English Edition
    Library / Philosophy and Religion

    Niralamba Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    निरालम्बोपनिषत्

    nirālambopaniṣat

    यत्रालम्बालम्बिभावो विद्यते न कदाचन ।
    ज्ञविज्ञसम्यग्ज्ञालम्बं निरालम्बं हरिं भजे ॥

    yatrālambālambibhāvo vidyate na kadācana ।
    jñavijñasamyagjñālambaṃ nirālambaṃ hariṃ bhaje ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॐ नमः शिवाय गुरवे सच्चिदानन्द मूर्तये ।
    निष्प्रपञ्चाय शान्ताय निरालम्बाय तेजसे ॥

    oṃ namaḥ śivāya gurave saccidānanda mūrtaye ।
    niṣprapañcāya śāntāya nirālambāya tejase ॥

    निरालम्बं समाश्रित्य सालम्बं विजहाति यः ।
    स संन्यासी च योगी च कैवल्यं पदमश्नुते ।
    एषमज्ञानजन्तूनां समस्तारिष्टशान्तये ।
    यद्यद्बोद्धव्यमखिलं तदाशङ्क्य ब्रवीम्यहम् ॥

    nirālambaṃ samāśritya sālambaṃ vijahāti yaḥ ।
    sa saṃnyāsī ca yogī ca kaivalyaṃ padamaśnute ।
    eṣamajñānajantūnāṃ samastāriṣṭaśāntaye ।
    yadyadboddhavyamakhilaṃ tadāśaṅkya bravīmyaham ॥

    किं ब्रह्म । क ईश्वरः । को जीवः । का प्रकृतिः ।
    कः परमात्मा । को ब्रह्मा । को विष्णुः । को रुद्रः ।
    क इन्द्रः । कः शमनः । कः सूर्यः । कश्चन्द्रः ।
    के सुराः । के असुराः । के पिशाचाः । के मनुष्याः ।
    काः स्त्रियः । के पश्वादयः । किं स्थावरम् ।
    के ब्राह्मणादयः । का जातिः । किं कर्म । किमकर्म ।
    किं ज्ञानम् । किमज्ञानम् । किं सुखम् । किं दुःखम् ।
    कः स्वर्गः । को नरकः । को बन्धः । को मोक्षः ।
    क उपास्यः । कः शिष्यः । को विद्वान् । को मूढः ।
    किमासुरम् । किं तपः । किं परमं पदम् ।
    किं ग्राह्यम् । किमग्राह्यम् । कः संन्यासीत्याहशङ्क्याह
    ब्रह्मेति ।

    kiṃ brahma । ka īśvaraḥ । ko jīvaḥ । kā prakṛtiḥ ।
    kaḥ paramātmā । ko brahmā । ko viṣṇuḥ । ko rudraḥ ।
    ka indraḥ । kaḥ śamanaḥ । kaḥ sūryaḥ । kaścandraḥ ।
    ke surāḥ । ke asurāḥ । ke piśācāḥ । ke manuṣyāḥ ।
    kāḥ striyaḥ । ke paśvādayaḥ । kiṃ sthāvaram ।
    ke brāhmaṇādayaḥ । kā jātiḥ । kiṃ karma । kimakarma ।
    kiṃ jñānam । kimajñānam । kiṃ sukham । kiṃ duḥkham ।
    kaḥ svargaḥ । ko narakaḥ । ko bandhaḥ । ko mokṣaḥ ।
    ka upāsyaḥ । kaḥ śiṣyaḥ । ko vidvān । ko mūḍhaḥ ।
    kimāsuram । kiṃ tapaḥ । kiṃ paramaṃ padam ।
    kiṃ grāhyam । kimagrāhyam । kaḥ saṃnyāsītyāhaśaṅkyāha
    brahmeti ।

    स होवाच महदहङ्कारपृथिव्यप्तेजोवाय्वाकाशत्वेन
    बृहद्रूपेणाण्डकोशेन कर्मज्ञानार्थरूपतया
    भासमानमद्वितीयमखिलोपाधिविनिर्मुक्तं
    तत्सकलशक्त्युपबृंहितमनाद्यनन्तं
    शुद्धं शिवं शान्तं निर्गुणमित्यादि-
    वाच्यमनिर्वाच्यं चैतन्यं ब्रह्म ॥

    sa hovāca mahadahaṅkārapṛthivyaptejovāyvākāśatvena
    bṛhadrūpeṇāṇḍakośena karmajñānārtharūpatayā
    bhāsamānamadvitīyamakhilopādhivinirmuktaṃ
    tatsakalaśaktyupabṛṃhitamanādyanantaṃ
    śuddhaṃ śivaṃ śāntaṃ nirguṇamityādi-
    vācyamanirvācyaṃ caitanyaṃ brahma ॥

    ईश्वर इति च ॥
    ब्रह्मैव स्वशक्तिं प्रकृत्यभिधेयामाश्रित्य
    लोकान्सृष्ट्वा प्रविश्यान्तर्यामित्वेन ब्रह्मादीनां
    बुद्धीन्द्रियनियन्तृत्वादीश्वरः ॥

    īśvara iti ca ॥
    brahmaiva svaśaktiṃ prakṛtyabhidheyāmāśritya
    lokānsṛṣṭvā praviśyāntaryāmitvena brahmādīnāṃ
    buddhīndriyaniyantṛtvādīśvaraḥ ॥

    जीव इति च ब्रह्मविष्ण्वीशानेन्द्रादीनां नामरूपद्वारा
    स्थूलोऽहमिति मिथ्याध्यासवशाज्जीवः ।सोऽहमेकोऽपि
    देहारम्भकभेदवशाद्बहुजीवः ।

    jīva iti ca brahmaviṣṇvīśānendrādīnāṃ nāmarūpadvārā
    sthūlo'hamiti mithyādhyāsavaśājjīvaḥ ।so'hameko'pi
    dehārambhakabhedavaśādbahujīvaḥ ।

    प्रकृतिरिति च ब्रह्मणः
    सकाशान्नानाविचित्रजगन्निर्माण-
    सामार्थ्यबुद्धिरूपा ब्रह्मशक्तिरेव प्रकृतिः ।

    prakṛtiriti ca brahmaṇaḥ
    sakāśānnānāvicitrajagannirmāṇa-
    sāmārthyabuddhirūpā brahmaśaktireva prakṛtiḥ ।

    परमात्मेति च देहादेः परतरत्वद्ब्राह्मैव परमात्मा

    paramātmeti ca dehādeḥ parataratvadbrāhmaiva paramātmā

    स ब्रह्मा स विष्णुः स इन्द्रः स शमनः स सूर्यः
    स चन्द्रस्ते सुरास्ते असुरास्ते पिशाचास्ते मनुष्यास्ताः
    स्त्रियस्ते पश्वादयस्तत्स्थावरं ते ब्राह्मणादयः ।
    सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चन ।

    sa brahmā sa viṣṇuḥ sa indraḥ sa śamanaḥ sa sūryaḥ
    sa candraste surāste asurāste piśācāste manuṣyāstāḥ
    striyaste paśvādayastatsthāvaraṃ te brāhmaṇādayaḥ ।
    sarvaṃ khalvidaṃ brahma neha nānāsti kiñcana ।

    जातिरिति च ।
    न चर्मणो न रक्तस्य न मांसस्य न चास्थिनः ।
    न जातिरात्मनो जातिर्व्यवहारप्रकल्पिता ।

    jātiriti ca ।
    na carmaṇo na raktasya na māṃsasya na cāsthinaḥ ।
    na jātirātmano jātirvyavahāraprakalpitā ।

    कर्मेति च
    क्रियमाणेन्द्रियैः कर्मण्यहं करोमीत्यध्यात्मनिष्ठतया
    कृतं कर्मैव कर्म ।

    karmeti ca
    kriyamāṇendriyaiḥ karmaṇyahaṃ karomītyadhyātmaniṣṭhatayā
    kṛtaṃ karmaiva karma ।

    अकर्मेति च कर्तृत्वभोक्तृत्वा-
    द्यहङ्कारतया बन्धरूपं जन्मादिकारणं
    नित्यनैमित्तिकयागव्रततपोदानादिषु फलाभिसन्धानं
    यत्तदकर्म ।

    akarmeti ca kartṛtvabhoktṛtvā-
    dyahaṅkāratayā bandharūpaṃ janmādikāraṇaṃ
    nityanaimittikayāgavratatapodānādiṣu phalābhisandhānaṃ
    yattadakarma ।

    ज्ञानमिति च देहेन्द्रियनिग्रहसद्गुरूपासन-
    श्रवणमनननिदिध्यासनैर्यद्यदृग्दृश्यस्वरूपं
    सर्वान्तरस्थं सर्वसमं घटपटादिपदार्थ-
    मिवाविकारं विकारेषु चैतन्यं विना किञ्चिन्नास्तीति
    साक्षात्कारानुभवो ज्ञानम् ।

    jñānamiti ca dehendriyanigrahasadgurūpāsana-
    śravaṇamanananididhyāsanairyadyadṛgdṛśyasvarūpaṃ
    sarvāntarasthaṃ sarvasamaṃ ghaṭapaṭādipadārtha-
    mivāvikāraṃ vikāreṣu caitanyaṃ vinā kiñcinnāstīti
    sākṣātkārānubhavo jñānam ।

    अज्ञानमिति च रज्जौ सर्पभ्रान्तिरिवाद्वितीये
    सर्वानुस्यूते सर्वमये ब्रह्मणि
    देवतिर्यङ्नरस्थावरस्त्रीपुरुषवर्णाश्रम-
    बन्धमोक्षोपाधिनानात्मभेदकल्पित ज्ञानमज्ञानम् ।

    ajñānamiti ca rajjau sarpabhrāntirivādvitīye
    sarvānusyūte sarvamaye brahmaṇi
    devatiryaṅnarasthāvarastrīpuruṣavarṇāśrama-
    bandhamokṣopādhinānātmabhedakalpita jñānamajñānam ।

    सुखमिति च सच्चिदानन्दस्वरूपं ज्ञात्वानन्दरूपा
    या स्थितिः सैव सुखम् ।

    sukhamiti ca saccidānandasvarūpaṃ jñātvānandarūpā
    yā sthitiḥ saiva sukham ।

    दुःखमिति अनात्मरूपः विषयसङ्कल्प एव दुःखम् ।

    duḥkhamiti anātmarūpaḥ viṣayasaṅkalpa eva duḥkham ।

    स्वर्ग इति च सत्संसर्गः स्वर्गः ।

    svarga iti ca satsaṃsargaḥ svargaḥ ।

    नरक इति च असत्संसारविषयजनसंसर्ग एव
    नरकः ।

    naraka iti ca asatsaṃsāraviṣayajanasaṃsarga eva
    narakaḥ ।

    बन्ध इति च अनाद्यविद्यावासनया जातोऽहमि-
    त्यादिसङ्कल्पो बन्धः । पितृमातृसहोदरदारापत्य-
    गृहारामक्षेत्रममता संसारावरणसङ्कल्पो बन्धः ।
    कर्तृत्वाद्यहङ्कारसङ्कल्पो बन्धः । अणिमाद्यष्टैश्व-
    र्याशासिद्धसङ्कल्पो बन्धः । देवमनुष्याद्युपासना-
    कामसङ्कल्पो बन्धः । यमाद्यष्टाङ्गयोगसङ्कल्पो
    बन्धः । वर्णाश्रमधर्मकर्मसङ्कल्पो बन्धः ।
    आज्ञाभयसंशयात्मगुणसङ्कल्पो बन्धः । यागव्रत-
    तपोदानविधिविधानज्ञानसम्भवो बन्धः । केवलमोक्षा-
    पेक्षासङ्कल्पो बन्धः । सङ्कल्पमात्रसंभवो बन्धः ।

    bandha iti ca anādyavidyāvāsanayā jāto'hami-
    tyādisaṅkalpo bandhaḥ । pitṛmātṛsahodaradārāpatya-
    gṛhārāmakṣetramamatā saṃsārāvaraṇasaṅkalpo bandhaḥ ।
    kartṛtvādyahaṅkārasaṅkalpo bandhaḥ । aṇimādyaṣṭaiśva-
    ryāśāsiddhasaṅkalpo bandhaḥ । devamanuṣyādyupāsanā-
    kāmasaṅkalpo bandhaḥ । yamādyaṣṭāṅgayogasaṅkalpo
    bandhaḥ । varṇāśramadharmakarmasaṅkalpo bandhaḥ ।
    ājñābhayasaṃśayātmaguṇasaṅkalpo bandhaḥ । yāgavrata-
    tapodānavidhividhānajñānasambhavo bandhaḥ । kevalamokṣā-
    pekṣāsaṅkalpo bandhaḥ । saṅkalpamātrasaṃbhavo bandhaḥ ।

    मोक्ष इति च नित्यानित्यवस्तुविचारादनित्यसंसारसुख-
    दुःखविषयसमस्तक्षेत्रममताबन्धक्षयो मोक्षः ।

    mokṣa iti ca nityānityavastuvicārādanityasaṃsārasukha-
    duḥkhaviṣayasamastakṣetramamatābandhakṣayo mokṣaḥ ।

    उपास्य इति च सर्वशरीरस्थचैतन्यब्रह्मप्रापको गुरुरुपास्यः ।

    upāsya iti ca sarvaśarīrasthacaitanyabrahmaprāpako gururupāsyaḥ ।

    शिष्य इति च विद्याध्वस्तप्रपञ्चावगाहितज्ञानावशिष्टं
    ब्रह्मैव शिष्यः ।

    śiṣya iti ca vidyādhvastaprapañcāvagāhitajñānāvaśiṣṭaṃ
    brahmaiva śiṣyaḥ ।

    विद्वानिति च सर्वान्तरस्थस्वसंविद्रूपवि-
    द्विद्वान् ।

    vidvāniti ca sarvāntarasthasvasaṃvidrūpavi-
    dvidvān ।

    मूढ इति च कर्तृत्वाद्यहङ्कारभावारूढो मूढः ।

    mūḍha iti ca kartṛtvādyahaṅkārabhāvārūḍho mūḍhaḥ ।

    आसुरमिति च ब्रह्मविष्ण्वीशानेन्द्रादीना-
    मैश्वर्यकामनया निरशनजपाग्निहोत्रादि-
    ष्वन्तरात्मानं सन्तापयति चात्युग्रराग-
    द्वेषविहिंसा दम्भाद्यपेक्षितं तप आसुरम् ।

    āsuramiti ca brahmaviṣṇvīśānendrādīnā-
    maiśvaryakāmanayā niraśanajapāgnihotrādi-
    ṣvantarātmānaṃ santāpayati cātyugrarāga-
    dveṣavihiṃsā dambhādyapekṣitaṃ tapa āsuram ।

    तप इति च ब्रह्म सत्यं जगन्मिथ्येत्यपरोक्ष-
    ज्ञानाग्निना ब्रह्माद्यैश्वर्याशासिद्धसङ्कल्प-
    बीजसन्तापं तपः ।

    tapa iti ca brahma satyaṃ jaganmithyetyaparokṣa-
    jñānāgninā brahmādyaiśvaryāśāsiddhasaṅkalpa-
    bījasantāpaṃ tapaḥ ।

    परमं पदमिति च प्राणेन्द्रियाद्यन्तःकरणगुणादेः
    परतरं सच्चिदानन्दमयं नित्यमुक्तब्रह्मस्थानं
    परमं पदम् ।

    paramaṃ padamiti ca prāṇendriyādyantaḥkaraṇaguṇādeḥ
    parataraṃ saccidānandamayaṃ nityamuktabrahmasthānaṃ
    paramaṃ padam ।

    ग्राह्यमिति च देशकालवस्तु-
    परिच्छेदराहित्यचिन्मात्रस्वरूपं ग्राह्यम् ।

    grāhyamiti ca deśakālavastu-
    paricchedarāhityacinmātrasvarūpaṃ grāhyam ।

    अग्राह्यमिति च स्वस्वरूपव्यतिरिक्तमायामय-
    बुद्धीन्द्रियगोचरजगत्सत्यत्वचिन्तनमग्राह्यम् ।

    agrāhyamiti ca svasvarūpavyatiriktamāyāmaya-
    buddhīndriyagocarajagatsatyatvacintanamagrāhyam ।

    संन्यासीति च सर्वधर्मान्परित्यज्य निर्ममो
    निरहङ्कारो भूत्वा ब्रह्मेष्टं शरणमुपगम्य
    तत्त्वमसि अहं ब्रह्मास्मि सर्वं खल्विदं ब्रह्म
    नेह नानास्ति किञ्चनेत्यादिमहावाक्यार्था-
    नुभवज्ञानाद्ब्रह्मैवाहमस्मीति निश्चित्य
    निर्विकल्पसमाधिना स्वतन्त्रो यतिश्चरति स संन्यासी
    स मुक्तः स पूज्यः स योगी स परमहंसः सोऽवधूतः
    स ब्राह्मण इति । इदं निरालम्बोपनिषदं योऽधीते
    गुर्वनुग्रहतः सोऽग्निपूतो भवति स वायुपूतो भवति
    न स पुनरावर्तते न स पुनरावर्तते पुनर्नाभिजायते
    पुनर्नाभिजायत इत्युपनिषत् ॥

    saṃnyāsīti ca sarvadharmānparityajya nirmamo
    nirahaṅkāro bhūtvā brahmeṣṭaṃ śaraṇamupagamya
    tattvamasi ahaṃ brahmāsmi sarvaṃ khalvidaṃ brahma
    neha nānāsti kiñcanetyādimahāvākyārthā-
    nubhavajñānādbrahmaivāhamasmīti niścitya
    nirvikalpasamādhinā svatantro yatiścarati sa saṃnyāsī
    sa muktaḥ sa pūjyaḥ sa yogī sa paramahaṃsaḥ so'vadhūtaḥ
    sa brāhmaṇa iti । idaṃ nirālambopaniṣadaṃ yo'dhīte
    gurvanugrahataḥ so'gnipūto bhavati sa vāyupūto bhavati
    na sa punarāvartate na sa punarāvartate punarnābhijāyate
    punarnābhijāyata ityupaniṣat ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति निरालम्बोपनिषत्समाप्ता ॥

    iti nirālambopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact