṃ saccinmayaṃ tatam ।
    nādhyātmikaṃ nādhibhūtaṃ nādhidaivaṃ na māyikam ॥ 9॥

    न विश्वतैजसः प्राज्ञो विराट्सूत्रात्मकेश्वरः ।
    न गमागमचेष्टा च न नष्टं न प्रयोजनम् ॥ १०॥

    na viśvataijasaḥ prājño virāṭsūtrātmakeśvaraḥ ।
    na gamāgamaceṣṭā ca na naṣṭaṃ na prayojanam ॥ 10॥

    त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यामेध्यकं तथा ।
    न पीनं न कृशं क्लेदं न कालं देशभाषणम् ॥ ११॥

    tyājyaṃ grāhyaṃ na dūṣyaṃ vā hyamedhyāmedhyakaṃ tathā ।
    na pīnaṃ na kṛśaṃ kledaṃ na kālaṃ deśabhāṣaṇam ॥ 11॥

    न सर्वं न भयं द्वैतं न वृक्षतृणपर्वताः ।
    न ध्यानं योगसंसिद्धिर्न ब्रह्मवैश्यक्षत्रकम् ॥ १२॥

    na sarvaṃ na bhayaṃ dvaitaṃ na vṛkṣatṛṇaparvatāḥ ।
    na dhyānaṃ yogasaṃsiddhirna brahmavaiśyakṣatrakam ॥ 12॥

    न पक्षी न मृगो नाङ्गी न लोभो मोह एव च ।
    न मदो न च मात्सर्यं कामक्रोधादयस्तथा ॥ १३॥

    na pakṣī na mṛgo nāṅgī na lobho moha eva ca ।
    na mado na ca mātsaryaṃ kāmakrodhādayastathā ॥ 13॥

    न स्त्रीशूद्रबिडालादि भक्ष्यभोज्यादिकं च यत् ।
    न प्रौढहीनो नास्तिक्यं न वार्तावसरोऽति हि ॥ १४॥

    na strīśūdrabiḍālādi bhakṣyabhojyādikaṃ ca yat ।
    na prauḍhahīno nāstikyaṃ na vārtāvasaro'ti hi ॥ 14॥

    न लौकिको न लोको वा न व्यापारो न मूढता ।
    न भोक्ता भोजनं भोज्यं न पात्रं पानपेयकम् ॥ १५॥

    na laukiko na loko vā na vyāpāro na mūḍhatā ।
    na bhoktā bhojanaṃ bhojyaṃ na pātraṃ pānapeyakam ॥ 15॥

    न शत्रुमित्रपुत्रादिर्न माता न पिता स्वसा ।
    न जन्म न मृतिर्वृद्धिर्न देहोऽहमिति भ्रमः ॥ १६॥

    na śatrumitraputrādirna mātā na pitā svasā ।
    na janma na mṛtirvṛddhirna deho'hamiti bhramaḥ ॥ 16॥

    न शून्यं नापि चाशून्यं नान्तःकरणसंसृतिः ।
    न रात्रिर्न दिवा नक्तं न ब्रह्मा न हरिः शिवः ॥ १७॥

    na śūnyaṃ nāpi cāśūnyaṃ nāntaḥkaraṇasaṃsṛtiḥ ।
    na rātrirna divā naktaṃ na brahmā na hariḥ śivaḥ ॥ 17॥

    न वारपक्षमासादि वत्सरं न च चञ्चलम् ।
    न ब्रह्मलोको वैकुण्ठो न कैलासो न चान्यकः ॥ १८॥

    na vārapakṣamāsādi vatsaraṃ na ca cañcalam ।
    na brahmaloko vaikuṇṭho na kailāso na cānyakaḥ ॥ 18॥

    न स्वर्गो न च देवेन्द्रो नाग्निलोको न चाग्निकः ।
    न यमो यमलोको वा न लोका लोकपालकाः ॥ १९॥

    na svargo na ca devendro nāgniloko na cāgnikaḥ ।
    na yamo yamaloko vā na lokā lokapālakāḥ ॥ 19॥

    न भूर्भुवःस्वस्त्रैलोक्यं न पातालं न भूतलम् ।
    नाविद्या न च विद्या च न माया प्रकृतिर्जडा ॥ २०॥

    na bhūrbhuvaḥsvastrailokyaṃ na pātālaṃ na bhūtalam ।
    nāvidyā na ca vidyā ca na māyā prakṛtirjaḍā ॥ 20॥

    न स्थिरं क्षणिकं नाशं न गतिर्न च धावनम् ।
    न ध्यातव्यं न मे ध्यानं न मन्त्रो न जपः क्वचित् ॥ २१॥

    na sthiraṃ kṣaṇikaṃ nāśaṃ na gatirna ca dhāvanam ।
    na dhyātavyaṃ na me dhyānaṃ na mantro na japaḥ kvacit ॥ 21॥

    न पदार्था न पूजार्हं नाभिषेको न चार्चनम् ।
    न पुष्पं न फलं पत्रं गन्धपुष्पादिधूपकम् ॥ २२॥

    na padārthā na pūjārhaṃ nābhiṣeko na cārcanam ।
    na puṣpaṃ na phalaṃ patraṃ gandhapuṣpādidhūpakam ॥ 22॥

    न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि ।
    न प्रार्थना पृथग्भावो न हविर्नाग्निवन्दनम् ॥ २३॥

    na stotraṃ na namaskāro na pradakṣiṇamaṇvapi ।
    na prārthanā pṛthagbhāvo na havirnāgnivandanam ॥ 23॥

    न होमो न च कर्माणि न दुर्वाक्यं सुभाषणम् ।
    न गायत्री न वा सन्धिर्न मनस्यं न दुःस्थितिः ॥ २४॥

    na homo na ca karmāṇi na durvākyaṃ subhāṣaṇam ।
    na gāyatrī na vā sandhirna manasyaṃ na duḥsthitiḥ ॥ 24॥

    न दुराशा न दुष्टात्मा न चाण्डालो न पौल्कसः ।
    न दुःसहं दुरालापं न किरातो न कैतवम् ॥ २५॥

    na durāśā na duṣṭātmā na cāṇḍālo na paulkasaḥ ।
    na duḥsahaṃ durālāpaṃ na kirāto na kaitavam ॥ 25॥

    न पक्षपातं न पक्षं वा न विभूषणतस्करौ ।
    न च दम्भो दाम्भिको वा न हीनो नाधिको नरः ॥ २६॥

    na pakṣapātaṃ na pakṣaṃ vā na vibhūṣaṇataskarau ।
    na ca dambho dāmbhiko vā na hīno nādhiko naraḥ ॥ 26॥

    नैकं द्वयं त्रयं तुर्यं न महत्वं न चाल्पता ।
    न पूर्णं न परिच्छिन्नं न काशी न व्रतं तपः ॥ २७॥

    naikaṃ dvayaṃ trayaṃ turyaṃ na mahatvaṃ na cālpatā ।
    na pūrṇaṃ na paricchinnaṃ na kāśī na vrataṃ tapaḥ ॥ 27॥

    न गोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता ।
    न स्त्री न योषिन्नो वृद्धा न कन्या न वितन्तुता ॥ २८॥

    na gotraṃ na kulaṃ sūtraṃ na vibhutvaṃ na śūnyatā ।
    na strī na yoṣinno vṛddhā na kanyā na vitantutā ॥ 28॥

    न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः ।
    न महावाक्यमैक्यं वा नाणिमादिविभूतयः ॥ २९॥

    na sūtakaṃ na jātaṃ vā nāntarmukhasuvibhramaḥ ।
    na mahāvākyamaikyaṃ vā nāṇimādivibhūtayaḥ ॥ 29॥

    सर्वचैतन्यमात्रत्वात्सर्वदोषः सदा न हि ।
    सर्वं सन्मात्ररूपत्वात्सच्चिदानन्दमात्रकम् ॥ ३०॥

    sarvacaitanyamātratvātsarvadoṣaḥ sadā na hi ।
    sarvaṃ sanmātrarūpatvātsaccidānandamātrakam ॥ 30॥

    ब्रह्मैव सर्वं नान्योऽस्ति तदहं तदहं तथा ।
    तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम् ॥ ३१॥

    brahmaiva sarvaṃ nānyo'sti tadahaṃ tadahaṃ tathā ।
    tadevāhaṃ tadevāhaṃ brahmaivāhaṃ sanātanam ॥ 31॥

    ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः ।
    ब्रह्मैवाहं न मे बुद्धिर्ब्रह्मैवाहं न चेन्द्रियः ॥ ३२॥

    brahmaivāhaṃ na saṃsārī brahmaivāhaṃ na me manaḥ ।
    brahmaivāhaṃ na me buddhirbrahmaivāhaṃ na cendriyaḥ ॥ 32॥

    ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः ।
    ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेदभूः ॥ ३३॥

    brahmaivāhaṃ na deho'haṃ brahmaivāhaṃ na gocaraḥ ।
    brahmaivāhaṃ na jīvo'haṃ brahmaivāhaṃ na bhedabhūḥ ॥ 33॥

    ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः ।
    ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परः ॥ ३४॥

    brahmaivāhaṃ jaḍo nāhamahaṃ brahma na me mṛtiḥ ।
    brahmaivāhaṃ na ca prāṇo brahmaivāhaṃ parātparaḥ ॥ 34॥

    इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः ।
    कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयम्प्रभम् ॥ ३५॥

    idaṃ brahma paraṃ brahma satyaṃ brahma prabhurhi saḥ ।
    kālo brahma kalā brahma sukhaṃ brahma svayamprabham ॥ 35॥

    एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् ।
    दोषो ब्रह्म गुणो ब्रह्म दमः शान्तं विभुः प्रभुः ॥ ३६॥

    ekaṃ brahma dvayaṃ brahma moho brahma śamādikam ।
    doṣo brahma guṇo brahma damaḥ śāntaṃ vibhuḥ prabhuḥ ॥ 36॥

    लोको ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः ।
    पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् ॥ ३७॥

    loko brahma gururbrahma śiṣyo brahma sadāśivaḥ ।
    pūrvaṃ brahma paraṃ brahma śuddhaṃ brahma śubhāśubham ॥ 37॥

    जीव एव सदा ब्रह्म सच्चिदानन्दमस्म्यहम् ।
    सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् ॥ ३८॥

    jīva eva sadā brahma saccidānandamasmyaham ।
    sarvaṃ brahmamayaṃ proktaṃ sarvaṃ brahmamayaṃ jagat ॥ 38॥

    स्वयं ब्रह्म न सन्देहः स्वस्मादन्यन्न किञ्चन ।
    सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयम् ॥ ३९॥

    svayaṃ brahma na sandehaḥ svasmādanyanna kiñcana ।
    sarvamātmaiva śuddhātmā sarvaṃ cinmātramadvayam ॥ 39॥

    नित्यनिर्मलरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ।
    अणुमात्रलसद्रूपमणुमात्रमिदं जगत् ॥ ४०॥

    nityanirmalarūpātmā hyātmano'nyanna kiñcana ।
    aṇumātralasadrūpamaṇumātramidaṃ jagat ॥ 40॥

    अणुमात्रं शरीरं वा ह्यणुमात्रमसत्यकम् ।
    अणुमात्रमचिन्त्यं वा चिन्त्यं वा ह्यणुमात्रकम् ॥ ४१॥

    aṇumātraṃ śarīraṃ vā hyaṇumātramasatyakam ।
    aṇumātramacintyaṃ vā cintyaṃ vā hyaṇumātrakam ॥ 41॥

    ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं जगत्त्रयम् ।
    आनन्दं परमानन्दमन्यत्किञ्चिन्न किञ्चन ॥ ४२॥

    brahmaiva sarvaṃ cinmātraṃ brahmamātraṃ jagattrayam ।
    ānandaṃ paramānandamanyatkiñcinna kiñcana ॥ 42॥

    चैतन्यमात्रमोङ्कारं ब्रह्मैव सकलं स्वयम् ।
    अहमेव जगत्सर्वमहमेव परं पदम् ॥ ४३॥

    caitanyamātramoṅkāraṃ brahmaiva sakalaṃ svayam ।
    ahameva jagatsarvamahameva paraṃ padam ॥ 43॥

    अहमेव गुणातीत अहमेव परात्परः ।
    अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः ॥ ४४॥

    ahameva guṇātīta ahameva parātparaḥ ।
    ahameva paraṃ brahma ahameva gurorguruḥ ॥ 44॥

    अहमेवाखिलाधार अहमेव सुखात्सुखम् ।
    आत्मनोऽन्यज्जगन्नास्ति आत्मनोऽन्यत्सुखं न च ॥ ४५॥

    ahamevākhilādhāra ahameva sukhātsukham ।
    ātmano'nyajjagannāsti ātmano'nyatsukhaṃ na ca ॥ 45॥

    आत्मनोऽन्या गतिर्नास्ति सर्वमात्ममयं जगत् ।
    आत्मनोऽन्यन्नहि क्वापि आत्मनोऽन्यत्तृणं नहि ॥ ४६॥

    ātmano'nyā gatirnāsti sarvamātmamayaṃ jagat ।
    ātmano'nyannahi kvāpi ātmano'nyattṛṇaṃ nahi ॥ 46॥

    आत्मनोऽन्यत्तुषं नास्ति सर्वमात्ममयं जगत् ।
    ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि ॥ ४७॥

    ātmano'nyattuṣaṃ nāsti sarvamātmamayaṃ jagat ।
    brahmamātramidaṃ sarvaṃ brahmamātramasanna hi ॥ 47॥

    ब्रह्ममात्रं श्रुतं सर्वं स्वयं ब्रह्मैव केवलम् ।
    ब्रह्ममात्रं वृतं सर्वं ब्रह्ममात्रं रसं सुखम् ॥ ४८॥

    brahmamātraṃ śrutaṃ sarvaṃ svayaṃ brahmaiva kevalam ।
    brahmamātraṃ vṛtaṃ sarvaṃ brahmamātraṃ rasaṃ sukham ॥ 48॥

    ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमव्ययम् ।
    ब्रह्मणोऽन्यतरन्नास्ति ब्रह्मणोऽन्यज्जगन्न च ॥ ४९॥

    brahmamātraṃ cidākāśaṃ saccidānandamavyayam ।
    brahmaṇo'nyatarannāsti brahmaṇo'nyajjaganna ca ॥ 49॥

    ब्रह्मणोऽन्यदह नास्ति ब्रह्मणोऽन्यत्फलं नहि ।
    ब्रह्मणोऽन्यत्तृणं नास्ति ब्रह्मणोऽन्यत्पदं नहि ॥ ५०॥

    brahmaṇo'nyadaha nāsti brahmaṇo'nyatphalaṃ nahi ।
    brahmaṇo'nyattṛṇaṃ nāsti brahmaṇo'nyatpadaṃ nahi ॥ 50॥

    ब्रह्मणोऽन्यद्गुरुर्नास्ति ब्रह्मणोऽन्यमसद्वपुः ।
    ब्रह्मणोऽन्यन्न चाहन्ता त्वत्तेदन्ते नहि क्वचित् ॥ ५१॥

    brahmaṇo'nyadgururnāsti brahmaṇo'nyamasadvapuḥ ।
    brahmaṇo'nyanna cāhantā tvattedante nahi kvacit ॥ 51॥

    स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्न किञ्चन ।
    यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्भाष्यते जनैः ॥ ५२॥

    svayaṃ brahmātmakaṃ viddhi svasmādanyanna kiñcana ।
    yatkiñciddṛśyate loke yatkiñcidbhāṣyate janaiḥ ॥ 52॥

    यत्किञ्चिद्भुज्यते क्वापि तत्सर्वमसदेव हि ।
    कर्तृभेदं क्रियाभेदं गुणभेदं रसादिकम् ॥ ५३॥

    yatkiñcidbhujyate kvāpi tatsarvamasadeva hi ।
    kartṛbhedaṃ kriyābhedaṃ guṇabhedaṃ rasādikam ॥ 53॥

    लिङ्गभेदमिदं सर्वमसदेव सदा सुखम् ।
    कालभेदं देशभेदं वस्तुभेदं जयाजयम् ॥ ५४॥

    liṅgabhedamidaṃ sarvamasadeva sadā sukham ।
    kālabhedaṃ deśabhedaṃ vastubhedaṃ jayājayam ॥ 54॥

    यद्यद्भेदं च तत्सर्वमसदेव हि केवलम् ।
    असदन्तःकरणकमसदेवेन्द्रियादिकम् ॥ ५५॥

    yadyadbhedaṃ ca tatsarvamasadeva hi kevalam ।
    asadantaḥkaraṇakamasadevendriyādikam ॥ 55॥

    असत्प्राणादिकं सर्वं सङ्घातमसदात्मकम् ।
    असत्यं पञ्चकोशाख्यमसत्यं पञ्च देवताः ॥ ५६॥

    asatprāṇādikaṃ sarvaṃ saṅghātamasadātmakam ।
    asatyaṃ pañcakośākhyamasatyaṃ pañca devatāḥ ॥ 56॥

    असत्यं षड्विकारादि असत्यमरिवर्गकम् ।
    असत्यं षडृतुश्चैव असत्यं षड्रसस्तथा ॥ ५७॥

    asatyaṃ ṣaḍvikārādi asatyamarivargakam ।
    asatyaṃ ṣaḍṛtuścaiva asatyaṃ ṣaḍrasastathā ॥ 57॥

    सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ।
    आत्मैवाहं परं सत्यं नान्याः संसारदृष्टयः ॥ ५८॥

    saccidānandamātro'hamanutpannamidaṃ jagat ।
    ātmaivāhaṃ paraṃ satyaṃ nānyāḥ saṃsāradṛṣṭayaḥ ॥ 58॥

    सत्यमानन्दरूपोऽहं चिद्घनानन्दविग्रहः ।
    अहमेव परानन्द अहमेव परात्परः ॥ ५९॥

    satyamānandarūpo'haṃ cidghanānandavigrahaḥ ।
    ahameva parānanda ahameva parātparaḥ ॥ 59॥

    ज्ञानाकारमिदं सर्वं ज्ञानानन्दोऽहमद्वयः ।
    सर्वप्रकाशरूपोऽहं सर्वाभावस्वरूपकम् ॥ ६०॥

    jñānākāramidaṃ sarvaṃ jñānānando'hamadvayaḥ ।
    sarvaprakāśarūpo'haṃ sarvābhāvasvarūpakam ॥ 60॥

    अहमेव सदा भामीत्येवं रूपं कुतोऽप्यसत् ।
    त्वमित्येवं परं ब्रह्म चिन्मयानन्दरूपवान् ॥ ६१॥

    ahameva sadā bhāmītyevaṃ rūpaṃ kuto'pyasat ।
    tvamityevaṃ paraṃ brahma cinmayānandarūpavān ॥ 61॥

    चिदाकारं चिदाकाशं चिदेव परमं सुखम् ।
    आत्मैवाहमसन्नाहं कूटस्थोऽहं गुरुः परः ॥ ६२॥

    cidākāraṃ cidākāśaṃ cideva paramaṃ sukham ।
    ātmaivāhamasannāhaṃ kūṭastho'haṃ guruḥ paraḥ ॥ 62॥

    सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ।
    कालो नास्ति जगन्नास्ति मायाप्रकृतिरेव न ॥ ६३॥

    saccidānandamātro'hamanutpannamidaṃ jagat ।
    kālo nāsti jagannāsti māyāprakṛtireva na ॥ 63॥

    अहमेव हरिः साक्षादहमेव सदाशिवः ।
    शुद्धचैतन्यभावोऽहं शुद्धसत्त्वानुभावनः ॥ ६४॥

    ahameva hariḥ sākṣādahameva sadāśivaḥ ।
    śuddhacaitanyabhāvo'haṃ śuddhasattvānubhāvanaḥ ॥ 64॥

    अद्वयानन्दमात्रोऽहं चिद्घनैकरसोऽस्म्यहम् ।
    सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव केवलम् ॥ ६५॥

    advayānandamātro'haṃ cidghanaikaraso'smyaham ।
    sarvaṃ brahmaiva satataṃ sarvaṃ brahmaiva kevalam ॥ 65॥

    सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव चेतनम् ।
    सर्वान्तर्यामिरूपोऽहं सर्वसाक्षित्वलक्षणः ॥ ६६॥

    sarvaṃ brahmaiva satataṃ sarvaṃ brahmaiva cetanam ।
    sarvāntaryāmirūpo'haṃ sarvasākṣitvalakṣaṇaḥ ॥ 66॥

    परमात्मा परं ज्योतिः परं धाम परा गतिः ।
    सर्ववेदान्तसारोऽहं सर्वशास्त्रसुनिश्चितः ॥ ६७॥

    paramātmā paraṃ jyotiḥ paraṃ dhāma parā gatiḥ ।
    sarvavedāntasāro'haṃ sarvaśāstrasuniścitaḥ ॥ 67॥

    योगानन्दस्वरूपोऽहं मुख्यानन्दमहोदयः ।
    सर्वज्ञानप्रकाशोऽस्मि मुख्यविज्ञानविग्रहः ॥ ६८॥

    yogānandasvarūpo'haṃ mukhyānandamahodayaḥ ।
    sarvajñānaprakāśo'smi mukhyavijñānavigrahaḥ ॥ 68॥

    तुर्यातुर्यप्रकाशोऽस्मि तुर्यातुर्यादिवर्जितः ।
    चिदक्ष्रोऽन् सत्योऽहं वासुदवोऽजररोऽमरः ॥ ६९॥

    turyāturyaprakāśo'smi turyāturyādivarjitaḥ ।
    cidakṣro'n satyo'haṃ vāsudavo'jararo'maraḥ ॥ 69॥

    अहं ब्रह्म चिदाकाशं नित्यं ब्रह्म निरञ्जनम् ।
    शुद्धं बुद्धं सदामुक्तमनामकमरूपकम् ॥ ७०॥

    ahaṃ brahma cidākāśaṃ nityaṃ brahma nirañjanam ।
    śuddhaṃ buddhaṃ sadāmuktamanāmakamarūpakam ॥ 70॥

    सच्चिदानन्दरूपोऽहमनुन्त्पन्नमिदं जगत् ।
    सत्यासत्यं जगन्नास्ति सङ्कल्पकलनादिकम् ॥ ७१॥

    saccidānandarūpo'hamanuntpannamidaṃ jagat ।
    satyāsatyaṃ jagannāsti saṅkalpakalanādikam ॥ 71॥

    नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ।
    अनन्तमव्ययं शान्तमेकरूपमनामयम् ॥ ७२॥

    nityānandamayaṃ brahma kevalaṃ sarvadā svayam ।
    anantamavyayaṃ śāntamekarūpamanāmayam ॥ 72॥

    मत्तोऽन्यदस्ति चेन्मिथ्या यथा मरुमरीचिका ।
    वन्ध्याकुमारवचने भीतिश्चेदस्ति किञ्चन ॥ ७३॥

    matto'nyadasti cenmithyā yathā marumarīcikā ।
    vandhyākumāravacane bhītiścedasti kiñcana ॥ 73॥

    शशशृङ्गेण नागेन्द्रो मृतश्चेज्जगदस्ति तत् ।
    मृगतृष्णाजलं पीत्वा तृप्तश्चेदस्त्विदं जगत् ॥ ७४॥

    śaśaśṛṅgeṇa nāgendro mṛtaścejjagadasti tat ।
    mṛgatṛṣṇājalaṃ pītvā tṛptaścedastvidaṃ jagat ॥ 74॥

    नरशृङ्गेण नष्टश्चेत्कश्चिदस्त्विदमेव हि ।
    गन्धर्वनगरे सत्ये जगद्भवति सर्वदा ॥ ७५॥

    naraśṛṅgeṇa naṣṭaścetkaścidastvidameva hi ।
    gandharvanagare satye jagadbhavati sarvadā ॥ 75॥

    गगने नीलिमासत्ये जगत्सत्यं भविष्यति ।
    शुक्तिकारजतं सत्यं भूषणं चेज्जगद्भवेत् ॥ ७६॥

    gagane nīlimāsatye jagatsatyaṃ bhaviṣyati ।
    śuktikārajataṃ satyaṃ bhūṣaṇaṃ cejjagadbhavet ॥ 76॥

    रज्जुसर्पेण दष्टश्चेन्नरो भवतु संसृतिः ।
    जातरूपेण बाणेन ज्वालाग्नौ नाशिते जगत् ॥ ७७॥

    rajjusarpeṇa daṣṭaścennaro bhavatu saṃsṛtiḥ ।
    jātarūpeṇa bāṇena jvālāgnau nāśite jagat ॥ 77॥

    विन्ध्याटव्यां पायसान्नमस्ति चेज्जगदुद्भवः ।
    रम्भास्तम्भेन काष्ठेन पाकसिद्धौ जगद्भवेत् ॥ ७८॥

    vindhyāṭavyāṃ pāyasānnamasti cejjagadudbhavaḥ ।
    rambhāstambhena kāṣṭhena pākasiddhau jagadbhavet ॥ 78॥

    सद्यः कुमारिकरूपैः पाके सिद्धे जगद्भवेत् ।
    चित्रस्थदीपैस्तमसो नाशश्चेदस्त्विदं जगत् ॥ ७९॥

    sadyaḥ kumārikarūpaiḥ pāke siddhe jagadbhavet ।
    citrasthadīpaistamaso nāśaścedastvidaṃ jagat ॥ 79॥

    मासात्पूर्वं मृतो मर्त्यो ह्यागतश्चेज्जगद्भवेत् ।
    तक्रं क्षीरस्वरूपं चेत्क्वचिन्नित्यं जगद्भवेत् ॥ ८०॥

    māsātpūrvaṃ mṛto martyo hyāgataścejjagadbhavet ।
    takraṃ kṣīrasvarūpaṃ cetkvacinnityaṃ jagadbhavet ॥ 80॥

    गोस्तनादुद्भवं क्षीरं पुनरारोपणे जगत् ।
    भूरजोऽब्धौ समुत्पन्ने जगद्भवतु सर्वदा ॥ ८१॥

    gostanādudbhavaṃ kṣīraṃ punarāropaṇe jagat ।
    bhūrajo'bdhau samutpanne jagadbhavatu sarvadā ॥ 81॥

    कूर्मरोम्णा गजे बद्धे जगदस्तु मदोत्कटे ।
    नालस्थतन्तुना मेरुश्चालितश्चेज्जगद्भवेत् ॥ ८२॥

    kūrmaromṇā gaje baddhe jagadastu madotkaṭe ।
    nālasthatantunā meruścālitaścejjagadbhavet ॥ 82॥

    तरङ्गमालया सिन्धुर्बद्धश्चेदस्त्विदं जगत् ।
    अग्नेरधश्चेज्ज्वलनं जगद्भवतु सर्वदा ॥ ८३॥

    taraṅgamālayā sindhurbaddhaścedastvidaṃ jagat ।
    agneradhaścejjvalanaṃ jagadbhavatu sarvadā ॥ 83॥

    ज्वालावह्निः शीतलश्चेदस्तिरूपमिदं जगत् ।
    ज्वालाग्निमण्डले पद्मवृद्धिश्चेज्जगदस्त्विदम् ॥ ८४॥

    jvālāvahniḥ śītalaścedastirūpamidaṃ jagat ।
    jvālāgnimaṇḍale padmavṛddhiścejjagadastvidam ॥ 84॥

    महच्छैलेन्द्रनीलं वा सम्भवच्चेदिदं जगत् ।
    मेरुरागत्य पद्माक्षे स्थितश्चेदस्त्विदं जगत् ॥ ८५॥

    mahacchailendranīlaṃ vā sambhavaccedidaṃ jagat ।
    merurāgatya padmākṣe sthitaścedastvidaṃ jagat ॥ 85॥

    निगिरेच्चेद्भृङ्गसूनुर्मेरुं चलवदस्त्विदम् ।
    मशकेन हते सिंहे जगत्सत्यं तदास्तु ते ॥ ८६॥

    nigireccedbhṛṅgasūnurmeruṃ calavadastvidam ।
    maśakena hate siṃhe jagatsatyaṃ tadāstu te ॥ 86॥

    अणुकोटरविस्तीर्णे त्रैलोक्यं चेज्जगद्भवेत् ।
    तृणानलश्च नित्यश्चेत्क्षणिकं तज्जगद्भवेत् ॥ ८७॥

    aṇukoṭaravistīrṇe trailokyaṃ cejjagadbhavet ।
    tṛṇānalaśca nityaścetkṣaṇikaṃ tajjagadbhavet ॥ 87॥

    स्वप्नदृष्टं च यद्वस्तु जागरे चेज्जगद्भवः ।
    नदीवेगो निश्चलश्चेत्केनापीदं भवेज्जगत् ॥ ८८॥

    svapnadṛṣṭaṃ ca yadvastu jāgare cejjagadbhavaḥ ।
    nadīvego niścalaścetkenāpīdaṃ bhavejjagat ॥ 88॥

    क्षुधितस्याग्निर्भोज्यश्चेन्निमिषं कल्पितं भवेत् ।
    जात्यन्धै रत्नविषयः सुज्ञातश्चेज्जगत्सदा ॥ ८९॥

    kṣudhitasyāgnirbhojyaścennimiṣaṃ kalpitaṃ bhavet ।
    jātyandhai ratnaviṣayaḥ sujñātaścejjagatsadā ॥ 89॥

    नपुंसककुमारस्य स्त्रीसुखं चेद्भवज्जगत् ।
    निर्मितः शशशृङ्गेण रथश्चेज्जगदस्ति तत् ॥ ९०॥

    napuṃsakakumārasya strīsukhaṃ cedbhavajjagat ।
    nirmitaḥ śaśaśṛṅgeṇa rathaścejjagadasti tat ॥ 90॥

    सद्योजाता तु या कन्या भोगयोग्या भवेज्जगत् ।
    वन्ध्या गर्भाप्ततत्सौख्यं ज्ञाता चेदस्त्विदं जगत् ॥ ९१॥

    sadyojātā tu yā kanyā bhogayogyā bhavejjagat ।
    vandhyā garbhāptatatsaukhyaṃ jñātā cedastvidaṃ jagat ॥ 91॥

    काको वा हंसवद्गच्छेज्जगद्भवतु निश्चलम् ।
    महाखरो वा सिंहेन युध्यते चेज्जगत्स्थितिः ॥ ९२॥

    kāko vā haṃsavadgacchejjagadbhavatu niścalam ।
    mahākharo vā siṃhena yudhyate cejjagatsthitiḥ ॥ 92॥

    महाखरो गजगतिं गतश्चेज्जगदस्तु तत् ।
    सम्पूर्णचन्द्रसूर्यश्चेज्जगद्भातु स्वयं जडम् ॥ ९३॥

    mahākharo gajagatiṃ gataścejjagadastu tat ।
    sampūrṇacandrasūryaścejjagadbhātu svayaṃ jaḍam ॥ 93॥

    चन्द्रसूर्यादिकौ त्यक्त्वा राहुश्चेद्दृश्यते जगत् ।
    भृष्टबीजसमुत्पन्नवृद्धिश्चेज्जगदस्तु सत् ॥ ९४॥

    candrasūryādikau tyaktvā rāhuśceddṛśyate jagat ।
    bhṛṣṭabījasamutpannavṛddhiścejjagadastu sat ॥ 94॥

    दरिद्रो धनिकानां च सुखं भुङ्क्ते तदा जगत् ।
    शुना वीर्येण सिंहस्तु जितो यदि जगत्तदा ॥ ९५॥

    daridro dhanikānāṃ ca sukhaṃ bhuṅkte tadā jagat ।
    śunā vīryeṇa siṃhastu jito yadi jagattadā ॥ 95॥

    ज्ञानिनो हृदयं मूढैर्ज्ञातं चेत्कल्पनं तदा ।
    श्वानेन सागरे पीते निःशेषेण मनो भवेत् ॥ ९६॥

    jñānino hṛdayaṃ mūḍhairjñātaṃ cetkalpanaṃ tadā ।
    śvānena sāgare pīte niḥśeṣeṇa mano bhavet ॥ 96॥

    शुद्धाकाशो मनुष्येषु पतितश्चेत्तदा जगत् ।
    भूमौ वा पतितं व्योम व्योमपुष्पं सुगन्धकम् ॥ ९७॥

    śuddhākāśo manuṣyeṣu patitaścettadā jagat ।
    bhūmau vā patitaṃ vyoma vyomapuṣpaṃ sugandhakam ॥ 97॥

    शुद्धाकाशे वने जाते चलिते तु तदा जगत् ।
    केवले दर्पणे नास्ति प्रतिबिम्बं तदा जगत् ॥ ९८॥

    śuddhākāśe vane jāte calite tu tadā jagat ।
    kevale darpaṇe nāsti pratibimbaṃ tadā jagat ॥ 98॥

    अजकुक्षौ जगन्नास्ति ह्यात्मकुक्षौ जगन्नहि ।
    सर्वथा भेदकलनं द्वैताद्वैतं न विद्यते ॥ ९९॥

    ajakukṣau jagannāsti hyātmakukṣau jagannahi ।
    sarvathā bhedakalanaṃ dvaitādvaitaṃ na vidyate ॥ 99॥

    मायाकार्यमिदं भेदमस्ति चेद्ब्रह्मभावनम् ।
    देहोऽहमिति दुःखं चेद्ब्रह्माहमिति निश्चयः ॥ १००॥

    māyākāryamidaṃ bhedamasti cedbrahmabhāvanam ।
    deho'hamiti duḥkhaṃ cedbrahmāhamiti niścayaḥ ॥ 100॥

    हृदयग्रन्थिरस्तित्वे छिद्यते ब्रह्मचक्रकम् ।
    संशये समनुप्राप्ते ब्रह्मनिश्चयमाश्रयेत् ॥ १०१॥

    hṛdayagranthirastitve chidyate brahmacakrakam ।
    saṃśaye samanuprāpte brahmaniścayamāśrayet ॥ 101॥

    अनात्मरूपचोरश्चेदात्मरत्नस्य रक्षणम् ।
    नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ १०२॥

    anātmarūpacoraścedātmaratnasya rakṣaṇam ।
    nityānandamayaṃ brahma kevalaṃ sarvadā svayam ॥ 102॥

    एवमादिसुदृष्टान्तैः साधितं ब्रह्ममात्रकम् ।
    ब्रह्मैव सर्वभवनं भुवनं नाम सन्त्यज ॥ १०३॥

    evamādisudṛṣṭāntaiḥ sādhitaṃ brahmamātrakam ।
    brahmaiva sarvabhavanaṃ bhuvanaṃ nāma santyaja ॥ 103॥

    अहं ब्रह्मेति निश्चित्य अहम्भावं परित्यज ।
    सर्वमेव लयं याति सुप्तहस्तस्थपुष्पवत् ॥ १०४॥

    ahaṃ brahmeti niścitya ahambhāvaṃ parityaja ।
    sarvameva layaṃ yāti suptahastasthapuṣpavat ॥ 104॥

    न देहो न च कर्माणि सर्वं ब्रह्मैव केवलम् ।
    न भूतं न च कार्यं च न चावस्थाचतुष्टयम् ॥ १०५॥

    na deho na ca karmāṇi sarvaṃ brahmaiva kevalam ।
    na bhūtaṃ na ca kāryaṃ ca na cāvasthācatuṣṭayam ॥ 105॥

    लक्षणात्रयविज्ञानं सर्वं ब्रह्मैव केवलम् ।
    सर्वव्यापारमुत्सृज्य ह्यहं ब्रह्मेति भावय ॥ १०६॥

    lakṣaṇātrayavijñānaṃ sarvaṃ brahmaiva kevalam ।
    sarvavyāpāramutsṛjya hyahaṃ brahmeti bhāvaya ॥ 106॥

    अहं ब्रह्म न सन्देहो ह्यहं ब्रह्म चिदात्मकम् ।
    सच्चिदानन्दमात्रोऽहमिति निश्चित्य तत्त्यज ॥ १०७॥

    ahaṃ brahma na sandeho hyahaṃ brahma cidātmakam ।
    saccidānandamātro'hamiti niścitya tattyaja ॥ 107॥

    शाङ्करीयं महाशास्त्रं न देयं यस्य कस्यचित् ।
    नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने ॥ १०८॥

    śāṅkarīyaṃ mahāśāstraṃ na deyaṃ yasya kasyacit ।
    nāstikāya kṛtaghnāya durvṛttāya durātmane ॥ 108॥

    गुरुभक्तिविशुद्धान्तःकरणाय महात्मने ।
    सम्यक्परीक्ष्य दातव्यं मासं षाण्मासवत्सरम् ॥ १०९॥

    gurubhaktiviśuddhāntaḥkaraṇāya mahātmane ।
    samyakparīkṣya dātavyaṃ māsaṃ ṣāṇmāsavatsaram ॥ 109॥

    सर्वोपनिषदभ्यासं दूरतस्त्यज्य सादरम् ।
    तेजोबिन्दूपनिषदमभ्यसेत्सर्वदा मुदा ॥ ११०॥

    sarvopaniṣadabhyāsaṃ dūratastyajya sādaram ।
    tejobindūpaniṣadamabhyasetsarvadā mudā ॥ 110॥

    सकृदभ्यासमात्रेण ब्रह्मैव भवति स्वयम् ।
    ब्रह्मैव भवति स्वयमित्युपनिषत् ॥

    sakṛdabhyāsamātreṇa brahmaiva bhavati svayam ।
    brahmaiva bhavati svayamityupaniṣat ॥

    ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥

    oṃ saha nāvavatu ॥ saha nau bhunaktu ॥

    सह वीर्यं करवावहै ॥

    saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    इति तेजोबिन्दूपनिषत्समाप्ता ॥

    iti tejobindūpaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact