English Edition
    Library / Philosophy and Religion

    Dattatreya Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ श्रीदत्तात्रेयोपनिषत् ॥

    ॥ śrīdattātreyopaniṣat ॥

    दत्तात्रेयीब्रह्मविद्यासंवेद्यानन्दविग्रहम् ।

    dattātreyībrahmavidyāsaṃvedyānandavigraham ।

    त्रिपान्नारायणाकरं दत्तात्रेयमुपास्महे ॥

    tripānnārāyaṇākaraṃ dattātreyamupāsmahe ॥

    ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं
    पश्येमाक्षभिर्यजत्राः ।

    oṃ bhadraṃ karṇebhiḥ śruṇuyāma devā bhadraṃ
    paśyemākṣabhiryajatrāḥ ।

    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिर्व्यशेम
    देवहितं यदायुः ॥

    sthirairaṅgaistuṣṭuvām̐sastanūbhirvyaśema
    devahitaṃ yadāyuḥ ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः
    स्वस्ति नः पूषा विश्ववेदाः ।

    svasti na indro vṛddhaśravāḥ
    svasti naḥ pūṣā viśvavedāḥ ।

    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
    स्वस्ति नो बृहस्पतिर्दधातु ॥

    svasti nastārkṣyo ariṣṭanemiḥ
    svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥

    hariḥ oṃ ॥

    सत्यक्षेत्रे ब्रह्मा नारायणं महासाम्राज्यं किं
    तारकं तन्नो ब्रूहि भगवन्नित्युक्तः सत्यानन्द
    सात्त्विकं मामकं धामोपास्वेत्याह ।

    satyakṣetre brahmā nārāyaṇaṃ mahāsāmrājyaṃ kiṃ
    tārakaṃ tanno brūhi bhagavannityuktaḥ satyānanda
    sāttvikaṃ māmakaṃ dhāmopāsvetyāha ।

    सदा दत्तोऽहमस्मीति प्रत्येतत्संवदन्ति येन ते
    संसारिणो भवन्ति नारायणेनैवं विवक्षितो ब्रह्मा
    विश्वरूपधरं विष्णुं नारायणं दत्तात्रेअयं
    ध्यात्वा सद्वदति ।

    sadā datto'hamasmīti pratyetatsaṃvadanti yena te
    saṃsāriṇo bhavanti nārāyaṇenaivaṃ vivakṣito brahmā
    viśvarūpadharaṃ viṣṇuṃ nārāyaṇaṃ dattātreayaṃ
    dhyātvā sadvadati ।

    दमिति हंसः ।

    damiti haṃsaḥ ।

    दामिति दीर्घं तद्बीजं नाम बीजस्थम् ।

    dāmiti dīrghaṃ tadbījaṃ nāma bījastham ।

    दामित्येकाक्षरं भवति ।

    dāmityekākṣaraṃ bhavati ।

    तदेतत्तारकं भवति ।

    tadetattārakaṃ bhavati ।

    तदेवोपासितव्यं विज्ञेयं गर्भादितारणम् ।

    tadevopāsitavyaṃ vijñeyaṃ garbhāditāraṇam ।

    गायत्री छन्दः ।

    gāyatrī chandaḥ ।

    सदाशिव ऋषिः ।

    sadāśiva ṛṣiḥ ।

    दत्तात्रेयो देवता ।

    dattātreyo devatā ।

    वटबीजस्थमिव दत्तबीजस्थं सर्वं जगत् ।

    vaṭabījasthamiva dattabījasthaṃ sarvaṃ jagat ।

    एतदैवाक्षरं व्याख्यातम् ।

    etadaivākṣaraṃ vyākhyātam ।

    दत्तात्रेयषडक्षरमन्त्रः

    dattātreyaṣaḍakṣaramantraḥ

    व्याख्यास्ये षडक्षरम् ।

    vyākhyāsye ṣaḍakṣaram ।

    ओमिति प्रथमम् ।

    omiti prathamam ।

    श्रीमिति द्वितीयम् ।

    śrīmiti dvitīyam ।

    ह्रीमिति तृतीयम् ।

    hrīmiti tṛtīyam ।

    क्लीमिति चतुर्थम् ।

    klīmiti caturtham ।

    ग्लौमिति पञ्चमम् ।

    glaumiti pañcamam ।

    द्रामिति षट्कम् ।

    drāmiti ṣaṭkam ।

    षडक्षरोऽयं भवति ।

    ṣaḍakṣaro'yaṃ bhavati ।

    सर्वसम्पद्वृद्धिकरी भवति ।

    sarvasampadvṛddhikarī bhavati ।

    योगानुभवो भवति ।

    yogānubhavo bhavati ।

    गायत्री छन्दः ।

    gāyatrī chandaḥ ।

    सदाशिव ऋषिः ।

    sadāśiva ṛṣiḥ ।

    दत्तात्रेयो देवता ।

    dattātreyo devatā ।

    ॐ श्रीं ह्रीं क्लीं ग्लौं द्रां
    इति षडक्षरोऽयं भवति ।

    oṃ śrīṃ hrīṃ klīṃ glauṃ drāṃ
    iti ṣaḍakṣaro'yaṃ bhavati ।

    द्रमित्युक्त्वा द्रामित्युक्त्वा वा दत्तात्रेयाय नम
    इत्यष्टाक्षरः ।

    dramityuktvā drāmityuktvā vā dattātreyāya nama
    ityaṣṭākṣaraḥ ।

    दत्तात्रेयायेति सत्यानन्दचिदात्मकम् ।

    dattātreyāyeti satyānandacidātmakam ।

    नम इति पूर्णानन्दकविग्रहम् ।

    nama iti pūrṇānandakavigraham ।

    गायत्री छन्दः ।

    gāyatrī chandaḥ ।

    सदाशिव ऋषिः ।

    sadāśiva ṛṣiḥ ।

    दत्तात्रेयो देवता ।

    dattātreyo devatā ।

    दत्तात्रेयायेति कीलकम् ।

    dattātreyāyeti kīlakam ।

    तदेव बीजम् ।

    tadeva bījam ।

    नमः शक्तिर्भवति ।

    namaḥ śaktirbhavati ।

    ओमिति प्रथमम् ।

    omiti prathamam ।

    आमिति द्वितीयम् ।

    āmiti dvitīyam ।

    ह्रीमिति तृतीयम् ।

    hrīmiti tṛtīyam ।

    क्रोमिति चतुर्थम् ।

    kromiti caturtham ।

    एहीति तदेव वदेत् ।

    ehīti tadeva vadet ।

    दत्तात्रेयेति स्वाहेति मन्त्रराजोऽयं द्वादशाक्षरः ।

    dattātreyeti svāheti mantrarājo'yaṃ dvādaśākṣaraḥ ।

    जगती छन्दः ।

    jagatī chandaḥ ।

    सदाशिव ऋषिः ।

    sadāśiva ṛṣiḥ ।

    दत्तात्रेयो देवता ।

    dattātreyo devatā ।

    ओमिति बीजम् ।

    omiti bījam ।

    स्वाहेति शक्तिः ।

    svāheti śaktiḥ ।

    सम्बुद्धिरिति कीलकम् ।

    sambuddhiriti kīlakam ।

    द्रमिति हृदये ।

    dramiti hṛdaye ।

    ह्रीं क्लीमिति शीर्षे ।

    hrīṃ klīmiti śīrṣe ।

    एहीति शिखायाम् ।

    ehīti śikhāyām ।

    दत्तेति कवचे ।

    datteti kavace ।

    आत्रेयेति चक्षुषि ।

    ātreyeti cakṣuṣi ।

    स्वाहेत्यस्त्रे ।

    svāhetyastre ।

    तन्मयो भवति ।

    tanmayo bhavati ।

    य एवं वेद ।

    ya evaṃ veda ।

    षोडशाक्षरं व्याख्यास्ये ।

    ṣoḍaśākṣaraṃ vyākhyāsye ।

    प्राणं देयम् ।

    prāṇaṃ deyam ।

    मानं देयम् ।

    mānaṃ deyam ।

    चक्षुर्देयम् ।

    cakṣurdeyam ।

    श्रोत्रं देयम् ।

    śrotraṃ deyam ।

    षड्दशशिरश्छिनत्ति षोडशाक्षरमन्त्रे न
    देयो भवति ।

    ṣaḍdaśaśiraśchinatti ṣoḍaśākṣaramantre na
    deyo bhavati ।

    अतिसेवापरभक्तगुणवच्छिष्याय वदेत् ।

    atisevāparabhaktaguṇavacchiṣyāya vadet ।

    ओमिति प्रथमं भवति ।

    omiti prathamaṃ bhavati ।

    ऐमिति द्वितीयम् ।

    aimiti dvitīyam ।

    क्रोमिति तृतीयम् ।

    kromiti tṛtīyam ।

    क्लीमिति चतुर्थम् ।

    klīmiti caturtham ।

    क्लूमिति पञ्चमम् ।

    klūmiti pañcamam ।

    ह्रामिति षष्ठम् ।

    hrāmiti ṣaṣṭham ।

    ह्रीमिति सप्तमम् ।

    hrīmiti saptamam ।

    ह्रूमित्यष्टमम् ।

    hrūmityaṣṭamam ।

    सौरिति नवमम् ।

    sauriti navamam ।

    दत्तात्रेयायेति चतुर्दशम् ।

    dattātreyāyeti caturdaśam ।

    स्वाहेति षोडशम् ।

    svāheti ṣoḍaśam ।

    गायत्री छन्दः ।

    gāyatrī chandaḥ ।

    सदाशिव ऋषिः ।

    sadāśiva ṛṣiḥ ।

    दत्तात्रेयो देवता ।

    dattātreyo devatā ।

    ॐ बीजम् ।

    oṃ bījam ।

    स्वाहा शक्तिः ।

    svāhā śaktiḥ ।

    चतुर्थ्यन्तं कीलकम् ।

    caturthyantaṃ kīlakam ।

    ओमिति हृदये ।

    omiti hṛdaye ।

    क्लां क्लीं क्लूमिति शिखायाम् ।

    klāṃ klīṃ klūmiti śikhāyām ।

    सौरिति कवचे ।

    sauriti kavace ।

    चतुर्थ्यन्तं चक्षुषि ।

    caturthyantaṃ cakṣuṣi ।

    स्वाहेत्यस्त्रे ।

    svāhetyastre ।

    यो नित्यमधीयानः सच्चिदानन्द सुखी मोक्षी भवति ।

    yo nityamadhīyānaḥ saccidānanda sukhī mokṣī bhavati ।

    सौरित्यन्ते श्रीवैष्णव इत्युच्यते ।

    saurityante śrīvaiṣṇava ityucyate ।

    तज्जापी विष्णुरूपी भवति ।

    tajjāpī viṣṇurūpī bhavati ।

    अनुष्टुप् छन्दो व्याख्यास्ये ।

    anuṣṭup chando vyākhyāsye ।

    सर्वत्र सम्बुद्धिरिमानीत्युच्यन्ते ।

    sarvatra sambuddhirimānītyucyante ।

    दत्तात्रेय हरे कृष्ण उन्मत्तानन्ददायक ।

    dattātreya hare kṛṣṇa unmattānandadāyaka ।

    दिगम्बर मुने बालपिशाच ज्ञानसागर ॥ १॥

    digambara mune bālapiśāca jñānasāgara ॥ 1॥

    इत्युपनिषत् ।

    ityupaniṣat ।

    अनुष्टुप् छन्दः ।

    anuṣṭup chandaḥ ।

    सदाशिव ऋषिः ।

    sadāśiva ṛṣiḥ ।

    दत्तात्रेयो देवता दत्तात्रेयेति हृदये ।

    dattātreyo devatā dattātreyeti hṛdaye ।

    हरे कृष्णेति शीर्षे ।

    hare kṛṣṇeti śīrṣe ।

    उन्मत्तानन्देति शिखायाम् ।

    unmattānandeti śikhāyām ।

    दायकमुन इति कवचे ।

    dāyakamuna iti kavace ।

    दिगम्बरेति चक्षुषि ।

    digambareti cakṣuṣi ।

    पिशाचज्ञानसागरेत्यस्त्रे ।

    piśācajñānasāgaretyastre ।

    आनुष्टुभोऽयं मयाधीतः ।

    ānuṣṭubho'yaṃ mayādhītaḥ ।

    अब्रह्मजन्मदोषाश्च प्रणश्यन्ति ।

    abrahmajanmadoṣāśca praṇaśyanti ।

    सर्वोपकारी मोक्षी भवति ।

    sarvopakārī mokṣī bhavati ।

    य एवं वेदेत्युपनिषत् ॥ १॥

    ya evaṃ vedetyupaniṣat ॥ 1॥

    इति प्रथमः खण्डः ॥ १॥

    iti prathamaḥ khaṇḍaḥ ॥ 1॥

    ओमिति व्याहरेत् ।

    omiti vyāharet ।

    ॐ नमो भगवते दत्तात्रेयाय
    स्मरणमात्रसन्तुष्टाय महाभयनिवारणाय
    महाज्ञानप्रदाय चिदानन्दात्मने बालोन्मत्त-
    पिशाचवेषायेति महायोगिनेऽवधूतायेति
    अनसूयानन्दवर्धनायात्रिपुत्रायेति सर्वकामफल-
    प्रदाय ओमिति व्याहरेत् ।

    oṃ namo bhagavate dattātreyāya
    smaraṇamātrasantuṣṭāya mahābhayanivāraṇāya
    mahājñānapradāya cidānandātmane bālonmatta-
    piśācaveṣāyeti mahāyogine'vadhūtāyeti
    anasūyānandavardhanāyātriputrāyeti sarvakāmaphala-
    pradāya omiti vyāharet ।

    भवबन्धमोचनायेति ह्रीमिति व्याहरेत् ।

    bhavabandhamocanāyeti hrīmiti vyāharet ।

    सकलविभूति दायेति क्रोमिति व्याहरेत् ।

    sakalavibhūti dāyeti kromiti vyāharet ।

    साध्याकर्षणायेति सौरिति व्याहरेत् ।

    sādhyākarṣaṇāyeti sauriti vyāharet ।

    सर्वमनः-क्षोभणायेति श्रीमिति व्याहरेत् ।

    sarvamanaḥ-kṣobhaṇāyeti śrīmiti vyāharet ।

    महोमिति व्याहरेत् ।

    mahomiti vyāharet ।

    चिरञ्जीविने वषडिति व्याहरेत् ।

    cirañjīvine vaṣaḍiti vyāharet ।

    वशीकुरुवशीकुरु वौषडिति व्याहरेत् ।

    vaśīkuruvaśīkuru vauṣaḍiti vyāharet ।

    आकर्षयाकर्षय हुमिति व्याहरेत् ।

    ākarṣayākarṣaya humiti vyāharet ।

    विद्वेषयविद्वेषय फडिति व्याहरेत् ।

    vidveṣayavidveṣaya phaḍiti vyāharet ।

    उच्चाटयोच्चाटय ठठेति व्याहरेत् ।

    uccāṭayoccāṭaya ṭhaṭheti vyāharet ।

    स्तम्भय-स्तम्भय खखेति व्याहरेत् ।

    stambhaya-stambhaya khakheti vyāharet ।

    मारयमारय नमः सम्पन्नाय नमः सम्पन्नाय स्वाहा
    पोषयपोषय
    परमन्त्रपरयन्त्रपरतन्त्रांश्छिन्धिच्छिन्धि
    ग्रहान्निवारयनिवारय व्याधीन्निवारयनिवारय दुःखं
    हरयहरय दारिद्र्यं विद्रावयविद्रावय देहं
    पोषयपोषय चित्तं तोषयतोषयेति सर्वमन्त्र-
    सर्वयन्त्रसर्वतन्त्रसर्वपल्लवस्वरूपायेति
    ॐ नमः शिवायेत्युपनिषत् ॥ २॥

    mārayamāraya namaḥ sampannāya namaḥ sampannāya svāhā
    poṣayapoṣaya
    paramantraparayantraparatantrāṃśchindhicchindhi
    grahānnivārayanivāraya vyādhīnnivārayanivāraya duḥkhaṃ
    harayaharaya dāridryaṃ vidrāvayavidrāvaya dehaṃ
    poṣayapoṣaya cittaṃ toṣayatoṣayeti sarvamantra-
    sarvayantrasarvatantrasarvapallavasvarūpāyeti
    oṃ namaḥ śivāyetyupaniṣat ॥ 2॥

    इति द्वितीयः खण्डः ॥ २॥

    iti dvitīyaḥ khaṇḍaḥ ॥ 2॥

    य एवं वेद ।

    ya evaṃ veda ।

    अनुष्टुप् छन्दः ।

    anuṣṭup chandaḥ ।

    सदाशिव ऋषिः ।

    sadāśiva ṛṣiḥ ।

    दत्तात्रेयो देवता ।

    dattātreyo devatā ।

    ओमिति बीजम् ।

    omiti bījam ।

    स्वाहेति शक्तिः ।

    svāheti śaktiḥ ।

    द्रामिति कीलकम् ।

    drāmiti kīlakam ।

    अष्टमूर्त्यष्टमन्त्रा भवन्ति ।

    aṣṭamūrtyaṣṭamantrā bhavanti ।

    यो नित्यमधीते वाय्वग्निसोमादित्यब्रह्मविष्णुरुद्रैः
    पूतो भवति ।

    yo nityamadhīte vāyvagnisomādityabrahmaviṣṇurudraiḥ
    pūto bhavati ।

    गायत्र्या शतसहस्रं जप्तं भवति ।

    gāyatryā śatasahasraṃ japtaṃ bhavati ।

    महारुद्रशतसहस्रजापी भवति ।

    mahārudraśatasahasrajāpī bhavati ।

    प्रणवायुतकोटिजप्तो भवति ।

    praṇavāyutakoṭijapto bhavati ।

    शतपूर्वाञ्छतापरान्पुनाति ।

    śatapūrvāñchatāparānpunāti ।

    स पङ्क्तिपावनो भवति ।

    sa paṅktipāvano bhavati ।

    ब्रह्महत्यादिपातकैर्मुक्तो भवति ।

    brahmahatyādipātakairmukto bhavati ।

    गोहत्यादिपातकैर्मुक्तो भवति ।

    gohatyādipātakairmukto bhavati ।

    तुलापुरुषादिदानैः प्रपापानतः पूतो भवति ।

    tulāpuruṣādidānaiḥ prapāpānataḥ pūto bhavati ।

    अशेषपापान्मुक्तो भवति ।

    aśeṣapāpānmukto bhavati ।

    भक्ष्याभक्ष्यपापैर्मुक्तो भवति ।

    bhakṣyābhakṣyapāpairmukto bhavati ।

    सर्वमन्त्रयोगपारीणो भवति ।

    sarvamantrayogapārīṇo bhavati ।

    स एव ब्राह्मणो भवति ।

    sa eva brāhmaṇo bhavati ।

    तस्माच्छिष्यं भक्तं प्रतिगृह्णीयात् ।

    tasmācchiṣyaṃ bhaktaṃ pratigṛhṇīyāt ।

    सोऽनन्तफलमश्नुते ।

    so'nantaphalamaśnute ।

    स जीवन्मुक्तो भवतीत्याह भगवान्नारायणो
    ब्रह्माणमित्युपनिषत् ॥

    sa jīvanmukto bhavatītyāha bhagavānnārāyaṇo
    brahmāṇamityupaniṣat ॥

    ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं
    पश्येमाक्षभिर्यजत्राः ॥

    oṃ bhadraṃ karṇebhiḥ śruṇuyāma devā bhadraṃ
    paśyemākṣabhiryajatrāḥ ॥

    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिर्व्यशेम
    देवहितं यदायुः ॥

    sthirairaṅgaistuṣṭuvām̐sastanūbhirvyaśema
    devahitaṃ yadāyuḥ ॥

    ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः
    स्वस्ति नः पूषा विश्ववेदाः ।

    oṃ svasti na indro vṛddhaśravāḥ
    svasti naḥ pūṣā viśvavedāḥ ।

    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
    स्वस्ति नो बृहस्पतिर्दधातु ॥

    svasti nastārkṣyo ariṣṭanemiḥ
    svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ तत्सत् ॥

    hariḥ oṃ tatsat ॥

    इति दत्तात्रेयोपनिषत्समाप्ता ॥

    iti dattātreyopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact